________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
इतश्च काश्यां महापुर्यां जितशत्रुर्नृपो बभूव । तस्यां च महेभ्यश्चुलनीपिता गृहपतिरासीत् । तस्य च रूप-यौवनसम्पन्ना श्यामाख्या पत्न्यासीत् । तस्य च निधि-वृद्धि-व्यवहारेषु पृथक् पृथगष्टौ स्वर्णकोट्यो दशगोसहस्रसमन्विता अष्टौ व्रजाश्चाऽभवन् । प्रभुश्च वीरजिनो विहरंस्तस्यां नगर्यां कोष्ठकाख्ये उद्याने समवासरत् । तत्र च सुरा - ऽसुरा जितशत्रुनृपश्च प्रभुं नन्तुं समागता: । चुलनीपिताऽपि मण्डनमण्डितः पदातिरेवाऽऽगत्य भक्त्या प्रणम्योपविश्य धर्मदेशनां श्रुतवान् । सभायामुत्थितायां च चुलनीपिता प्रभुं प्रणम्य पप्रच्छ- "प्रभो ! लोकप्रबोधाय महीं विहरन्नयाचितमेव धर्मं ददासि । तच्छ्रावकधर्मदानेन मामनुगृहाण " । ततः स प्रभुणाऽनुज्ञातः श्रावकधर्मं जग्राह । तथा स कामदेव इव स्वर्णादीनां नियमं प्रपेदे । तत्पत्नी श्यामाऽपि च प्रभुसमीपे श्रावकव्रतं गृहीतवती ।
तदा गौतमः प्रणम्य प्रभुं पप्रच्छ- "अयं चुलनीपिता यतिधर्म ग्रहीष्यति न वा ?" ततो वीरजिन आह- " अयं यतिधर्मं न ग्रहीष्यति, किन्तु श्रावकव्रतं पालयन् विपद्य सौधर्मेऽरुणाभविमाने चतुः पल्योपमस्थिति: सुरो भूत्वा च्युत्वा विदेहेषूत्पद्य सेत्स्यति" ।
१४६
अथ तत्रैव सुरादेवो गृहपतिर्बभूव । तस्य च धन्याख्या भार्याऽऽसीत् । कामदेववदेव च हिरण्यादिकं तस्याऽऽसीत् । सोऽपि गत्वा स्वभार्यया धन्यया सह प्रभोरग्रे श्रावकव्रतं हिरण्यादिनियमांश्चाऽग्रहीत् ।
अथ प्रभुर्विहरन् आलभिकां नगरीं प्राप्तः शङ्खवनोद्याने समवससार । तत्र नगरे च महर्द्धया कामदेवतुल्यश्चुल्लशतिको नाम गृहपतिर्बभूव । तस्य बहुलाख्या प्रियाऽऽसीत् । स गत्वा भार्यया बहुलया सह प्रभोरग्रे गृहिधर्म नियमांश्च प्रपेदे ।
दशमं पर्व अष्टमः सर्गः
ततश्च विहृत्य प्रभुः काम्पील्यपुरे सहस्त्राम्रवणोद्याने समवासार्षीत् । तत्र नगरे च वास्तव्यः कामदेवतुल्यर्द्धिः कुण्डगोलिको गृही स्वभार्यया शीलादिसमन्वितया पुष्पया सह प्रभोरग्रे श्रावकधर्मं नियमांश्चाऽग्रहीत् ।
१४७
अत: पोलाशपुरे शब्दालपुत्रः कुलालो गोशालमतादरी बभूव । तस्य भार्याऽग्निमित्राख्याऽऽसीत् । स च हिरण्य-गोव्रजादिसमृद्ध आसीत् । तन्नगराद् बहिश्च तस्य कुलालस्य पञ्च कुम्भकारापणशतान्यासन् । तं कुलालमशोकवने कश्चिद् देव उवाच"प्रातः सर्वज्ञ इहाऽऽगमिष्यति, तं फलकपीठ-संस्तरका दिना सेवेथाः” । आजीवभक्तश्च स " मम धर्मगुरुः सर्वज्ञो गोशाल इह प्रातरेष्यती" ति बुबुधे । प्रातश्च प्रभुवीरजिनस्तत्र समागत: सहस्त्राम्रवणे समवससार । ततः स कुम्भकारो गत्वा प्रभुमवन्दत । वीरजिनश्च देशनां कृत्वा तमुवाच "शब्दालपुत्र ! ह्यस्त्वामशोकवने देवः " सर्वज्ञोऽर्हन्नेष्यति, स त्वया पीठादिसमर्पणेनोपास्यइत्यवदत् । त्वं च गोशाल एष्यतीत्यचिन्तयः " ।
तच्छ्रुत्वा च स कुलालो दध्यौ "अहो ! अयं सर्वज्ञो महावीर आगतः, तदयं वन्दनीयः सेवनीयश्च" । एवं विचार्योत्थाय नत्वा च कृताञ्जलिः प्रभुमुवाच-" एतत्पुराद् बहिर्मम कुम्भकारापणेषु पीठाद्यादाय मामनुगृहाण" । प्रभुश्च तद्वचः प्रपन्नवान् । गोशालशिक्षावशाद् गृहीताद् नियतिवादाच्च तं युक्तिभिः प्रबोध्य न्यवर्त्तयत् । ततः स नियतिवादमपहाय पुरुषार्थं स्वीकृत्याऽऽनन्द इव प्रभोरग्रे श्रावकव्रतं नियमांश्च प्रपेदे । तद्भार्याऽग्निमित्रा चाऽपि तेन प्रतिबोधिताऽऽगत्य प्रभोरग्रे श्रावकव्रतं जग्राह । ततो वीरजिनोऽन्यत्र विजहार ।