________________
१७२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः उवाच-"भवदुक्तं सत्यं, तथाऽपि प्रतिज्ञातं पालनीयमिति निश्चित प्रव्रजिष्यामि" । ततश्च कण्डरीकः प्राव्राजीत्। पुण्डरीकश्च सचिवैर्निवारितो भावयतिगृहे तस्थौ ।
अथ कण्डरीको विविधतपःपरायणः कृशाङ्गः सामाचारीपालनात् साधूनां प्रियो जातः । अन्यदा च वसन्तौ विजृम्भमाणे चारित्रावरणोदयाद् मुनेः कण्डरीकस्य मनः क्षुब्धं जातम् । तत: स दध्यौ-"ममाऽनया प्रव्रज्ययाऽलं. तद्रत्वा पराऽपि भ्रात्रा दत्तं राज्यं ग्रहीष्यामि" । एवं विचार्य पुण्डरीकिणीं गत्वोद्याने तरुतले शाखायां पात्रादिकं लम्बयित्वा हरिततृणशय्यायामलुठत् । वनपालेन च स्वं नृपाय ज्ञापयामास ।
नृपश्च ससचिवस्तत्राऽऽगत्य तमवन्दत । तथा तं वृक्षबद्धोपकरणं हरितस्रस्तरस्थं व्रतनिर्विण्णमनुमाय नृप उवाच-"भोः सर्वे ! स्मरथ किम् ? यत् तदाऽयं बालो रभसाद्दीक्षां जिघृक्षुर्मया वारितः"। एवमुक्त्वा स कण्डरीकं राज्ये निवेश्य राज्यचिह्नानि दत्त्वा पुण्डरीको यतिलिङ्गमुपादाय स्वयं प्रव्रज्य शुद्धमना विजहार । ___अथ कण्डरीको भग्नव्रतो रङ्क इवाऽन्नार्थी कृश इति सेवकैर्हस्यमानो मनसि नितान्तं चुकोप । तथा प्रथम भुक्त्वा पश्चादेषां प्रहासिनां वधादि करिष्यामीति विचारयन् गृहं गत्वा यदृच्छया जघन्य-मध्यमोत्कृष्टान् त्रिधाऽऽहारानाकण्ठं भुक्तवान् । रात्री भोगजागरणाद् दुर्जराहाराच्च तस्य विषूचिकोत्पन्ना, महत्यप्रीतिश्च मनसि जाता । तथा तस्य भस्त्रेव वायुपूरितमुदरमुत्फुल्लम्, पवनो निरुद्धः, तृष्णादाहश्च ववृधे । नियोगिभिश्च भ्रष्टप्रतिज्ञोऽसाविति विचार्य न तस्य चिकित्सा कारिता । ततः पीडितः स दध्यौ-"यदि कथञ्चिदिमां रात्रिमतिवाहयामि तदा प्रभाते सर्वानमून् नियोगिनः
दशमं पर्व - नवमः सर्गः
१७३ सकुटुम्बान् हनिष्यामि" । एवं कृष्णलेश्यावान् रौद्रध्यानी स मृतः सप्तमं नरकं ययौ ।
अथ पुण्डरीको लब्धं व्रतं गुरुसाक्षिकं करोमीति ध्यात्वा सद्गुरुं प्रति प्रतस्थे । सुगुरोः समीपं गत्वा च व्रतं पुनरादायाऽष्टमस्याऽन्ते पारणां चकार । तथा स वेलातिक्रमेण कृतैः शीतरूक्षाहारैः पीडितः सुकुमारतनुर्भुवि चलनेन रक्ताक्तचरणो जातश्रमो ग्रामे भिक्षित्वोपाश्रये तृणसंस्तरे उपविष्टः । ततस्स कदा गुरुपार्श्वे प्रव्रजिष्यामीति चिन्तयन् शुभध्यानपरायणः स्थूलतनुरपि विपद्य सर्वार्थसिद्धं जगाम ।
तस्मात् स्थूलत्वं कृशाङ्गत्वं वा न तपस्वित्वे प्रमाणम् । यतः शुभध्यानमेव मोक्षसाधनम् । एतदर्थं च कुबेरसामानिकदेव एकनिष्ठया गौतमोक्तं पुण्डरीकाध्ययनं जग्राह । तथा स सुरः सम्यक्त्वं प्रतिपद्य स्वाभिप्रायज्ञं गौतमं नत्वा प्रसन्नः स्वं धाम ययौ ।
अथ गौतमस्वामी तत्र तां रात्रिमतिवाह्य प्रात: पर्वतादवतरंस्तैस्तापसैदृष्टः । तापसाश्च तं प्रणम्योचुः-"महात्मन् । वयं तव शिष्यीभविष्यामः, त्वमस्माकं गुरुर्भव" । ततो गौतमस्तानुवाच"मम गुरुः सर्वज्ञो वीरजिन एव भवतां गुरुरस्तु" । तथाऽप्याग्रहपरांस्तान् गौतमो दीक्षयामास । देवता च तेषां यतिलिङ्गमर्पितवती । ततस्ते गौतमेन सह प्रभोः समीपं गन्तुं प्रतस्थिरे । मार्गे चैकस्मिन् ग्रामे भिक्षाकाले गौतमस्तान् वः पारणा) किमानयामीति पप्रच्छ । तैश्च पायसमित्युक्ते गौतमो लब्ध्या स्वोदरपूरणमात्रं पायसं पात्रे कृत्वाऽऽनीय तानुवाच-"मुनयः ! उपविशन्तु, अनेन पायसेन ययं सर्वे पारणं करुत" । ते सर्वे चाऽल्पं पायसं दृष्ट्वाऽपि गुरुश्रद्धयोपविविशुः ।