________________
१५६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः रथाओणाऽऽहत्य तं पातयिष्यति । मुनिश्चोत्थाय पुन: कायोत्सर्ग करिष्यति । पूर्ववदेव च स तं पुनः पातयिष्यति । तत उत्थाय कायोत्सर्ग प्रपन्नो मुनिरवध्युपयोगेन तत्पूर्वभवान् ज्ञात्वा तांस्तस्मै बोधयिष्यति, निष्कारणमपराधिनं त्वां तेजोलेश्यया धक्ष्यामीति भापयिष्यति च । स च तद्वचसाऽधिकं क्रुद्धः पुनर्मुनि पातयिष्यति । एवं पुनः पुनरनुष्ठिते मुनिस्तं महापद्म तेजोलेश्यया साश्वरथसारथि धक्ष्यति ।
मुनिश्च तत्कर्माऽऽलोच्य चिरं व्रतं पालयित्वा पर्यन्ते मासमनशनं चकार । ततो विपद्य सर्वार्थे त्रयस्त्रिंशत्सागरोपमायुः सुरो भूत्वा च्युत्वा महाविदेहेषूत्पद्य व्रतं गृहीत्वा मोक्षमेष्यति । महापद्मश्च दग्धः सप्तमी नरकावनि प्राप्योवृत्त्य क्रमाद् द्विद्धिः सर्वेषु नरकेषूत्पद्य तिर्यग्योनिषु च सर्वासु मुहुर्मुहुरुत्पत्याऽन्ते राजगृहनगराद् बहिर्वेश्या जाता । सा ततो मृत्वा विन्ध्यमूले उभेले सन्निवेशे विप्रकन्या भविष्यति । विप्रेण केनाऽपि परिणीता गुर्विणी श्वशुरगृहादागच्छन्ती मार्गे दवाग्निना दग्धाग्निकुमारेषु सुरेषूत्पेदे । ततश्च्युत्वा पुनर्मर्त्यभवान् प्राप्य प्रव्रज्य विपद्य श्रमणातिचारदोषादसुरेषूत्पद्य पुनर्मनुष्यो जातः । तत्राऽनतिचारं व्रतं पालयित्वा सौधर्मे देवो भविष्यति ।
एवं सप्त भवान् यावद् व्रतं पालयित्वा क्रमात् सर्वार्थं गत्वा च्युत्वा विदेहेषु श्रेष्ठिपुत्रो नाम्ना दृढप्रतिज्ञो विरज्य प्रव्रजितः । तत्र सोऽनाप्तकेवलो निजान् गोशालादिभवान् जानन् शिष्यान् स्वानुभवसाक्षिकं सर्वथा गुरुविराधनादिपरिहारमुपदिदेश । ततो महीं विहरन् कर्मक्षयवशात् स गोशालजीव: सिद्धिमेष्यति" ।
दशमं पर्व - अष्टमः सर्गः
१५७ अथ गौतमो भूयोऽपि प्रभुमपृच्छत्-"भगवन् ! गोशाल: केन प्राक्कर्मणा तव विरोधी जात: ?" ततो वीरजिन उवाच"जम्बूद्वीपे भारते पूर्वचतुर्विशतावुदायो नाम जिनोऽभवत् । तस्य मोक्षमहिमानं कर्तुं सुरा-ऽसुराः समाजग्मुः । तान् दृष्ट्वैक आसन्नवास्तव्यो जातिस्मरो जातः । प्रत्येकबुद्धः स तदैव प्रव्रजितः शासनदेवतार्पितलिङ्गस्तीवं तपस्तप्यमानो लोकपूज्यो बभूव । तं दृष्ट्वेश्वरो नाम कोऽपि दुर्मतिरुपेत्य पप्रच्छ-"त्वं केन दीक्षितः, कुत्र जातः, किं तव कुलं, कुतः सूत्रमर्थं च लब्धवानसि ?" ततः स मुनिः प्रत्येकबुद्धः सर्वमाख्यत् ।
तत ईश्वरो दध्यौ-"नूनमयं दम्भात् प्रजाः प्रतारयति । तज्जिनं पृच्छामि । यद्वेदृक्षं मां न वदेत्, तद्दीक्षां गृह्णामि" । एवं ध्यात्वा गत्वा जिनमदृष्ट्वा स मोहगर्भवैराग्यो गणधरस्य पार्श्वे प्रव्रज्यां गृहीतवान् । तदा जिने मोक्षप्राप्ते पर्षद्यासीनो गणभृदुवाच-"य एकमपि पृथिवीजीवं विनाशयति स जैनेन्द्रशासनेऽसंयत: कथितः" । तत ईश्वरो दध्यौ-"पृथिवीकायिका जीवाः सर्वत्राऽपि विमृद्यन्ते, कस्तान् रक्षितुं समर्थः ? तदुन्मत्तजल्पितकल्पमिदमस्य वाक्यमश्रद्धेयम् । यद्यसाविदं त्यक्त्वा मध्यमार्गात्मकं किञ्चिदुपदिशति तदा सर्वो लोकोऽनुरक्त: स्यात् । यद्वा मयाऽनुचितं चिन्तितम् । न ह्यहं नाऽनुतिष्ठामीति लोकोऽपि नाऽनुतिष्ठेत् । एतद्धि सर्वज्ञैर्भाषितम्। तदर्हद्वाक्यविराधना मया कृता । अधुना प्रायश्चित्तं ग्राह्यम्" । एवं विचार्य स प्रत्येकबुद्धं मुनिमुपजगाम ।
तत्राऽपि तद्व्याख्याने "मुनिः पृथिवीकायादीनां त्रिधाऽपि समारम्भं त्यजेदि"ति श्रुत्वेश्वरो दध्यौ-"क एवं कुर्यात् ? अयं मुनिरपि च पृथिव्यामुपविशति भुङ्क्तेऽग्निपक्वं जलं च