________________
१४८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ गोशालको जनश्रुत्या "शब्दालपुत्र आजीवकमतं त्यक्त्वा निर्ग्रन्थश्रमणमतं प्रपन्नवानि"ति श्रुत्वा शब्दालपुत्रकं पुनराजीवकमते स्थापयामीति विचार्याऽऽजीवकैः सह तत्राऽऽगात् । किन्तु शब्दालपुत्रस्तं न सत्कृतवान् । तत: सोऽफलमनोरथस्ततो निर्गतवान् ।
इतश्च वीरजिनो राजगृहे गुणशिलाख्ये चैत्ये समवससार । तन्नगरे च चुलनीपितृसमद्धिर्महाशतकनामा गृहपतिर्बभूव । तस्य च रेवत्याद्यास्त्रयोदश भार्या अभूवन् । तत्र रेवत्या अष्टौ हिरण्यकोट्यो व्रजाश्चाऽभूवन् । अन्यासां च प्रत्येकमेकास्वर्णकोटिरेको व्रजचाऽभूत् । सोऽपि च प्रभोरग्रे चुलनीपितृवद् धर्म नियमांश्चाऽग्रहीत् ।
___ अथाऽन्यदा विहरन् वीरप्रभुः श्रावस्ती नगरीं प्राप्य कोष्ठकसंज्ञके उपवने समवससार । तन्नगरे चाऽऽनन्दतुल्यसमृद्धिको नन्दिनीपिता गृहपतिरभूत् । तस्य च चन्द्रस्याऽश्विनीवाऽश्विनी भार्याऽऽसीत् । स गत्वा प्रणम्य देशनां श्रुत्वा प्रभोरग्रे आनन्द इव धर्म नियमांश्च शिश्राय । तथा तत्र स आनन्दतुल्यद्धिको गृहपति
र्लान्तकापिताऽपि फाल्गन्याख्यया स्वभार्यया सह प्रभोरग्रे देशनां श्रुत्वा धर्म नियमांश्चाऽग्रहीत् । तदेवं वीरप्रभोर्दृढाशया धीरा दश श्रावकचरा अभूवन् ।
दशमं पर्व - अष्टमः सर्गः
१४९ तत्र तस्थौ । चन्दना साध्वी चोत्थानसमयं ज्ञात्वा वीरजिनं प्रणम्य सपरिच्छदा स्वां वसतिं ययौ । मृगावती तु सूर्यप्रभातेजसाऽऽगतां रात्रिमज्ञात्वा दिनभ्रमात् तत्रैव तस्थौ । चन्द्रा-सूर्ययोर्गतयोश्च रात्रि ज्ञात्वा मृगावती कालात्ययाच्चकिता प्रतिश्रयमागता ।
ततश्चन्दना तामुवाच-"साध्वि ! कुलीनायास्तव रात्रौ बहिरेकाकिन्याः स्थितिर्न युज्यते" । ततश्चन्दनां मुहुर्मुहुः क्षमयन्त्यास्तस्या मृगावत्या घातिकर्मक्षयाद् निर्मलं केवलमुत्पन्नम् । सा च शयानाया: साध्व्या: पार्श्वे गच्छन्तं सर्प केवलाज्ज्ञात्वा पृथिव्या बाहुमुदक्षिपत् । ततः प्रबुद्ध्या चन्दनया किं बाहुरुत्क्षिप्त इति पृष्टा महासर्प इह गच्छतीति कथयामास । ततो गाढेऽन्धकारे त्वया सर्पः कथं दृष्ट इति चन्दनया पृष्टा मया केवलज्ञानेनैतज्ज्ञातमिति मृगावत्युवाच । ततश्च चन्दनाया अपि केवल्याशातनीं मां धिगिति मुहुर्मुहुः स्वं निन्दन्त्या: केवलमुत्पेदे ।।
इतश्च गौतमः प्रभुमपृच्छत्-"किं भावाः स्वभावतोऽन्यत्वं गच्छन्ति, यच्चन्द्र-सूर्ययोविमाने इहाऽऽजग्मतुः ?" तत: प्रभुरुवाच"दशाऽऽश्चर्याणि स्यु:-तत्राऽर्हतामुपसर्गाः, गर्भापहारश्चन्द्र-सूर्यविमानावतरणं, चमरोत्पातो, भव्यरहिता परिषदष्टोत्तरं शतं सिद्धा, अपरकङ्कायां कृष्णगमनमसंयतपूजा, स्त्रीतीर्थं हरिवंशकुलोत्पत्तिश्च । तस्माच्चन्द्रसूर्यविमानावतारः सङ्गत: एव" ।
एवमुक्त्वा ततो विहरन् प्रभुः श्रावस्ती गत्वा कोष्ठकाख्ये उद्याने समवससार । तन्नगरे च पूर्वमेवाऽऽगतस्तेजोलेश्याविनाशितविरोधकोऽष्टाङ्गनिमित्तज्ञानवशाल्लोकमनोभावज्ञाता जिनम्मन्य स्वं जिनं ख्यापयंश्च गोशालो हालाहलाकुम्भकार्या आपणे वसति स्म।
अथ वीरप्रभुविहरन् कौशाम्बी पुरीं जगाम । तत्र च चरमपौरुष्यां चन्द्रा-सूर्यो स्वविमानस्थौ युगपदेव प्रभुं वन्दितुं समेयतुः । लोकश्च नभसि विमानतेजसा प्रकाशिते सति कौतुकात्