________________
१६४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः लाभो न सम्भाव्यते" । ततः सोवाच-गत्वा नृपमेव याचस्व, मह्यां हि नृप एव कल्पतरुः" । ततः स द्विजस्तत् प्रतिपद्य रत्नार्थी समुद्रमिव पुष्प-फलादिना नृपं सेवितुं प्रावर्त्तत ।
___ एकदा च चम्पेशोऽतलैः सैन्यैः कौशाम्बी समन्ताद् रुरोध । शतानीकश्च ससैन्यो बिले सर्प इवाऽवसरं प्रतीक्षमाणो नगर एव तस्थौ । ततश्चम्पेशो द्राधीयसा कालेन सैनिकनाशात् प्रावृषि प्रवृत्तायां राजहंस इव स्वाश्रयं प्रस्थितवान् । तदानीं चोद्याने पुष्पार्थ गत: सेडुकस्तं क्षीणसेन्यं दृष्ट्वा सत्वरमागत्य शतानीकमुवाच"नष्टदंष्ट्रोऽहिरिव नष्टसैन्यस्तव शत्रुर्याति, अधुनोत्थितेन त्वया स सुनिग्राह्यः" । शतानीकश्च तद्वचः साध्विति मत्वा ससैन्यः सर्वाभिसारेण शरान् वर्षन् नगराद् निर्जगाम । ततश्चम्पेशसैनिका भयात् काकनाशं प्रणष्टाः । चम्पेशश्चैकाकी कान्दिशीकः पलायितवान् ।
शतानीकश्च तद्धस्ति-हय-कोशादि गृहीत्वा हृष्टः कौशाम्बी प्रविश्य तुभ्यं किं ददानीति सेडुकमुवाच । स द्विजश्च निजभा पृष्ट्वा याचिष्ये इत्युक्त्वा हृष्टो गत्वा ब्राह्मण्यै सर्वं वृत्तं कथयामास । ततो धीमती सा दध्यौ-"यदि नृपाद् ग्रामादिकान् याचितुं प्रेरयामि तदाऽसौ विभवमत्तोऽपरा: स्त्रियः करिष्यति" । एवं विचार्य सा "प्रतिदिनमेकवारं दर्शनमग्रासनभोजनं दीनारो दक्षिणा च याच्यतामि"ति पतिमुवाच । विप्रेण तथा याचितश्च नृपो घट: समुद्रमपि प्राप्य स्वयोग्यं जलमेव गृह्णातीति वदंस्तत् प्रादात् ।
ततः स द्विजः प्रतिदिनं स्वयाचितं सम्मानं च प्राप । नृपमान्यत्वाच्च स लोकैः प्रतिदिनं न्यमन्त्र्यत च । ततः स पूर्व भुक्तं वमयित्वाऽपि दक्षिणालोभात् प्रतिदिनमनेकवारमभुक्त । तेन च दक्षिणाधनेन स नित्यं वृद्धिमापत् । शाखाभियग्रोधपादप इव च
दशमं पर्व - नवमः सर्गः पुत्र-पौत्राद्यैः प्रसृतोऽभूत् । किन्तु प्रतिदिनमपक्वान्नवमनादामानां रसानामूर्ध्वगमनाल्लाक्षया पिप्पल इव दुषितः क्रमात कष्ठी जातोऽपि नृपाग्रे प्रत्यहमतृप्ताग्निरिव बुभुजे ।
तदैकदा सचिवा नृपमूचुः-“देव ! कुष्ठ्यसौ जातः, कुष्ठरोगश्च सङ्क्रमणशील इत्यस्येह भोजनं नोचितम् । अस्य कोऽपि नीरोग: पुत्र एवेह भोज्यताम्" । राशि च तत् प्रतिपेदाने सचिवैस्तथोक्तो द्विजः स्वस्थाने पुत्र स्थापयित्वा स्वयं गृह एव तस्थौ । अनन्तरं च कुष्ठेऽत्यन्तं प्रकुपिते मक्षिकामालाभिरुपद्रुतः स पुत्रैरपि बहिः कुटीरे स्थापितः । तत्र च तं पुत्रवध्वः सजगप्सा भोजयितुं जग्मः। पुत्राश्चाऽपि बहि:स्थितास्तदाज्ञां न मेनिरे । काष्ठपात्रे च तस्य शुन इव भोजनं ददुः ।
तत: सेडुको द्विजो दध्यौ-"मयेमे धनाढ्याः कृताः । किन्तु तीर्णजलैनौकेवैभिरहमिदानीमनादराद् मुक्तोऽस्मि । मां वचनेनाऽपि न सम्भावयन्ति, किन्तु कटुवाभिमा॑ रोषयन्त्येव । तद्यथेमे मां जुगुप्सन्ते तथेमेऽपि जुगुप्स्याः स्युरिति मया कर्त्तव्यमि"ति ध्यात्वा पुत्रानुवाच-"अहं जीवितादुद्विग्नोऽस्मि, किन्तु मुमूर्षुभिर्मन्त्रोक्षितः पशुः कुटुम्बस्य देय इति स्वकुलाचारोऽस्ति । तदेक: पशुरानीयताम्", ते च पशुवज्जडा: पशुमानिन्युः । ततः स सेडुकः पशु चारयन् स्वाङ्गरसादिसम्पर्कात् तं कुष्ठिनं कृत्वा हत्वा च स्वपुत्रेभ्यो ददौ । ते च मूर्खास्तस्याऽऽशयमविद्वांसस्तं पशुं बुभुजिरे ।
ततः स द्विज आत्मकल्याणार्थं तीर्थं गमिष्यामीति पुत्रानापृच्छ्योर्ध्वमुखो वनं गतस्तृषार्तों जलार्थं चिरं भ्राम्यन् नानाद्रुमावेष्टिते देशे हृदं दृष्ट्वा तीरवृक्षपतितपत्राद्यनुगतं ग्रीष्मे माध्यन्दिनार्ककरक्वथितं जलं पपौ । तृषातुरश्च स यथा भूयो भूयो जलं पपौ तथा