________________
दशमं पर्व - नवमः सर्गः विधायाऽवधीत्" । ततः श्रेणिको गत्वा तत्तथैव दृष्ट्वोद्विग्न: स्वपुराकृतं निनिन्द।
१६८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स देवः साध्वीं गर्भवती नृपस्य दर्शयामास । नृपश्च शासनभक्तस्तां स्वगृहे जुगोप । ततो देवः प्रत्यक्षीभूय तं नृपं साधु साध्वित्यभिनन्द्य 'गिरिः स्वस्थानादिव सम्यक्त्वाद् न चालितोऽसि । नृप ! शक्रः सभायां यादृशं त्वामवर्णयत् तादृश एव दृष्टोऽसी'त्युक्त्वा दिनेऽपि नक्षत्रश्रेणिवद् विराजमानं हारं गोलकद्वयं च श्रेणिकाय दत्त्वा योऽमुं हारं त्रुटितं संधास्यते स मरिष्यतीत्युपदिश्य स्वप्नदृष्ट इवाऽन्तर्दधौ।
नृपश्च दिव्यं मनोहरं हारं चेलणायै गोलकद्वयं च नन्दायै प्रादात् । तदा नन्दा हाराप्राप्तेः सेा तद्गोलकद्वयं स्तम्भे आस्फाल्य स्फोटयामास । तेन चैकस्माद् गोलकाच्चन्द्रयुग्ममिव निर्मलं कुण्डलद्वयं परस्मात् क्षौमद्वयं च निर्गतम् । ततः सानन्दा नन्दा तानि दिव्यानि रत्नान्यग्रहीत् ।
अथ नृपः कपिलामुवाच-“श्रद्धया साधुभ्यो भिक्षां देहि, तथाकृते च त्वां धनैर्धनाढ्यां करिष्यामि" | ततः कपिलोवाच-'त्वं मां सर्वाङ्गं स्वर्णमयीं करोषि हंसि वा तथाऽप्येतत् कुकर्म कर्तुं नाऽहं प्रभवामि" । ततो नृपः कालसौकरिकं कथयामास-"प्राणिहिंसा त्यज, तुभ्यं प्रभूतमर्थं दास्यामि, लोभादेव हि त्वं प्राणिहिंसा करोषि" । ततः कालसौकरिक उवाच-"प्राणिहिंसा न दोषाय, तया हि बहवो मनुष्या जीवन्ति, तत्तां जातुचिद् न त्यजामि" । ततो नृपः कूपे प्राणिहिंसाव्यापारं कर्तुं नाऽयं क्षम इति कालसौकरिकमहोरात्रं कूपे क्षिप्त्वाऽधारयत् । तथा कालसौकरिकोऽहोरात्रं सूनां त्याजित इति गत्वा वीराय भगवते निवेदयामास । ततः सर्वज्ञः प्रभुरुवाच-"नृप ! सोऽन्धकूपेऽपि महिषाणां मृन्मयीं पञ्चशती
अथ वीरप्रभुः सपरिच्छदो विहृत्य पृष्ठचम्पापुरी जगाम । तत्र च सालो नृपस्तद्बन्धुर्युवराजो महासालश्च समुपगम्य वीरजिनं प्रणम्य देशनां श्रुत्वा प्रबुद्धौ यशोमती-पिठरयोः पुत्रं भागिनेयं गागलिं स्वयं राज्येऽभिषिच्य भववासविरक्तो वीरजिनपार्श्वे व्रतं जगृहतुः ।
अथ विहरन् प्रभुर्वीरः सपरिच्छदः कालान्तरे चम्पापुरी जगाम । तथा ततो गौतमः प्रभोरनुज्ञया साल-महासालसहित: पृष्ठचम्पापुरीं ययौ । तत्र च गागलिनूपो भक्तया गौतमं ववन्दे । तत्पितरावन्ये सचिव-नागरादयश्च गौतमं ववन्दिरे । तथा तत्र चतुर्ज्ञान इन्द्रभूतिर्देवकृते सौवर्णे कमलासने समासीनो धर्मदेशनां चकार ।
तेन प्रतिबुद्धो गागलिः पुत्र राज्ये न्यस्य पितृभ्यां सह गौतमगणधरपादान्ते दीक्षां ललौ । ततस्तैस्त्रिभिः सालमहासालाभ्यां च समन्वितो गौतमो गणभृच्चम्पायां प्रभुं वन्दितुं प्रतस्थे । गौतममनुसरतां च तेषां पञ्चानामपि भावशुद्धिवशात् केवलमुत्पन्नम् । ततस्ते सर्वेऽपि चम्पां प्राप्ताः । ते पञ्चाऽपि प्रभु प्रदक्षिणीचक्रुः । गौतमश्च प्रभुं प्रणनाम । ते पञ्चाऽपि तीर्थं नत्वा केवलिपर्षदि प्रचेलुः । ततो गौतमस्तान् प्रभुं वन्दध्वमित्युवाच । ततो वीरप्रभुरुवाच-"गौतम ! केवल्याशातनां मा कृथाः" । ततो गौतमस्तान् मिथ्यादुष्कृतपूर्वकमक्षमयत् ।