Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 92
________________ १५६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः रथाओणाऽऽहत्य तं पातयिष्यति । मुनिश्चोत्थाय पुन: कायोत्सर्ग करिष्यति । पूर्ववदेव च स तं पुनः पातयिष्यति । तत उत्थाय कायोत्सर्ग प्रपन्नो मुनिरवध्युपयोगेन तत्पूर्वभवान् ज्ञात्वा तांस्तस्मै बोधयिष्यति, निष्कारणमपराधिनं त्वां तेजोलेश्यया धक्ष्यामीति भापयिष्यति च । स च तद्वचसाऽधिकं क्रुद्धः पुनर्मुनि पातयिष्यति । एवं पुनः पुनरनुष्ठिते मुनिस्तं महापद्म तेजोलेश्यया साश्वरथसारथि धक्ष्यति । मुनिश्च तत्कर्माऽऽलोच्य चिरं व्रतं पालयित्वा पर्यन्ते मासमनशनं चकार । ततो विपद्य सर्वार्थे त्रयस्त्रिंशत्सागरोपमायुः सुरो भूत्वा च्युत्वा महाविदेहेषूत्पद्य व्रतं गृहीत्वा मोक्षमेष्यति । महापद्मश्च दग्धः सप्तमी नरकावनि प्राप्योवृत्त्य क्रमाद् द्विद्धिः सर्वेषु नरकेषूत्पद्य तिर्यग्योनिषु च सर्वासु मुहुर्मुहुरुत्पत्याऽन्ते राजगृहनगराद् बहिर्वेश्या जाता । सा ततो मृत्वा विन्ध्यमूले उभेले सन्निवेशे विप्रकन्या भविष्यति । विप्रेण केनाऽपि परिणीता गुर्विणी श्वशुरगृहादागच्छन्ती मार्गे दवाग्निना दग्धाग्निकुमारेषु सुरेषूत्पेदे । ततश्च्युत्वा पुनर्मर्त्यभवान् प्राप्य प्रव्रज्य विपद्य श्रमणातिचारदोषादसुरेषूत्पद्य पुनर्मनुष्यो जातः । तत्राऽनतिचारं व्रतं पालयित्वा सौधर्मे देवो भविष्यति । एवं सप्त भवान् यावद् व्रतं पालयित्वा क्रमात् सर्वार्थं गत्वा च्युत्वा विदेहेषु श्रेष्ठिपुत्रो नाम्ना दृढप्रतिज्ञो विरज्य प्रव्रजितः । तत्र सोऽनाप्तकेवलो निजान् गोशालादिभवान् जानन् शिष्यान् स्वानुभवसाक्षिकं सर्वथा गुरुविराधनादिपरिहारमुपदिदेश । ततो महीं विहरन् कर्मक्षयवशात् स गोशालजीव: सिद्धिमेष्यति" । दशमं पर्व - अष्टमः सर्गः १५७ अथ गौतमो भूयोऽपि प्रभुमपृच्छत्-"भगवन् ! गोशाल: केन प्राक्कर्मणा तव विरोधी जात: ?" ततो वीरजिन उवाच"जम्बूद्वीपे भारते पूर्वचतुर्विशतावुदायो नाम जिनोऽभवत् । तस्य मोक्षमहिमानं कर्तुं सुरा-ऽसुराः समाजग्मुः । तान् दृष्ट्वैक आसन्नवास्तव्यो जातिस्मरो जातः । प्रत्येकबुद्धः स तदैव प्रव्रजितः शासनदेवतार्पितलिङ्गस्तीवं तपस्तप्यमानो लोकपूज्यो बभूव । तं दृष्ट्वेश्वरो नाम कोऽपि दुर्मतिरुपेत्य पप्रच्छ-"त्वं केन दीक्षितः, कुत्र जातः, किं तव कुलं, कुतः सूत्रमर्थं च लब्धवानसि ?" ततः स मुनिः प्रत्येकबुद्धः सर्वमाख्यत् । तत ईश्वरो दध्यौ-"नूनमयं दम्भात् प्रजाः प्रतारयति । तज्जिनं पृच्छामि । यद्वेदृक्षं मां न वदेत्, तद्दीक्षां गृह्णामि" । एवं ध्यात्वा गत्वा जिनमदृष्ट्वा स मोहगर्भवैराग्यो गणधरस्य पार्श्वे प्रव्रज्यां गृहीतवान् । तदा जिने मोक्षप्राप्ते पर्षद्यासीनो गणभृदुवाच-"य एकमपि पृथिवीजीवं विनाशयति स जैनेन्द्रशासनेऽसंयत: कथितः" । तत ईश्वरो दध्यौ-"पृथिवीकायिका जीवाः सर्वत्राऽपि विमृद्यन्ते, कस्तान् रक्षितुं समर्थः ? तदुन्मत्तजल्पितकल्पमिदमस्य वाक्यमश्रद्धेयम् । यद्यसाविदं त्यक्त्वा मध्यमार्गात्मकं किञ्चिदुपदिशति तदा सर्वो लोकोऽनुरक्त: स्यात् । यद्वा मयाऽनुचितं चिन्तितम् । न ह्यहं नाऽनुतिष्ठामीति लोकोऽपि नाऽनुतिष्ठेत् । एतद्धि सर्वज्ञैर्भाषितम्। तदर्हद्वाक्यविराधना मया कृता । अधुना प्रायश्चित्तं ग्राह्यम्" । एवं विचार्य स प्रत्येकबुद्धं मुनिमुपजगाम । तत्राऽपि तद्व्याख्याने "मुनिः पृथिवीकायादीनां त्रिधाऽपि समारम्भं त्यजेदि"ति श्रुत्वेश्वरो दध्यौ-"क एवं कुर्यात् ? अयं मुनिरपि च पृथिव्यामुपविशति भुङ्क्तेऽग्निपक्वं जलं च

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147