Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 66
________________ १०४ पुरुष-गद्यात्मकसारोद्धारः मिथ: कलहे तमुपालब्धवान् - "त्वं किं जल्पसि यः खल्वज्ञातपितृकः" । ततोऽभयकुमार उवाच - " मम पिता भद्रः खलु" । ततः सवया जगौ - "भद्रस्त्वन्मातुः पिता । ततोऽभयकुमारो नन्दां को मे पितेति पप्रच्छ । सा च भद्रस्तव पितेत्युदतरत् । ततोऽभयेन भद्रस्तव पिता मम पितरं ब्रूहीति पृष्टा नन्दोदासीनोवाच"देशान्तरादागतेन केनचित् परिणीताऽहम् । त्वयि गर्भस्थे च स औष्ट्रिकैः सह रहसि किमप्यालप्य क्वचिदपि जगाम । स कुतस्त्यः को वेत्यद्याऽप्यहं न जानामि " । गच्छंश्च स किमपि त्वामुवाचेति पुनरभयेन पृष्टा सा 'एतान्यक्षराण्यर्पितानी' त्युक्त्वा तत्पत्रमदर्शयत् । तद्विचार्य चाऽभय उवाच-“मम पिता राजा, तत्सम्प्रति राजगृहनगरं गच्छामः” । ततो भद्रं श्रेष्ठिनमापृच्छ्य शम्बलमादायाऽभयो नन्दया सह राजगृहपुरं ययौ । तन्नगरं प्राप्य मातरं बहिरुद्याने सपरिच्छदां विमुच्याऽभयः स्वल्पपरिवारेण सह पुरं प्रविवेश । इतश्च श्रेणिकनृपेणैकोनानि मन्त्रिणां पञ्चशतानि मेलितान्यासन् । मन्त्रिणां पञ्चशर्ती पूरयितुं च नृपो लोके कमप्युत्तमं पुरुषं गवेषयामास । परीक्षार्थं च नृपः शुष्के कूपे निजाङ्गुलीयकं क्षिप्त्वा लोकानादिदेश - "य: कूपतटस्थित एतद्ङ्गुलीयकं करेण गृह्णीयात् तस्य बुद्धिवैभवेन क्रीता मन्त्रिमुख्यता स्यात्" । ततो लोका ऊचुः"गगनात् करेण ताराकर्षणमिवोर्मिकायाः कूपतलाद् ग्रहणमशक्यमस्मादृशाम्" । तदानीं तत्राऽऽगतोऽभयकुमार: सस्मितमुवाच - "नैतदतिदुष्करम्" । तं दृष्ट्वा च जनाः कोऽप्यसौ विशिष्टबुद्धिरिति ध्यात्वोचुः - "इमामूर्मिकां करेण गृहाण, तत्र पणीकृतामर्धराज्यश्रियं नृपपुत्रीं मन्त्रिमुख्यत्वं च लभस्व" । दशमं पर्व षष्ठः सर्गः १०५ ततोऽभयकुमारः कूपतलस्थां मुद्रिकामुपरिस्थित आर्द्रगोमयपिण्डेन जघान । तदुपरि च तत्कालं ज्वलत्तृणपूलकं प्रक्षिप्य गोमयं शोषयित्वा शीघ्रं सारणि कारयित्वा कूपं जलेन पूरयित्वा लोकान् विस्मापयंस्तद्गोमयं तत्करेण गृहीतवान् । आरक्षैस्तज्ज्ञात्वा च विस्मितो नृपस्तं सद्य एव स्वसमीपमाजुहाव । तथा तमभयं पुत्रमिवाऽऽलिङ्ग्य कुत आगतोऽसीति पप्रच्छ । वेणातटपुरादागतोऽस्मीत्यभयेनोक्तश्च नृपः पुनस्तं पप्रच्छ-“भद्र ! तत्र ख्यातः सुभद्रः श्रेष्ठी तत्पुत्री नन्दा च स्तः " । ततस्तेन तत् स्वीकृते नृपः पुनः पप्रच्छ-“नन्दा गर्भवत्यासीत्, तस्याः अपत्यमजनि किम्" । ततोऽभय उवाच - "देव ! साऽभयकुमाराख्यं पुत्रमजनिष्ट, स एवाऽहमस्मि"। तच्छ्रुत्वा च नृपस्तमङ्के आदाय मूर्व्याघ्रायाऽ श्रूणि मुञ्चन् स्नेहात् स्नपयामासेव । ततो वत्स ! तव मातुः कुशलमिति नृपेण पृष्टोऽभयो बद्धाञ्जलिरुवाच - " त्वत्सङ्गमं ध्यायन्ती सा मन्माता सम्प्रति बाह्योद्यानेऽस्ति" । ततो नृपः प्रमुदितो नन्दां समानेतुं सर्वसामग्रीं पुरतः कृत्वाऽभयं प्रेषयामास । स्वयमपि चाऽत्युत्कण्ठया नृपो हंसः कमलिनीमिव नन्दामभिययौ । तां च नन्दां कृशां मलिनामुद्यानस्थां दृष्ट्वा सानन्दः स्वगृहमानीय महिषीपदेऽस्थापयत् । अभयाय च नृपो भगिन्याः सुसेनायाः पुत्रीं मन्त्रिमुख्यत्वमर्धराज्यं च ददौ । ततोऽभयः पितरं सेवमानो दुःसाध्यानपि नृपान् साधयामास । *** इतश्च महीमहेलातिलकायमानायां सर्वसम्पत्समृद्धायां गरीयस्यां वैशालीनगर्यामिन्द्र इवाऽप्रतिहताज्ञः शत्रुन्तपश्चेटको नाम

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147