Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 97
________________ दशमं पर्व-नवमः सर्गः १६६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तथा तस्य कृमिभिः सह विरेचनमभूत् । एवं कतिपयैदिनैः पीतेन हृद्जलेन नीरोगो वसन्तर्तुना वृक्ष इव मनोहरावयवो जातः स द्विजो हृष्टो वलित्वा शीघ्रं स्वगृहं प्रतस्थे । नगरे प्रविशंश्च विस्मितैर्नागरैस्तथा दीप्यमानतनुर्दृष्टः कथं नीरोगो जातोऽसीति पृष्टश्च स द्विजो देवताराधनफलमेतदित्युवाच । स्वगृहं गत्वा च पुत्रान् कुष्ठिनो दृष्ट्वा मुदितो मयाऽपमानफलं साधु प्रापिता इति तानवदत् । ____ ततः पुत्रास्तमूचुः-"पितर्विश्वस्तेष्वस्मासु निष्कृपेण शत्रुणेव त्वयेदं किमाचरितम् ?" ततः स लोकैराक्रुश्यमानस्तव पुरमागत्य निराश्रयो द्वारपालं जीविकारथमशिश्रियत् । तदानीं चाऽत्राऽऽगतस्य मम धर्मदेशनां श्रोतुं द्वारपालस्तं द्विजं स्वस्थाने मुक्त्वा प्रचलितः । स द्विजश्च द्वारोपविष्टो द्वारदुर्गाग्रे क्षुधातॊ यथेष्टं बलि भुक्त्वाऽन्नदोषाद् ग्रीष्मोष्मणा च मरुपान्थ इव तृष्णयाऽऽकुलीकृतः । द्वारपालभयाच्च स्थानं त्यक्त्वा प्रपादिषु न जगाम । ततस्तृषार्त्तः स जलं जलमित्यारटन् वारिचरान् जीवान् धन्यान् भावयन् विपन्न इहैव नगरद्वारवाप्यां भेको जातः । विहारक्रमाद् मयि पुनरिहाऽऽगते चाऽस्मद्वन्दनार्थं ससम्भ्रमं लोकाः प्रचेलुः । स दर्दुरश्च जलहारिणीमुखादस्मदागमनवृत्तान्तं श्रुत्वा दध्यौ-"अहमेतत् क्वाऽपि श्रुतपूर्वी" । एवमूहापोहं कुर्वतस्तस्य स्वप्नस्मरणवत् तत्क्षणं जातिस्मरणमुत्पन्नम् । ततः स भेकः पुनर्दध्यौ-'पुरा मां द्वारे स्थापयित्वा द्वारपालो यं वन्दितुमगात्, स भगवान् पुनरिहाऽऽगतोऽस्ति, तदहमपि तं द्रष्टं यास्यामि" । ततः सोऽस्मद्वन्दनार्थमुत्प्लुत्योत्प्लुत्य मार्गे समागच्छंस्तवाऽश्वखुरक्षुण्णो विपन्नोऽस्मद्भक्तिभावनयाऽयं दर्दुराङ्को देवो जातः । इन्द्रश्च सभायामार्हताः श्रेणिकाद् हीना इत्युवाच । तदश्रद्दधानश्चाऽयं त्वत्परीक्षार्थमागतो गोशीर्षचन्दनैर्मम चरणौ पूजयंस्त्वदृष्टिमोहनाय सर्वमन्यद् वैक्रियं चकार । ____ ततः श्रेणिकः प्रभुमुवाच-"प्रभोः क्षुतेऽमङ्गल्यमन्येषां तु मङ्गल्यामङ्गल्यानीत्येवमेष किमभ्यधात् ?" ततः प्रभुरुवाच-"अयं मामवदत्-प्रभो ! किमद्याऽपि भवे तिष्ठसि, शीघ्रं मोक्षं व्रज, म्रियस्व। त्वां च जीवेत्यवोचत्, यतस्तव जीवतः सुखं, विपन्नस्य हि तव नरके गतिः । अभयश्च जीवन् धर्ममाचरन् विपन्नोऽनुत्तरं विमानं यास्यति । तेनाऽयमभयस्य जीव म्रियस्व वेति जगाद । कालसौकरिकश्च जीवन् पापपरायणो मृतः सप्तमं नरकं गमीति तस्य मा जीव मा मृथा इत्युक्तवान्" । अथ तच्छृत्वा श्रेणिको नत्वा भगवन्तमुवाच-"प्रभो ! त्वद्भक्तस्य मम कथं नरके गति: ?" ततो वीरप्रभुरुवाच-"नृप ! त्वं पुरा बद्धनरकायुरसि । तत्तव गतिस्तत्राऽवश्यं भविष्यति, शुभाऽशुभकर्मफलमवश्यमेव भोक्तव्यम् । वयमपि तद् नाऽन्यथाकर्तुमीश्महे। त्वं भाविजिनचतुर्विशतावाद्यः पद्मनाभाभिधो भविष्यसि । तत्खेदं मा गाः" । ततः श्रेणिक उवाच-"प्रभो ! नरकत: कोऽपि रक्षोपायोऽस्ति किम्" । ततो भगवानुवाच-'यदि कपिलया ब्राह्मण्या साधुभ्यो भक्तिपूर्वकं भिक्षां दापयसे,तथा कालसौकरिकेण हिंसा त्याजयसे तदा तव नरकाद मोक्षो नाऽन्यथा" । तच्छत्वा स श्रेणिकस्तमुपदेशं सम्यगिति हृदि निधाय वीरजिनं प्रणम्य स्वस्थानं प्रति प्रतस्थे । अत्राऽवसरे च नृपस्य परीक्षार्थं दर्दुराङ्को देवः साधुवेष: स्वं धीवरमिवाऽकार्यं कुर्वन्तं दर्शितवान् । नृपश्च तं दृष्ट्वा प्रवचनस्य मालिन्यं मा भूदिति साम्ना तमकार्यतो निवार्य स्वगृहमगात् । ततः

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147