Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 96
________________ १६४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः लाभो न सम्भाव्यते" । ततः सोवाच-गत्वा नृपमेव याचस्व, मह्यां हि नृप एव कल्पतरुः" । ततः स द्विजस्तत् प्रतिपद्य रत्नार्थी समुद्रमिव पुष्प-फलादिना नृपं सेवितुं प्रावर्त्तत । ___ एकदा च चम्पेशोऽतलैः सैन्यैः कौशाम्बी समन्ताद् रुरोध । शतानीकश्च ससैन्यो बिले सर्प इवाऽवसरं प्रतीक्षमाणो नगर एव तस्थौ । ततश्चम्पेशो द्राधीयसा कालेन सैनिकनाशात् प्रावृषि प्रवृत्तायां राजहंस इव स्वाश्रयं प्रस्थितवान् । तदानीं चोद्याने पुष्पार्थ गत: सेडुकस्तं क्षीणसेन्यं दृष्ट्वा सत्वरमागत्य शतानीकमुवाच"नष्टदंष्ट्रोऽहिरिव नष्टसैन्यस्तव शत्रुर्याति, अधुनोत्थितेन त्वया स सुनिग्राह्यः" । शतानीकश्च तद्वचः साध्विति मत्वा ससैन्यः सर्वाभिसारेण शरान् वर्षन् नगराद् निर्जगाम । ततश्चम्पेशसैनिका भयात् काकनाशं प्रणष्टाः । चम्पेशश्चैकाकी कान्दिशीकः पलायितवान् । शतानीकश्च तद्धस्ति-हय-कोशादि गृहीत्वा हृष्टः कौशाम्बी प्रविश्य तुभ्यं किं ददानीति सेडुकमुवाच । स द्विजश्च निजभा पृष्ट्वा याचिष्ये इत्युक्त्वा हृष्टो गत्वा ब्राह्मण्यै सर्वं वृत्तं कथयामास । ततो धीमती सा दध्यौ-"यदि नृपाद् ग्रामादिकान् याचितुं प्रेरयामि तदाऽसौ विभवमत्तोऽपरा: स्त्रियः करिष्यति" । एवं विचार्य सा "प्रतिदिनमेकवारं दर्शनमग्रासनभोजनं दीनारो दक्षिणा च याच्यतामि"ति पतिमुवाच । विप्रेण तथा याचितश्च नृपो घट: समुद्रमपि प्राप्य स्वयोग्यं जलमेव गृह्णातीति वदंस्तत् प्रादात् । ततः स द्विजः प्रतिदिनं स्वयाचितं सम्मानं च प्राप । नृपमान्यत्वाच्च स लोकैः प्रतिदिनं न्यमन्त्र्यत च । ततः स पूर्व भुक्तं वमयित्वाऽपि दक्षिणालोभात् प्रतिदिनमनेकवारमभुक्त । तेन च दक्षिणाधनेन स नित्यं वृद्धिमापत् । शाखाभियग्रोधपादप इव च दशमं पर्व - नवमः सर्गः पुत्र-पौत्राद्यैः प्रसृतोऽभूत् । किन्तु प्रतिदिनमपक्वान्नवमनादामानां रसानामूर्ध्वगमनाल्लाक्षया पिप्पल इव दुषितः क्रमात कष्ठी जातोऽपि नृपाग्रे प्रत्यहमतृप्ताग्निरिव बुभुजे । तदैकदा सचिवा नृपमूचुः-“देव ! कुष्ठ्यसौ जातः, कुष्ठरोगश्च सङ्क्रमणशील इत्यस्येह भोजनं नोचितम् । अस्य कोऽपि नीरोग: पुत्र एवेह भोज्यताम्" । राशि च तत् प्रतिपेदाने सचिवैस्तथोक्तो द्विजः स्वस्थाने पुत्र स्थापयित्वा स्वयं गृह एव तस्थौ । अनन्तरं च कुष्ठेऽत्यन्तं प्रकुपिते मक्षिकामालाभिरुपद्रुतः स पुत्रैरपि बहिः कुटीरे स्थापितः । तत्र च तं पुत्रवध्वः सजगप्सा भोजयितुं जग्मः। पुत्राश्चाऽपि बहि:स्थितास्तदाज्ञां न मेनिरे । काष्ठपात्रे च तस्य शुन इव भोजनं ददुः । तत: सेडुको द्विजो दध्यौ-"मयेमे धनाढ्याः कृताः । किन्तु तीर्णजलैनौकेवैभिरहमिदानीमनादराद् मुक्तोऽस्मि । मां वचनेनाऽपि न सम्भावयन्ति, किन्तु कटुवाभिमा॑ रोषयन्त्येव । तद्यथेमे मां जुगुप्सन्ते तथेमेऽपि जुगुप्स्याः स्युरिति मया कर्त्तव्यमि"ति ध्यात्वा पुत्रानुवाच-"अहं जीवितादुद्विग्नोऽस्मि, किन्तु मुमूर्षुभिर्मन्त्रोक्षितः पशुः कुटुम्बस्य देय इति स्वकुलाचारोऽस्ति । तदेक: पशुरानीयताम्", ते च पशुवज्जडा: पशुमानिन्युः । ततः स सेडुकः पशु चारयन् स्वाङ्गरसादिसम्पर्कात् तं कुष्ठिनं कृत्वा हत्वा च स्वपुत्रेभ्यो ददौ । ते च मूर्खास्तस्याऽऽशयमविद्वांसस्तं पशुं बुभुजिरे । ततः स द्विज आत्मकल्याणार्थं तीर्थं गमिष्यामीति पुत्रानापृच्छ्योर्ध्वमुखो वनं गतस्तृषार्तों जलार्थं चिरं भ्राम्यन् नानाद्रुमावेष्टिते देशे हृदं दृष्ट्वा तीरवृक्षपतितपत्राद्यनुगतं ग्रीष्मे माध्यन्दिनार्ककरक्वथितं जलं पपौ । तृषातुरश्च स यथा भूयो भूयो जलं पपौ तथा


Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147