________________
१४०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तस्याऽङ्गुष्ठं छेदयामास । ततः स चित्रकरः कृतोपवासो गत्वा तं यक्षं सिषेवे । ततो यक्षो 'वामहस्तेनैव प्राग्वच्चित्रं करिष्यसी"ति वरं ददौ । लब्धवरश्चित्रकरो दध्यौ-"अहं निरपराधोऽपि नृपेणेमां दशां प्रापितोऽस्मि । तत्केनाऽप्युपायेन तं प्रतिकरिष्यामि" ।
अथैवं निश्चित्य स चित्रकरः फलके साभूषणां मृगावतीमनुपमसुन्दरीं लिखित्वा गत्वा स्त्रीलम्पटस्य चण्डप्रद्योतनृपस्य दर्शयामास । चण्डप्रद्योतश्च चित्रं चित्रकरं च प्रशस्य जातरागश्चित्रकराद् मृगावती ज्ञात्वा शतानीकाद् मृगावती सिंहो मृगाद् मृगीमिव ग्रहीष्यामीत्युक्त्वा वज्रजङ्घाख्यं दूतमनुशिष्य शतानीकनृपान्तिकं प्रेषयामास । दूतश्च गत्वा शतानीकनृपं 'राज्यं प्राणाश्च ते प्रियाश्चेद् मृगावतीं शीघ्रमस्मभ्यं प्रेषये"ति चण्डप्रद्योतादेशमुवाच। शतानीकेन च कोपात कट्क्त्या निर्भत्सितः स दूतोऽवल्यामागत्य चण्डप्रद्योतस्य सर्वं वृत्तं कथयामास । ततः क्रुद्धश्चण्डप्रद्योतो महता सैन्येन कौशाम्बी प्रति प्रतस्थे । शतानीकश्च प्रद्योतमायान्तं श्रुत्वा जातातिसारो भयाद् मृत्युमाप ।
तत: पतिव्रता मृगावती दध्यौ-"पतिर्मे मृतः । बाल उदयनः पुत्रश्च स्वल्पबलः । तदस्मिन् स्त्रीलम्पटे कपट एव स्वकलङ्कनिवारणाय विधेय: । अवसरं प्रतीक्षमाणाऽहमनुकूलैः सन्देशवचनैस्तं प्रलोभ्य कथमपि कालं नेष्यामि" । एवं विचार्य च सा दूतमनुशिष्य प्रेषयामास । स दूतश्च गत्वा शिबिरस्थं चण्डप्रद्योतमुवाच-"देव ! मृगावती त्वां ब्रूते-शतानीके मृते पुत्रे चाऽल्पबले बाले त्वमेव शरणं मम । किन्तु मया त्यक्तोऽयं प्रत्यासन्ननृपैरभिभविष्यते" । तद्वचसा प्रीतः प्रद्योत उवाच-मयि रक्षके को नाम तत्पुत्रमभिभवितुमीश: ?"
दशमं पर्व - अष्टमः सर्गः
...१४१ ततो दूत उवाच-“देव ! देव्यप्येवं मन्यते । किन्तु भवन्तो दूरे सीमनृपाश्च समीपे । तद्यदि देव्या निर्विघ्नं योगमिच्छसि तदोज्जयिन्या इष्टकाभिः कौशाम्ब्यां विशालं दृढं च प्राकारं कुरु" । चण्डप्रद्योतश्च तत् प्रपद्य मार्गे श्रेणिरूपेण निजान् चतुर्दशाऽपि नृपतीन् सपरिच्छदान् मुमोच । तत: पुरुषपरम्परयाऽवन्त्या इष्टका समानीय कौशाम्ब्या दृढं प्राकारं कारयामास । मृगावत्या पुनर्धनधान्यादिभिः पुरं पूरयेति सन्दिष्टश्च प्रद्योतः सर्वं शीघ्रमेव चकार । ततो मृगावतीनगरी रोधक्षमां ज्ञात्वा द्वाराणि पिधाय तत्र तस्थौ । प्राकारे च भटानारोपयत् । ततश्च चण्डप्रद्योतो भृशं विषण्णोऽभितः पुरीं रुद्ध्वा तस्थौ ।
अथाऽन्यदा वैराग्यमुद्वहन्ती मृगावती दध्यौ-"यदि प्रभुर्वीरः समायाति तदाऽहं प्रव्रजामि" । वीरजिनश्च तस्या भावं विज्ञाय सपरिवारस्तत्र शीघ्रमेव समाययौ । मृगावती च बहि: प्रभु समवसृतं श्रुत्वा निर्भया द्वाराण्युद्घाट्याऽऽगत्य प्रभुं वन्दित्वा यथास्थानं तस्थौ । प्रद्योतोऽपि समागत्य प्रभुं नत्वा त्यक्तवैरः समुपाविशत् । प्रभुश्च धर्मदेशनां चकार ।
तदानीं च लोकात् सर्वज्ञोऽयमिति श्रुत्वा कश्चिद् धनुर्धरः पुरुषोऽदूरस्थ एव मनसा प्रभुं संशयं पप्रच्छ । ततः प्रभुरुवाच"वचसा स्वसंशयं ब्रूहि । यथाऽन्येऽपीमे भव्याः प्रतिबुध्यन्ते" । प्रभुणैवमुक्तोऽपि लज्जालुः स स्पष्टं वक्तुमसमर्थो या या सा सेत्यल्पाक्षरं पप्रच्छ । प्रभुश्चाऽप्येवमेतदित्यल्पाक्षरमेव प्रत्युवाच । ततो गौतमो या या सा सेति किं वच इति प्रभुं पप्रच्छ। ततो वीरजिन उवाच