________________
१५४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततस्ते गोशालचेष्टितं गोप्तुं पुनरूचुः-"तव गुरोर्गानादिकं कर्म निर्वाणप्राप्तिलिङ्गम्" । यदि तव संशयस्तहि सर्वज्ञममुं तव गुरुं चतुर्विंशमर्हन्तं पृच्छ” । ततः स उपगन्तुं प्रावर्तिष्ट । ते चाऽयंपुलस्याऽऽगमं संशयं च गोशालस्याऽग्रे ऊचुः। तथा मद्यपात्रादिकमपनीय गोशालमासने उपवेशयामासुः । ततो गोशालोऽग्रे समुपविष्टमयंपुलमुवाच-"तृणगोपालिका किं संस्थानेति तव संशयः । सा च वंशीमूलतुल्याकृतिः" । तच्छृत्वा च प्रसन्नोऽयंपल: स्वगृहं ययौ ।
___ अन्यदा च चैतन्यं प्राप्य स्वमुत्युकालं ज्ञात्वा गोशाल: शिष्यानाहूयोवाच-"मृतस्य मम शरीरं गन्धजलैः स्नपयित्वा विलेपनैरुत्तमैर्विलिप्योत्कृष्टवस्त्रेणाऽऽच्छाद्य दिव्यैर्भूषणैर्भूषयित्वा सहस्रवाह्यां शिबिकामारोप्य सोत्सवं निःसार्यम् । अत्राऽवसर्पिण्यां चतुर्विशो जिनेश्वरोऽयं गोशालो मोक्षं ययाविति पुरे घोषणीयं च"। ते चाऽपि तत् स्वीचक्रुः । ततः सप्तमे दिने गोशालो जातनिर्मलाशयः सपश्चात्तापं दध्यौ-"अहो ! अहं पापः । यज्जिनं निजं धर्मगुरुं वीरमाशातितवान् । आत्मानं सर्वज्ञं ख्यापर्यश्च मिथ्योपदेशैर्लोकं प्रतारितवान्" ।
एवं स्वकृतं बहु दुष्कृतं स्मृत्वाऽऽत्मानं गर्हयित्वा च पश्चात्तापशुद्धाशयः शिष्यानाहूयोवाच-"अहं मङ्खलिपुत्रो गोशालो वीरशिष्यः । नाऽहं केवली न वा सर्वज्ञः । मयेयत्कालं दम्भाल्लोको वञ्चितः । तेजोलेश्यया दह्यमानच्छद्मस्थोऽहं विपत्स्ये । अहं वामपादे रज्जुभिर्बद्ध्वेह नगरे कर्षणीयः । तथाऽयं मललिपुत्रो गोशालो दोषनिधानं लोकवञ्चको वीरजिनं सर्वज्ञं सर्वहितं मुधैव
दशमं पर्व - अष्टमः सर्गः दूषयामासेत्येवं घोषणीयम्" । एवं सशपथं शिष्यानादिश्य पीडया मृतः । तच्छिष्याश्च लज्जया कुलालगृहद्वाराणि पिदधुः । तथा गोशालोपदिष्टं सर्वं रज्जुकर्षणघोषणादिकं विधाय तद्वपुर्महत्या समृद्ध्या भस्मसाच्चक्रुः ।
अथ वीरजिनो विहारक्रमेण मेण्ढकग्रामं गतः कोष्टकाख्योद्याने समवससार । तत्र च समयं प्राप्य गौतमः प्रभुमपृच्छत्"गोशालः कां गतिमगमत्" । ततः प्रभुरुवाच-'सोऽच्युतं गतः'। भूयोऽपि पापात्माऽपि स कथं देवत्वं प्राप्त इति गौतमेन पृष्टः प्रभुरुवाच-"पर्यन्तकाले पश्चात्तापयुतस्य देवत्वं सुलभम् । तत एव गोशालो देवत्वं गतः" । 'पुनश्च्युत्वा कां गतिमाप्स्यति ? गोशालः कदा च सिद्धिमेष्यती'ति गौतमेन पृष्टो वीरजिन उवाच
"जम्बूद्वीपे भारते विन्ध्यसमीपे पुण्ड्रेषु शतद्वारं महापुरं भविष्यति । तत्र संमुचिभूपस्य भद्रायां महापद्मनामा पुत्रो गोशालजीवो राजा भविष्यति । तस्य द्वौ यक्षश्रेष्ठौ पूर्णभद्रमणिभद्रौ सेनान्यौ भविष्यतः । ततश्च महापद्मस्य प्रजा देवसेन इति नाम करिष्यन्ति । तथा तस्य चक्रिण इव चतुर्दन्तः श्वेत हेरावत इव हस्ती भविष्यति । तेन च प्रजास्तस्य तद्गजमधिरूढस्य विमलवाहन इति नामान्तरं करिष्यन्ति । तस्य चाऽन्यदा पूर्वभवाभ्यस्तमुनिद्वेषत: श्रमणेषु द्वेष उत्पत्स्यते । तेन च स मुनीन् ताडनाद्यैर्बहुधा पीडयिष्यति । तदा पौरसचिवादैरनपराधमुनिनिग्रहो नोचित इति प्रतिबोधितोऽनिच्छन्नपि मुनिपीडनं त्यक्ष्यति ।
अन्यदा च रथारूढः क्रीडोद्यानं गतस्तेजोलेश्यासमृद्धं त्रिज्ञानं कायोत्सर्गस्थितमातापनापरं सुमङ्गलं दृष्ट्वा निष्कारणं क्रुद्धो