________________
me
..१७१
१७०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ खिन्नो गौतमो दध्यौ-"किं मम केवलं नोत्पत्स्यते ? इह भवे किं न सेत्स्यामि?" तथा स योऽष्टापदे जिनान् नत्वा रात्रि वसेत् सोऽत्रैव भवे सिद्धयेदित्यर्हदुक्तमिति सुरोक्तं सस्मार । देवतावचो विश्वासाच्च तदानीमेव स गौतमस्तीर्थकृद्वन्दनार्थमष्टापदं गन्तुमैच्छत् । प्रभुश्च सर्वज्ञस्तदाशयं विज्ञायाऽष्टापदेऽर्हद्वन्दनाय गौतममादिदेश । स्वमनोरथानुरूपां प्रभोराज्ञां प्राप्य गौतमो मुदितश्चारणलब्ध्या वायुवत् क्षणादेवाऽष्टापदं जगाम ।
इतश्च तपस्विनोऽष्टापदं मोक्षसाधकं श्रुत्वा तदारोढुं कौण्डिन्यदत्त-शेवालाः समुपस्थिताः । तेष्वाद्य: सदा चतुर्थकृदाकन्दादिपारणकृच्च तपस्विनां पञ्चशत्या सार्धमाद्यां मेखलां प्राप । द्वितीयश्च शुष्ककन्दादिपारणेन षष्ठकृत् तपस्विनां पञ्चशत्या साध द्वितीयां मेखलां प्राप । तृतीयश्च शुष्कशेवालपारणेनाऽष्टमकृत् तपस्विनां पञ्चशत्या सह तृतीयां मेखलां प्राप । तत ऊर्ध्वमारोढुमक्षमास्ते यावदुन्मुखास्तस्थुस्तावद् गौतमं पुष्टगात्रं सुवर्णकान्ति ददृशुः । ततस्ते परस्परमूचुः-"वयं कृशा अप्येतं गिरिमारोढुं न क्षमाः, अयं स्थूलगात्रः कथमारोक्ष्यति ?" एवं वदत्सु तेषु गौतमस्तं महागिरि समारुरोह, देव इव च क्षणाददृश्यो जातः ।
ततस्ते तपस्विनः पुनरूचुः-"अस्य मुनेः काऽपि शक्तिरस्ति, तद्यद्यसावागमिष्यति तदा वयं तस्य शिष्यीभविष्यामः" । एवं विचार्य ते तापसास्तं प्रत्यागच्छन्तं सौत्सुक्यं प्रतीक्षमाणास्तस्थुः । गौतमश्च भरतचक्रिनिर्मितं चैत्यं गत्वा चतुर्विशति जिनबिम्बान्यन्यबिम्बानि च परया भक्त्या ववन्दे । ततो निर्गत्य चाऽशोकतरुतले सुरा-ऽसुरैर्वन्द्यमानो गौतम उपविश्य धर्मदेशनां चकार । संशयच्छेदाच्च तैरयं केवलीति तर्कितश्च । देशनां कुर्वंश्च स
दशमं पर्व - नवमः सर्गः प्रसङ्गादुवाच-"अस्थिचर्मावशेषा दुःखभाजो ब्रुवन्तोऽपि जीवसद्भावाद् गमनशीला उग्रतपस्विनः साधवो भवन्ति" । तच्छ्रुत्वा च वैश्रवणो गौतमस्य स्थौल्यं निरूपयन् स्वस्मिन् विसंवादि वागसाविति स्मितं चकार । ततो मनःपर्ययज्ञानीन्द्रभूतिस्तद्भावं ज्ञात्वोवाच-"तपस्विनो नाऽङ्गकृशता प्रमाणं, किन्तु ध्याननिग्रह एव" |
तथाहि-जम्बूद्वीपे महाविदेहे पुष्कलावत्यां विजये पुण्डरीकिणीनगर्यां महापद्मो नृपो बभूव । तस्य च पद्मावत्यां भार्यायां पुण्डरीक-कण्डरीको पुत्रौ बभूवतुः । एकदा च नलिनवनाख्ये उपवने समागतानां साधूनां समीपे महापद्मनृपो धर्मदेशनां श्रुत्वा प्रतिबुद्धो राज्ये पुण्डरीकं न्यस्य व्रतमग्रहीत् । केवले उत्पन्ने च कर्मक्षयाद् मोक्षमाप च । ___अथाऽन्यदा ते साधवः पुण्डरीकिण्यां पुनराययुः । तौ पुण्डरीक कण्डरीकौ च धर्मदेशनां शुश्रुवतुः । तत्र पुण्डरीकः प्रबुद्धो भावयतिर्भूत्वा गृहं गत्वा मन्त्रिणां समक्षं कण्डरीकमुवाच"त्वं पैतृकं राज्यं गृहाण, अहं भवोद्विग्नो दीक्षां ग्रहीष्यामि" । तत: कण्डरीक उवाच-"किं मां भवे पातयसि, अहं भवोच्छेदाय प्रव्रजिष्यामि" ।
ततो नृपेण पुन: पुन: साग्रहमुक्तोऽपि राज्यमस्वीकुर्वन् कण्डरीको व्रतायाऽनुज्ञातः । तथा नृपः कण्डरीकमुवाच"इन्द्रियाणि दुर्निग्रहाणि, मनश्च सदा चञ्चलं, यौवनं च विकारास्पदम् । नराणां प्रमादश्च सहजः, परीषहोपसर्गाश्च दुःसहाः, प्रव्रज्या च दुष्करा । तत्त्वया दृढप्रतिज्ञेन भाव्यम् । अथवा श्रावकधर्म गृहीत्वा राज्यं कुरु, यौवने गते प्रव्रजिष्यसि" । ततश्च कण्डरीक