________________
दशमं पर्व-नवमः सर्गः
१६६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तथा तस्य कृमिभिः सह विरेचनमभूत् । एवं कतिपयैदिनैः पीतेन हृद्जलेन नीरोगो वसन्तर्तुना वृक्ष इव मनोहरावयवो जातः स द्विजो हृष्टो वलित्वा शीघ्रं स्वगृहं प्रतस्थे । नगरे प्रविशंश्च विस्मितैर्नागरैस्तथा दीप्यमानतनुर्दृष्टः कथं नीरोगो जातोऽसीति पृष्टश्च स द्विजो देवताराधनफलमेतदित्युवाच । स्वगृहं गत्वा च पुत्रान् कुष्ठिनो दृष्ट्वा मुदितो मयाऽपमानफलं साधु प्रापिता इति तानवदत् । ____ ततः पुत्रास्तमूचुः-"पितर्विश्वस्तेष्वस्मासु निष्कृपेण शत्रुणेव त्वयेदं किमाचरितम् ?" ततः स लोकैराक्रुश्यमानस्तव पुरमागत्य निराश्रयो द्वारपालं जीविकारथमशिश्रियत् । तदानीं चाऽत्राऽऽगतस्य मम धर्मदेशनां श्रोतुं द्वारपालस्तं द्विजं स्वस्थाने मुक्त्वा प्रचलितः ।
स द्विजश्च द्वारोपविष्टो द्वारदुर्गाग्रे क्षुधातॊ यथेष्टं बलि भुक्त्वाऽन्नदोषाद् ग्रीष्मोष्मणा च मरुपान्थ इव तृष्णयाऽऽकुलीकृतः । द्वारपालभयाच्च स्थानं त्यक्त्वा प्रपादिषु न जगाम । ततस्तृषार्त्तः स जलं जलमित्यारटन् वारिचरान् जीवान् धन्यान् भावयन् विपन्न इहैव नगरद्वारवाप्यां भेको जातः । विहारक्रमाद् मयि पुनरिहाऽऽगते चाऽस्मद्वन्दनार्थं ससम्भ्रमं लोकाः प्रचेलुः । स दर्दुरश्च जलहारिणीमुखादस्मदागमनवृत्तान्तं श्रुत्वा दध्यौ-"अहमेतत् क्वाऽपि श्रुतपूर्वी" । एवमूहापोहं कुर्वतस्तस्य स्वप्नस्मरणवत् तत्क्षणं जातिस्मरणमुत्पन्नम् ।
ततः स भेकः पुनर्दध्यौ-'पुरा मां द्वारे स्थापयित्वा द्वारपालो यं वन्दितुमगात्, स भगवान् पुनरिहाऽऽगतोऽस्ति, तदहमपि तं द्रष्टं यास्यामि" । ततः सोऽस्मद्वन्दनार्थमुत्प्लुत्योत्प्लुत्य मार्गे समागच्छंस्तवाऽश्वखुरक्षुण्णो विपन्नोऽस्मद्भक्तिभावनयाऽयं दर्दुराङ्को देवो जातः । इन्द्रश्च सभायामार्हताः श्रेणिकाद् हीना इत्युवाच ।
तदश्रद्दधानश्चाऽयं त्वत्परीक्षार्थमागतो गोशीर्षचन्दनैर्मम चरणौ पूजयंस्त्वदृष्टिमोहनाय सर्वमन्यद् वैक्रियं चकार । ____ ततः श्रेणिकः प्रभुमुवाच-"प्रभोः क्षुतेऽमङ्गल्यमन्येषां तु मङ्गल्यामङ्गल्यानीत्येवमेष किमभ्यधात् ?" ततः प्रभुरुवाच-"अयं मामवदत्-प्रभो ! किमद्याऽपि भवे तिष्ठसि, शीघ्रं मोक्षं व्रज, म्रियस्व। त्वां च जीवेत्यवोचत्, यतस्तव जीवतः सुखं, विपन्नस्य हि तव नरके गतिः । अभयश्च जीवन् धर्ममाचरन् विपन्नोऽनुत्तरं विमानं यास्यति । तेनाऽयमभयस्य जीव म्रियस्व वेति जगाद । कालसौकरिकश्च जीवन् पापपरायणो मृतः सप्तमं नरकं गमीति तस्य मा जीव मा मृथा इत्युक्तवान्" ।
अथ तच्छृत्वा श्रेणिको नत्वा भगवन्तमुवाच-"प्रभो ! त्वद्भक्तस्य मम कथं नरके गति: ?" ततो वीरप्रभुरुवाच-"नृप ! त्वं पुरा बद्धनरकायुरसि । तत्तव गतिस्तत्राऽवश्यं भविष्यति, शुभाऽशुभकर्मफलमवश्यमेव भोक्तव्यम् । वयमपि तद् नाऽन्यथाकर्तुमीश्महे। त्वं भाविजिनचतुर्विशतावाद्यः पद्मनाभाभिधो भविष्यसि । तत्खेदं मा गाः" । ततः श्रेणिक उवाच-"प्रभो ! नरकत: कोऽपि रक्षोपायोऽस्ति किम्" । ततो भगवानुवाच-'यदि कपिलया ब्राह्मण्या साधुभ्यो भक्तिपूर्वकं भिक्षां दापयसे,तथा कालसौकरिकेण हिंसा त्याजयसे तदा तव नरकाद मोक्षो नाऽन्यथा" । तच्छत्वा स श्रेणिकस्तमुपदेशं सम्यगिति हृदि निधाय वीरजिनं प्रणम्य स्वस्थानं प्रति प्रतस्थे ।
अत्राऽवसरे च नृपस्य परीक्षार्थं दर्दुराङ्को देवः साधुवेष: स्वं धीवरमिवाऽकार्यं कुर्वन्तं दर्शितवान् । नृपश्च तं दृष्ट्वा प्रवचनस्य मालिन्यं मा भूदिति साम्ना तमकार्यतो निवार्य स्वगृहमगात् । ततः