________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः वा ?" ततः प्रभुरुवाच - "जिनान् विहायाऽन्यत्र तस्य तथाकरणे शक्तिरस्ति । जिनानपि च स कुमतिः सन्तापं कर्तुं प्रभवत्येव । तद्गत्वा गौतमादीन् ब्रूहि यदिहाऽऽगतो गोशालो धर्मवचसाऽपि न प्रेरणीयः" । तत आनन्दो गत्वा गौतमादीन् तत् कथयामास । गोशालश्च तत्राऽऽगत्य प्रभोरग्रे स्थित्वाऽवदत्-"भोः काश्यप ! गोशालो मङ्खलिपुत्रो मम शिष्य इति तव सम्भाषितं मिथ्या । यतस्तव शिष्यो गोशालः शुक्लजातिको धर्मध्यानस्थो विपद्य देवो जात: । अहं तूपसर्गपरीषहक्षमे तद्देहे निजं कायं परित्यज्य प्रविष्ट उदायनामा मुनिरस्मि । त्वं न मम गुरुर्न वाऽहं गोशालः । तन्मामजानं त्वं मिथ्यावागसि" ।
१५२
ततः प्रभुरुवाच - " त्वं गोशाल एवाऽसि, मिथ्या किमर्थं भाषसे ?" ततः क्रुद्धो गोशालः प्रभुमुवाच - "अद्य तव नाशो निश्चित:" । तत: प्रभोः शिष्यः सर्वानुभूतिरसहिष्णुर्गोशालमुवाच"गुरुणाऽनेन दीक्षितः शिक्षितश्च किमपलपसि ? त्वं गोशाल एवाऽसि” । ततः कुपितो गोशाल: सर्वानुभूतये तेजोलेश्यां मुमोच । तेन च दह्यमानोऽपि शुभध्यानस्थः स विपद्य सहस्त्रारे देवो बभूव ।
अथ ततो गोशालः स्वलेश्याशक्तिगर्वात् प्रभुं पुनः पुनर्निर्भर्त्सयामास । ततः प्रभुशिष्यमनुशासतं सुनक्षत्रमपि गोशालस्तेजोलेश्यया ददाह । सोऽपि चाऽऽलोचनादिपूर्वकं विपद्याऽच्युतकल्पे सुरोऽभवत् ।
ततो विजयगर्वितं गोशालं वीरप्रभुः करुणयोवाच - "मया दीक्षितः शिक्षितश्च मामेव निन्दसि कोऽयं ते मतिविपर्यासः” । प्रभुणैवमुक्तश्चाऽत्यन्तं कुपितो गोशालो वीरजिनं प्रति तेजोलेश्याम
दशमं पर्व अष्टमः सर्गः
१५३
मुचत् । सा तेजोलेश्या च प्रभौ प्रभावहीना भक्त्या प्रदक्षिणापरा प्रभोरङ्गे सन्तापमात्रं विधायाऽकार्यायाऽनेन प्रयुक्ताऽहमिति निवृत्य कोपाद् बलाद् गोशालस्य शरीरे प्राविशत् । तयाऽन्तर्दह्यमानोऽपि च गोशालो धृष्टो वीरजिनमुवाच - "मत्तेजोलेश्यया सन्तप्तः षण्मासान्ते पित्तज्वराभिभूतोऽवश्यं छद्मस्थोऽपि मृत्युमेष्यसि " ।
ततः प्रभुरुवाच - "गोशाल ! त्वद्वचो मिथ्या । यतोऽहं केवल्यपराणि षोडशाब्दानि विहरिष्यामि । प्रत्युत त्वमेव स्वतेजोलेश्यया पित्तज्वरग्रस्तः सप्तदिनान्ते मृत्युमेष्यसि " । अत्राऽन्तरे च गोशालस्तेजोलेश्यापीड्यमानशरीरो विलपन् भूमौ पपात । ततो गुर्वाज्ञाप्रकुपितैर्गौतमादिभिर्निर्भत्सितः स्वामिसभातो निष्क्रम्य हालाहला कुम्भकार्या आपणं जगाम ।
ततः प्रभुर्मुनीनुवाच - "गोशालस्योग्रेण तपसा साधिता तेजोलेश्या सह्योत्तरान् वत्सादीन् षोडशदेशान् दग्धुं समर्था" । तच्छ्रुत्वा च गौतमादयो विस्मयं गताः । गोशालकश्च तेजोलेश्यया दह्यमानो मद्यं तापशान्त्यै पीत्वोन्मत्तवच्चेष्टमानो विरुद्धमसम्बद्धं च जल्पति स्म । शिष्याणां च सशोकं तदुपचारपरायणानां दिनं व्यतीयाय । गोशालोपासकचाऽयंपुलस्तत्र धर्मजागरं कुर्वाणो निशीथे दध्यौ - " तृणगोपालिका कि संस्थानेति न वेद्मि । तत्सर्वज्ञं स्वगुरुं गोशालं गत्वा पृच्छामि । एवं विचार्य स प्रातर्भूषणान्यादाय हालाहलागृहं गतो गोशालं तथावस्थं दृष्ट्वा लज्जया निवृत्तो गोशालशिष्यैः स्थविरैर्दृष्ट उक्तश्च - "अयंपुल ! तव रात्रौ तृणगोपालिकासंस्थानविषयः संशयो जातः” । तेन विस्मितश्च स एवमेतदित्युवाच ।