________________
१५०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः लोकश्च सरलमतिस्तस्याऽर्हन्निति ख्याति श्रुत्वाऽऽगत्याऽऽगत्य तमुपास्ते स्म । इतश्च गौतमो यथाकालं प्रभोराज्ञया षष्ठपारणं चिकीर्षुभिक्षार्थं पुरं प्रविश्य सर्वज्ञोऽर्हन् गोशालोऽत्राऽस्तीत्याकर्ण्य च सविषादो भिक्षामादाय प्रभोरन्तिकं जगाम । विधिवत् पारणं विधाय समये नागराणां पश्यतामेव प्रभुमपृच्छत्-"प्रभो ! पुर्यामस्यां जना गोशालं सर्वज्ञं कथयन्ति, तत् सत्यं न वा ?"
ततः प्रभुरुवाच-"गोशालो मङ्खलेर्मङ्खस्य पुत्रोऽजिनोऽपि जिनंमन्यः कपटी, अयं मयैव दीक्षित्वा शिक्षितः । किन्त्वयं मिथ्यात्वं गतो न सर्वज्ञः" । ततो नागराः प्रभोस्तद्वच आकर्ण्य सर्वत्रोचुः-"इहाऽऽगतोऽर्हन् वीरप्रभुः कथयति यद् गोशालो मङ्खलिपुत्रो न सर्वज्ञः" । गोशालच किम्वदन्त्या तच्छृत्वा क्रुद्ध आजीवकैरावृतस्तस्थौ । ___ इतश्च प्रभोः शिष्यः स्थविरमुख्य आनन्दः षष्ठपारणार्थं भिक्षायै पुरं प्राविशत् । हालाहलाशालास्थो गोशालश्च तमानन्दमुनिमाहूय साधिक्षेपमुवाच-“भो ! आनन्द ! तव गुरुर्वीरो लोकात् स्वसत्कारमिच्छन् सभासमक्षं मां निन्दति, मां मखपुत्रमजिनमसर्वज्ञं च कथयति । तदरिनाशक्षमां मम तेजोलेश्यां न वेत्ति किम् । तमहं सपरिच्छदं भस्मसात् करिष्यामि, केवलं त्वां त्यक्ष्यामि । अत्र दृष्टान्तं श्रृणु
"पुरा क्षेमिलायां पुर्यामवसरः प्रसरः संवादः कारको भलनश्चेति वणिजोऽभूवन् । ते च पञ्चाऽपि व्यापारार्थं भाण्डैः शकटान् भृत्वा निर्गता मार्गे निर्जलमरण्यं प्रविष्टाः । पिपासाकुलाश्च ते जलान्वेषणायेतस्ततो भ्राम्यन्ति स्म । तत्राऽवसरः पञ्चशिखरं वल्मीकं दृष्ट्वाऽन्यान्यपि चत्वारि मित्राणि तददर्शयत् । ततस्ते
दशमं पर्व - अष्टमः सर्गः सम्भूय तद्वल्मीकस्य पूर्वशिखरं भित्त्वा जलं प्राप्य पीत्वा च सौस्थ्यमापुः ।
तत: प्रसर उवाच-"अस्य वल्मीकस्य दक्षिणशिखरोऽपि भेदनीयः, अत्राऽपि किमप्यन्यद् वस्तु लब्धं स्यादेव" । ततोऽवसरः प्रत्युवाच-"अस्य शिखरस्य भेदनं न युक्तं, सर्पाणां वल्मीकं गृहं भवति, तत्तदुत्थानभयं सम्भाव्यते" । तत: संवाद उवाच"भेदिताच्छिखरात् सर्पानुत्थानात् तद्भयमस्थान एव" । ततोऽवसरः पुनर्दैवादिह जलमभवदित्युवाच । कारकश्च दैवादिह द्रम्मा भवेयुरित्युक्त्वा तत् खनितुमारभत । ततोऽवसरो नेदं मम मतमित्युक्त्वा स्वशकटं जगाम । ततो भलन उवाच-"अवसरो बाढं यातु, तं विनाऽपि शिखरं खनिष्यामः" ।
ततस्ते सर्वे तं शिखरं चख्नुः । भिन्नाच्च तद्वल्मीकशिखराद् द्रम्मा निर्गताः । ततस्तेऽवसरं विना तान् विभज्य जगृहुः । ततो लोभवशात् ते तृतीयमपि शिखरं खनित्वा रूप्यं प्रापुः । ततस्ते द्रम्मान् विहाय तद्रूप्यं जगृहुः । ततस्ते चतुर्थं नाकुशिखरं भित्त्वा स्वर्णं प्रापुः । रजतं त्यक्त्वा तद् जगृहुश्च । तत: पञ्चमे शिखरे नूनं रत्नानि भविष्यन्तीति बुद्ध्या लोभान्धास्ते तच्छिखरं भेत्तुमारभन्त । भिद्यमानात् तच्छिखराच्च समुद्रात् कालकूट इवोत्थितो दृग्विषः सर्पः पूर्वं सूर्यं दृष्ट्वा पश्चात् तांश्चतुरः शकटवृषभांश्चाऽपि भस्मीचकार । तत्साधिष्ठात्री देवी च निर्लोभोऽयमित्यवसरं सशकटवृषमिष्टं स्थानं प्रापयामास" | तदहं तांश्चतुरो वणिजान् सर्प इव त्वद्गुरुं धक्ष्यामि, सर्पोऽवसरमिव च त्वां त्यक्ष्यामि ।
तच्छ्रुत्वा चाऽऽनन्दो मुनिभिक्षामपि विहाय गत्वा प्रभुं गोशालोक्तं निवेद्य शङ्कितोऽपृच्छत्-"गोशालस्येदृशी शक्तिरस्ति न