________________
१३९
१३८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः इतश्च साकेतपुरे लोकैः प्रतिवर्ष सुरप्रियो यक्षश्चित्र्यते महोत्सवश्च क्रियते । चित्रितश्च स यक्षः स्वचित्रकचित्रकरं निहन्ति, अचित्रितश्च पुरे मार विकरोति । ततो भीताः पलायमानाश्चित्रकराः स्वप्रजामारिभयेन राज्ञा रुद्धाः । तथा नृपेण तेषां दत्तलग्नकानां पत्रके नामानि लिखित्वा घटे क्षिप्तानि । वर्षे वर्षे च तत्कालं पत्रकमाकृष्यते स्म । यस्य च नाम तत्र भवति स यक्षं चित्रयति । एवं काले गच्छति कदाचिदेकश्चित्रकरपुत्रः कौशाम्ब्यास्तत्र चित्रशिक्षार्थमागतश्चित्रकरायाः स्थविरायाः कस्याश्चिद् गृहे स्थितः । तस्य च क्रमात् तत्स्थविरापुत्रेण सह मैत्री जाता ।
तदानीं च क्रमात् तत्स्थविरापुत्रस्य नामपत्रके निर्गते च सा करुणमरोदीत् । चित्रकारपुत्रेण तेन रुदितहेतुं पृष्टा च सा यक्षवृत्तान्तं स्वपुत्रस्य निर्गतं नामपत्रकं च कथयामास । तच्छ्रुत्वा च स चित्रकृद् युवोवाच-"मातर्मा रोदीः । तव सुतो गृह एव तिष्ठतु । अहमेव चित्रकरभक्षकं तं चित्रयिष्यामि" । तत: स चित्रकरयुवा षष्ठं कृत्वा चन्दनमनुलिप्य पवित्रवाससाऽष्टाभिर्गुणैर्बद्धमुखः कूर्चकैस्तं यक्षं चित्रयामास । प्रणम्य तमुवाच च-"सुरप्रिय ! तव चित्रं निर्मातुं निपुणोऽपि चित्रकरो नाऽलं क्वाऽहं मुग्धो बालः । तथाऽपि यथाशक्ति मया योग्यमयोग्यं वा कृतं क्षमस्व" । एवं तद्वचसा प्रसन्नो यक्षो वरं वृणीष्वेत्युवाच ।
तदा स युवोवाच-"यदि तुष्टोऽसि, तदद्यप्रभृति लोको न मारणीयस्त्वयेत्येव वरं वृणोमि" । ततो यक्षो जगौ-"एतद् वरं दत्तमेव । अत एव त्वं न मारितः । अन्यत् किमपि स्वार्थं याचस्व"। ततः स चित्रकारः पुनरुवाच-"त्वया मारिर्लोकानां वारितेत्येतावतैवाऽहं कृतकृत्योऽस्मि" । ततो विस्मितो यक्ष उवाच-"परार्थं ते
दशमं पर्व - अष्टमः सर्गः वरप्रार्थनेन तुष्टोऽन्यमपि तव स्वार्थं वरं दातुमिच्छामि, तद्यथेष्टं वृणु" । ततश्चित्रकृदुवाच-यं द्विपदं चतुष्पदं वैकभागेनाऽपि पश्यामि तदनुसन्धानेन यथावस्थिततद्रूपचित्रणशक्ति मे देहि" । तत एवमस्त्विति यक्षेणोक्तो नागरैः सत्कृत: स चित्रकृच्छतानीकनृपसनाथां कौशाम्वी नगरी ययौ ।
अथाऽन्यदा सभास्थः शतानीको दूतमाह-'यदन्यनृपाणामस्ति मम च नास्ति, तत् किमिति वद" । ततो दूतेन चित्रसभा त्वां नास्तीत्युक्तो नृपश्चित्रकरान् सभाचित्रणार्थमादिदेश । ततश्चित्रकाराः सभाभूमि विभज्य जगृहुः । तस्य प्रसादितयक्षस्य चित्रकरस्य भागे चाऽन्तःपुरासन्नदेशोऽभूत् । तत्र चित्रं कुर्वश्च स जालकान्तरेण मृगावत्याः साङ्गुलीयकं पादाङ्गुष्ठं ददर्श । ततः स चित्रकर इयं मृगावती देवीत्यनुमाय तां यथारूपं चित्रयामास । नेत्रे उल्लिख्यमाने च कूर्चिकामुखाचित्रोरुदेशे मषीबिन्दुः पपात । स च तं शीघ्रमेवाऽपनीतवान् । एवं पुनः पुनर्जाते च स दध्यौ-"नूनमस्या अत्र प्रदेशे लाञ्छनेन भवितव्यम्, अतो मषीबिन्दुं नाऽपनेष्यामि"।
ततो लिखिते चित्रे नृपस्तदवलोकितुमागतः क्रमाद् मृगावतीचित्रं तदूरुमूले बिन्दुं च दृष्ट्वा क्रुद्धो दध्यौ-"अनेन पापिना नूनं मम पत्नी भग्नशीला कृता । कथमन्यथा मृगावत्या वस्त्रान्तरितमूरुमूलस्थं मषीबिन्दुमसौ जानीयात्" । ततः कोपात् स नृपस्तं दोषमुक्त्वा निग्रहाय तमारक्षकाणां समर्पयामास । ततश्चित्रकरा ऊचु:-"देव ! यक्षवरप्रसादादसावेकांशं दृष्ट्वैव समग्रं चित्रमालिखति" ।
ततो राजा तत्परीक्षणार्थं तस्य कुब्जिकामुखमदर्शयत् । चित्रकरश्च कुब्जिकां यथारूपमलिखत् । तथाऽपि क्रोधाद् राजा