Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 91
________________ १५४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततस्ते गोशालचेष्टितं गोप्तुं पुनरूचुः-"तव गुरोर्गानादिकं कर्म निर्वाणप्राप्तिलिङ्गम्" । यदि तव संशयस्तहि सर्वज्ञममुं तव गुरुं चतुर्विंशमर्हन्तं पृच्छ” । ततः स उपगन्तुं प्रावर्तिष्ट । ते चाऽयंपुलस्याऽऽगमं संशयं च गोशालस्याऽग्रे ऊचुः। तथा मद्यपात्रादिकमपनीय गोशालमासने उपवेशयामासुः । ततो गोशालोऽग्रे समुपविष्टमयंपुलमुवाच-"तृणगोपालिका किं संस्थानेति तव संशयः । सा च वंशीमूलतुल्याकृतिः" । तच्छृत्वा च प्रसन्नोऽयंपल: स्वगृहं ययौ । ___ अन्यदा च चैतन्यं प्राप्य स्वमुत्युकालं ज्ञात्वा गोशाल: शिष्यानाहूयोवाच-"मृतस्य मम शरीरं गन्धजलैः स्नपयित्वा विलेपनैरुत्तमैर्विलिप्योत्कृष्टवस्त्रेणाऽऽच्छाद्य दिव्यैर्भूषणैर्भूषयित्वा सहस्रवाह्यां शिबिकामारोप्य सोत्सवं निःसार्यम् । अत्राऽवसर्पिण्यां चतुर्विशो जिनेश्वरोऽयं गोशालो मोक्षं ययाविति पुरे घोषणीयं च"। ते चाऽपि तत् स्वीचक्रुः । ततः सप्तमे दिने गोशालो जातनिर्मलाशयः सपश्चात्तापं दध्यौ-"अहो ! अहं पापः । यज्जिनं निजं धर्मगुरुं वीरमाशातितवान् । आत्मानं सर्वज्ञं ख्यापर्यश्च मिथ्योपदेशैर्लोकं प्रतारितवान्" । एवं स्वकृतं बहु दुष्कृतं स्मृत्वाऽऽत्मानं गर्हयित्वा च पश्चात्तापशुद्धाशयः शिष्यानाहूयोवाच-"अहं मङ्खलिपुत्रो गोशालो वीरशिष्यः । नाऽहं केवली न वा सर्वज्ञः । मयेयत्कालं दम्भाल्लोको वञ्चितः । तेजोलेश्यया दह्यमानच्छद्मस्थोऽहं विपत्स्ये । अहं वामपादे रज्जुभिर्बद्ध्वेह नगरे कर्षणीयः । तथाऽयं मललिपुत्रो गोशालो दोषनिधानं लोकवञ्चको वीरजिनं सर्वज्ञं सर्वहितं मुधैव दशमं पर्व - अष्टमः सर्गः दूषयामासेत्येवं घोषणीयम्" । एवं सशपथं शिष्यानादिश्य पीडया मृतः । तच्छिष्याश्च लज्जया कुलालगृहद्वाराणि पिदधुः । तथा गोशालोपदिष्टं सर्वं रज्जुकर्षणघोषणादिकं विधाय तद्वपुर्महत्या समृद्ध्या भस्मसाच्चक्रुः । अथ वीरजिनो विहारक्रमेण मेण्ढकग्रामं गतः कोष्टकाख्योद्याने समवससार । तत्र च समयं प्राप्य गौतमः प्रभुमपृच्छत्"गोशालः कां गतिमगमत्" । ततः प्रभुरुवाच-'सोऽच्युतं गतः'। भूयोऽपि पापात्माऽपि स कथं देवत्वं प्राप्त इति गौतमेन पृष्टः प्रभुरुवाच-"पर्यन्तकाले पश्चात्तापयुतस्य देवत्वं सुलभम् । तत एव गोशालो देवत्वं गतः" । 'पुनश्च्युत्वा कां गतिमाप्स्यति ? गोशालः कदा च सिद्धिमेष्यती'ति गौतमेन पृष्टो वीरजिन उवाच "जम्बूद्वीपे भारते विन्ध्यसमीपे पुण्ड्रेषु शतद्वारं महापुरं भविष्यति । तत्र संमुचिभूपस्य भद्रायां महापद्मनामा पुत्रो गोशालजीवो राजा भविष्यति । तस्य द्वौ यक्षश्रेष्ठौ पूर्णभद्रमणिभद्रौ सेनान्यौ भविष्यतः । ततश्च महापद्मस्य प्रजा देवसेन इति नाम करिष्यन्ति । तथा तस्य चक्रिण इव चतुर्दन्तः श्वेत हेरावत इव हस्ती भविष्यति । तेन च प्रजास्तस्य तद्गजमधिरूढस्य विमलवाहन इति नामान्तरं करिष्यन्ति । तस्य चाऽन्यदा पूर्वभवाभ्यस्तमुनिद्वेषत: श्रमणेषु द्वेष उत्पत्स्यते । तेन च स मुनीन् ताडनाद्यैर्बहुधा पीडयिष्यति । तदा पौरसचिवादैरनपराधमुनिनिग्रहो नोचित इति प्रतिबोधितोऽनिच्छन्नपि मुनिपीडनं त्यक्ष्यति । अन्यदा च रथारूढः क्रीडोद्यानं गतस्तेजोलेश्यासमृद्धं त्रिज्ञानं कायोत्सर्गस्थितमातापनापरं सुमङ्गलं दृष्ट्वा निष्कारणं क्रुद्धो

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147