________________
१७६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततः सुलसा पुनरुवाच-असत्यप्रकारेण शासनस्य न प्रभावना किन्त्वप्रभावनैव भवति" । ततोऽम्बडस्तां सर्वथा स्थिरां बुद्ध्वा सजातविश्वासो दध्यौ-"प्रभुः सभायामिमां यत् सम्भावितवान्, तद् युक्तम् । यतो मया माययाऽपीयं सम्यक्त्वाद् न चालिता" । ततः स सर्वं प्रपञ्चं संहृत्य स्वेन रूपेणैव नैषेधिकीं वदन् सुलसागृहं प्राविशत् । सुलसा चाऽभ्युत्थाय स्वागतं व्याहृत्य पादौ वत्सला मातेव प्रक्षाल्य निजानि गृहचैत्यानि तं वन्दयामास । सोऽम्बडश्च तच्चैत्यानि वन्दित्वा सुलसामुवाच-"त्वं मम वाचा नित्याऽनित्यानि चैत्यानि वन्दस्व" । ततः सा तथैव चकार ।
ततः सोऽम्बडः पुनः सुलसामुवाच-"त्वं पुण्यशालिन्यसि, यस्या वार्ता वीरप्रभुर्मन्मुखेन पृच्छति" । तदाकर्ण्य च मुदिता सा प्रभु वन्दित्वा पुलकिताङ्गा तुष्टाव । ततश्चतुरोऽम्बडः पुनस्तां परीक्षितुमुवाच-"ब्रह्मादयोऽत्राऽऽगत्य धर्म व्याचख्युः । तान् वन्दितुं च पौरा जग्मुर्धर्म च शुश्रुवुः । त्वं कुतूहलेनाऽपि किं न गतवती ?" ___ ततः सुलसोवाच-"महाभाग् ! तान् जानन्नपि किमन्य इवैवं वदसि । के ब्रह्माद्या: ? ते हि हिंसका दारादिपरिग्रहपराश्च स्वयमधर्मपरायणाः कं धर्म देक्ष्यन्ति । वीरजिनमाप्तं दृष्ट्वा तदुक्तधर्म प्रतिपद्य च कस्तान् द्रष्टुमप्युत्सहेत" । ततोऽम्बडः साधु साध्विति वदन् प्रमुदितः स्वं धाम जगाम । सुलसाऽपि च जैनमनिन्द्यमुत्कृष्टं धर्मं सदा हृदि धारयामास ॥ ९ ॥
इति दशमे पर्वणि हालिक-प्रसन्नचन्द्र-दर्दुराङ्कदेवश्रेणिकभावितीर्थकरत्व-सालमहासाल-गौतमाष्टापदारोहण
अम्बड-सुलसाचरितवर्णनात्मको नवमः सर्गः ॥९॥