Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 80
________________ दशमं पर्व - अष्टमः सर्गः ૨૩૩ तथाहि-प्राणिनामिहभवे पिता-पुत्रादिसम्बन्धो मुहुर्मुहुर्जायते विघटते च । संसारे एतत् सर्वमिन्द्रजालवत् । विवेकी जनोऽत्र क्षणमपि स्थातुं नोत्सहते । यावदिदं शरीरं न जराजीणं यावच्च प्राणा: सन्ति तावद् निरतिशयसुखसाधनं व्रतं ग्रहीतव्यम् । तत्र प्रमादो न युक्तः" । तच्छ्रुत्वा च विरक्तौ तौ दम्पती "आवां संसाराद् विरक्तौ, तद्भवतारणीं दीक्षां देहि, त्वमेव भवं तर्तुं तारयितुं च प्रभुरसी-" त्यूचतुः । प्रभुणा च तथाऽस्त्विति प्रोक्तौ तावैशान्यां गत्वा भूषणादीनि त्यक्त्वा पञ्चमष्टिभिः केशलोचं कृत्वा प्रभु प्रदक्षिणीकृत्य वन्दित्वोचतुः-"भवभीतावावां त्वां शरणं श्रितो, तद्दीक्षादानेनाऽनुगृहाण" । ततः प्रभुः स्वयं तयोर्दीक्षां दत्त्वा समाचारमावश्यक विधि चाऽऽख्यत् । तथा चन्दनायै देवानन्द स्थविरेभ्य ऋषभदत्तं चाऽर्पयामास । तौ च व्रतं पालयन्तावेकादशाङ्गमधीत्य तपः कृत्वा केवलमाप्य निर्वाणमापतुः ।। अष्टमः सर्गः अथ भव्यान् प्रबोधयन् प्रभुर्वीरजिनो विहारक्रमेण ब्राह्मणकुण्डग्रामं प्राप्तो बहुशालाख्योद्याने देवैविकृते समवसरणे प्रविश्य पूर्वरत्नसिंहासने यथाविधि तस्थौ । गौतमाद्याः सुरादयश्च यथास्थानं तस्थुः । भूयांस: पौरा अपि तत्राऽऽययुः । देवानन्दार्षभदत्तावप्येत्य प्रभुं वन्दित्वा यथास्थानमुपाविशताम् । ततो देवानन्दाया वीरजिनमवलोकमानायास्तनौ रोमोद्गमः स्तनाभ्यां दुग्धस्त्रावश्च जज्ञे । तां तथाविधां प्रेक्ष्य विस्मितः संशयमाप्य गौतमः कृताञ्जलिः प्रभुं पप्रच्छ-"प्रभो ! देवानन्दायाः सूनुमिव त्वां दृष्ट्वा कथमीदृशी दशा ?" ततो वीरजिन उवाच-"गौतम ! अहं देवानन्दाकुक्षिजः, अहं स्वर्गाच्च्युत्वाऽस्याः कुक्षौ व्यशीतिदिवसमुषितवान् । तेनैषाऽज्ञातपरमार्थाऽपि मयि वत्सला जाताऽस्ति" । ततस्तौ दम्पती देवानन्दार्षभदत्तौ तच्छ्रुत्वा नितरां मुमुदाते । सा सभा च तादृक् पूर्वं कदाऽप्यश्रुतेविस्मिता जाता । तौ दम्पती च स्वं धन्यं मन्यमानौ पुनरुत्थाय प्रभुं ववन्दाते । पित्रोः प्रत्युपकारो दुष्कर इति बुद्ध्या वीरजिनोऽपि तौ जनांश्चोद्दिश्य धर्मदेशनां विदधे । अथ वीरजिनो विहरन् क्षत्रियकुण्डगामं प्राप्य समवसरणस्थो धर्मदेशनां विदधे । तज्ज्ञात्वा नन्दिवर्धनस्तत्राऽऽगत्य भक्त्या वन्दित्वा कृताञ्जलिर्यथास्थानमुपविवेश । जमालिश्च वीरजिनजामाता प्रियदर्शनया सह तत्राऽऽगत्य प्रभुं वन्दित्वा धर्मदेशनां श्रुत्वा पितरावनुज्ञाप्य क्षत्रियाणां पञ्चशत्या सह व्रतं जग्राह । जमालिभार्या वीरप्रभोः पुत्री प्रियदर्शना चाऽपि स्त्रीसहस्रेण सहिता प्रभुपादान्ते दीक्षामग्रहीत् । अथ प्रभुरन्यत्र विजहार । क्षत्रियमुनिभिः सहितो जमालिश्च प्रभुमनुससार । जमालिविहरन्नधीतैकादशाङ्गीकः प्रभुणा सह

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147