________________
१४४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ मृगावती भवोद्विग्ना समुत्थाय स्वामिनं प्रणम्य चण्डप्रद्योतं पुत्रं समाऽऽपृच्छय च दीक्षां जग्राह । प्रद्योतश्चोदयनं कौशाम्ब्यां नृपमकरोत् । तदानीं च प्रद्योतनृपस्याऽङ्गारवत्याद्या अष्टौ भार्या अपि मृगावत्या सह प्रवव्रजुः । प्रभुश्चाऽनुशिष्यता मृगावत्याद्याश्चन्दनाया: समर्पयामास ।
इतश्च सर्वद्धिसमृद्धे प्रख्याते वाणिजकग्रामाख्ये महानगरे जितशत्रुर्नाम नृपो बभूव । तत्र चाऽऽनन्दो नाम चन्द्र इव लोकाह्लादको गृहपतिरासीत् । तस्य च चन्द्रस्य रोहिणीव रूप-लावण्यसम्पन्ना शिवानन्दाख्या भार्या बभूव । तस्य च कोषे वृद्धौ व्यवहारे च पृथक् पृथक् चतस्त्रः स्वर्णकोटयो गवां चत्वारो व्रजाश्चाऽभवन् । तन्नगरादुत्तरपूर्वस्यां दिशि कोल्लाके उपनगरे आनन्दस्य बहवो बन्धुसम्बन्धिन आसन् ।
वीरजिनश्च विहारक्रमतस्तत्पुरस्य पूतिपलाशोद्याने समवससार । जितशत्रुस्तज्ज्ञात्वा सपरिच्छदः प्रभुं नन्तुं जगाम । आनन्दोऽपि च गत्वा नत्वा प्रभोर्देशनां श्रुत्वा प्रबुद्धो द्वादशविधं श्रावकधर्म जग्राह । स शिवानन्दा विना स्त्री-निधि-वृद्धि-व्यवहारगाश्चतस्त्रश्चतस्रः स्वर्णकोटीरन्तरेण स्वर्ण, चतुरो गोव्रजान् मुक्त्वा गोव्रजान्, हलपञ्चशतीमृते क्षेत्रं दिग्यात्रार्थं रक्षितानां पञ्च पञ्चशतानि विना शकटान्, दिग्यात्रार्थं चत्वारि प्रवहणानि मुक्त्वा प्रवहणानि, गन्धकाषायीं विनाऽङ्गप्रक्षालनवस्त्रमामधुयष्टि विना दन्तधावनं, क्षीरामलकादपरं फलं सहस्रशतपाकतैलादन्यत्तैलं, सुरभि विनोद्वर्त्तनमष्टौष्ट्रिकदुग्धकुम्भेभ्योऽन्यमज्जनं, क्षौमयुगादन्यद्वासः, श्रीखण्डा
दशमं पर्व - अष्टमः सर्गः गरुकुङ्कुमानि विहाय विलेपनं, मालतीमाल्यात् पद्माच्चाऽन्यत्पुष्पं, कर्णिकानाममुद्रे विहाय भूषणं, तुरुष्कागरुधूपं मुक्त्वा धूपं, घृतपूरखण्डखाद्यं विना भोज्यं, काष्ठपेयामृते पेयां, कलमादन्यद् भक्तं, माषमुद्गकलायैविना सूपं, शारदगोघृतमृते घृतं, स्वस्तिक मण्डूकी वालुक्यां च विहाय शाकं, स्नेहाम्लदाल्यम्लमृते तेमनमाकाशजलादृते जलं, पञ्चसुगन्धिताम्बूलादृते मुखवासं चाऽत्यजत् । गृहमागत्य च स सहर्ष प्रतिज्ञातं श्रावकधर्म शिवानन्दायाः कथयामास । ततः शिवानन्दाऽपि यानमारुह्य तत्क्षणं गत्वा प्रभुं प्रणम्य गृहिधर्मं प्रपद्य पुनर्गृहं जगाम ।
अथ गौतमः प्रणम्य "किमयं महात्माऽऽनन्दः प्रव्रजिष्यती"ति प्रभुं पप्रच्छ । ततः प्रभुराह-"आनन्दश्चिरं श्रावकव्रतं पालयित्वा विपद्य सौधर्मकल्पेऽरुणप्रभे विमाने चतुःपल्योपमस्थितिर्देवश्रेष्ठो भविष्यति" ।
अथेतश्चैत्यैविराजमानायां चम्पापुर्यां श्रीमान् महाबाहुर्जितशत्रुर्नृपो बभूव । तस्यामेव पुर्यां च कामदेवो नाम लोकानामाश्रयप्रदो गृहपतिरासीत् । तस्य च सुरूपाऽपरा लक्ष्मीरिव भद्रा नाम भार्या बभूव । तस्य च निधि-वृद्धि-व्यवहारेषु पृथक् पृथक् षट् स्वर्णकोट्यो दशगोसहस्रसमन्विता: षड् व्रजाश्चाऽभवन् । वीरजिनश्च विहरंस्तन्नगरे पूर्णभद्राख्ये उद्याने समवासरत् । कामदेवश्च पादाभ्यामागत्य गत्वा नत्वा प्रभोधर्मदेशनां श्रुत्वा प्रबुद्धो द्वादशविधं श्रावकधर्म प्रपेदे । आनन्द इव च स्त्र्यादिकं प्रत्याचख्यौ च । गृह गतात् तस्माज्ज्ञात्वा च तद्भार्या भद्राऽप्यागत्य प्रभोरग्रे श्रावकधर्म गृहीत्वा पुनर्गृह जगाम ।