________________
१४२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः इह भरते चम्पायां नगर्यामेक: स्वर्णकारः स्त्रीलम्पटोऽभूत् । स च यां यां रूपवती कन्यामपश्यत् तां तां पञ्चस्वर्णशतीं दत्त्वा परिणिनाय । एवं स स्त्रीणां पञ्चशती परिणीय तासां प्रत्येकं सर्व स्वर्णाभरणं ददौ । वारक्रमेण च ता विभूषितास्तेन रन्तुं सज्जिता अभूवन् । एकदा च ताः सर्वाः स्त्रियो निराभरणा एव तस्थुः । ततः स तास्तर्जना-ताडनादिभिरशिक्षयत् । अतीर्ष्यालुतया च स तासां रक्षणार्थं सयत्नः सौविदल्ल इव कदाऽपि द्वारं नाऽमुचत् । अन्यदा च सोऽनिच्छन्नपि प्रियमित्रेण भोक्तुं कथञ्चित् स्वगृहं नीतः ।
तदानीं च तत्पत्न्यो दध्यु:-"मम यौवनं कारानियन्त्रितमिव जीवनं च धिक्, यमदूत इव पापोऽयमस्माकं पति_रं न मुञ्चति । अद्याऽस्याऽन्यतो गमनं साधु । अद्य क्षणं स्वेच्छया तिष्ठामः" । एवं विचार्य ताः स्नात्वाऽऽभरणादि परिधाय दर्पणमादाय यावत् स्वं ददृशुस्तावत् स स्वर्णकारः समागमत् । तास्तथाविधा दृष्ट्वा च स एकां स्त्रियं तथा ताडयामास यथा सा मृता । ततोऽयमस्मानपि हनिष्यत्येवेति सम्भूय वयमेनं हन्मीति विचार्य ता दर्पणानामेकोनानि पञ्चशतानि चक्राणीव तस्मै प्रचिक्षिपुः । तेन स सद्यो मृतः । ततश्च पश्चात्तापशीलास्ताः स्त्रियश्चितावद् गृहं ज्वालयित्वा विपेदिरे ।
पश्चात्तापमागतास्ता अकामनिर्जरया मृताः सर्वा अपि मनुष्यभवमापन्नाः कर्मविपाकाच्चौर्यजीविनः पुरुषा अभूवन् । क्रमाद् मिलिताश्च ते सर्वे एकत्र दुर्गे तिष्ठन्तः सम्भूय चौर्यं कुर्वन्ति स्म । स्वर्णकारश्च तिर्यसूत्पेदे । प्राङ् मृता सा तत्पत्नी च तिर्यसूत्पद्य द्विजकुले पुत्रोऽभवत् । यदा स पञ्चवर्षो जातस्तदा स स्वर्णकारजीवस्तिर्यग्योनेनिर्गत्य तद्विजकुल एव द्विजपुत्रस्य
दशमं पर्व - अष्टमः सर्गः
१४३ स्वसृरूपेणोत्पन्नः । तस्याश्च स एष बालकः पालकत्वेन पितृभ्यां नियुक्तः । किन्तु तेन पाल्यमानाऽपि साऽतिदुष्टतयाऽरोदीदेव ।
तेन बालेनाऽन्यदोदरस्पर्शनक्रमात् कथञ्चिद् गुह्ये स्पृष्टा च सा रोदनाद् विरता । ततः स बालस्तस्यास्तद्रोदनप्रतीकारं ज्ञात्वा रोदननिवृत्तये यथासमयं गुह्यस्थानस्पर्शात्मकप्रतिकारमेव चकार । तथा कुर्वंश्चेकदा स पितृभ्यां दृष्टस्ताडयित्वा गृहाद् निर्वासितश्च गिरिगह्वरं जगाम । तथैकोनशतपञ्चकदस्युपूर्णां पल्लीं प्राप्य स तैश्चौरैर्मिलितवान् । तस्य भगिनी चाऽप्राप्तयौवनाऽपि कुलटा स्वैरिणी क्वाऽपि ग्रामे गता । तदैव च स ग्रामस्तैश्चौरैलुंण्टितः । तत्र सा तैर्गृहीता सर्वैरपि स्वीकृता ।
एकदा च ते चौरा दध्यु:-"इयमेका सर्वानस्मान् सेवमाना शीघ्रमेव मृत्युमेष्यति" । एवं विचार्य तेऽन्यामपि स्त्रियमानैषुः । ततः पूर्वभार्या सेjया तच्छिद्राणि मार्गयते स्म । अन्यदा चौरेषु चौर्यार्थमन्यत्र गतेषु सा छलं कृत्वा तां सपत्नी कूपसमीपं नीत्वा तत्र तद्वचसाऽन्तः किमपि पश्यन्ती चिक्षेप । आगतैश्चौरैः पृष्टा च साऽपरा क्व गतेति न वेद्यीत्यवोचच्च । ततस्तैरनयेjया सा मारितेति ज्ञातम् । स द्विजपुत्रश्च तां दुःशीलां स्वस्वसारमाशङ्क्य लोकाद् मां सर्वज्ञमिहाऽऽगतं ज्ञात्वेहाऽऽगतो लज्जया प्राङ्मनसाऽपृच्छत् । मया 'वचसा पृच्छे'ते प्रेरितश्च या या सा सेति पृष्टवान् । अस्माभिश्चैवमित्युक्त्वा स तव भगिन्येवेत्ययं ज्ञापितः । एवमेव प्राणिनो राग-द्वेषाद्याक्रान्ता नानादुःखं भजमाना भवे भवे भ्रमन्ति । स पुरुषश्च तदाकर्ण्य परं संविग्नः प्रभुपार्श्वे प्रव्रज्य तां पल्ली गतस्तामेकोनां चौरपञ्चशती प्रतिबोध्य प्रावाजयत् ।