________________
१३६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथाऽन्यदा चम्पायां पुरि पूर्णभद्राख्योद्याने समवसृतं श्रीवीरजिनमुपगम्य गर्विष्ठो जमालिरुवाच-"भगवन् ! तव बहवः शिष्याश्छदास्था अप्राप्तकेवला एव मृताः, न च तादृगहम् । ममाऽनन्तं केवलमुत्पन्नमित्यहमेवेह सर्वज्ञोऽस्मि" । तच्छ्रुत्वा गौतमः पप्रच्छ-"भो जमाले ! यदि ज्ञान्यसि तर्हि जीवो लोकश्च नित्योऽनित्यो वेति वद" । ततो जमालिः प्रतिवक्तुमनीश्वरो व्यात्तमुखः शून्यस्तस्थौ ।
ततो वीरजिन उवाच-"जमाले ! लोकं जीवं च नित्यमनित्यं च विद्धि । द्रव्यात्मना हि सर्वं नित्यं पर्यायात्मना क्षणध्वंसिना पुनः सर्वमनित्यम्" । एवं कथितवत्यपि प्रभौ मिथ्यात्वग्रस्तो जमालिः सपरिवारः समवसरणाद् बहिर्जगाम । ततः सङ्घन निह्नववादित्वात् स जमालिर्बहिष्कृतः । तदानीं च प्रभोः केवलोत्पत्तेश्चतुर्दशाऽब्दान्यभूवन् ।
अथ जमालिः स्वमतं सर्वत्र प्ररूपयन् सर्वज्ञम्मन्यः स्वच्छन्दचारी महीं विजहार । लोके च जमालिर्जिनाद् विप्रतिपन्नो मिथ्यात्वं प्रपन्नवानि"ति सर्वत्र ख्यातिर्जाता । अन्यदा च स विहरन् सपरिवारः श्रावस्ती प्राप्यैकत्रोद्याने तस्थौ । प्रियदर्शनाऽऽर्याऽपि च साध्वीसहस्रान्विता तत्रैव नगरे ढङ्ककुम्भकारशालायां तस्थौ । परमश्रावको ढङ्कश्च तां कुमतग्रस्तां ज्ञात्वा केनाऽप्युपायेनेमां बोधयिष्यामीति दध्यौ ।
___ अन्यदा च स पवने भाण्डान्युच्चिन्वन् बुद्धिपूर्वक प्रियदर्शनाया: पटेऽलक्षितमेवाऽग्निकणं चिक्षेप । प्रियदर्शना च दह्यमानं वस्त्रं दृष्ट्वोवाच-भो ढङ्क ! त्वत्प्रमादेन मम पटो दग्धः,
दशमं पर्व - अष्टमः सर्गः पश्य" । ततो ढङ्क उवाच-'साध्वि ! मिथ्या मा वोचः, भवन्मते सकले पटे दग्धे एवैवं वक्तुमुचितम् । अथवाऽनुभवादस्माज्जिनस्य दह्यमानो दग्ध इति वच: प्रतिपत्तुमर्हसि' । तच्छ्रुत्वा जातसम्यग्ज्ञाना सोवाच-"अहं चिरात् कुमतग्रस्ता त्वया साधु बोधिताऽस्मि । इयत्कालं यज्जिनवचो दूषितं तन्मम मिथ्या दुष्कृतमस्तु । अतः परं मम तत् प्रमाणम्" ।
ततो ढङ्क उवाच-"अन्ते साधु भविष्यति, अधुनैव गच्छ, प्रभोः समीपे प्रायश्चित्तं चर" | ढङ्केनैवं बोधिता सा प्रियदर्शनाऽनुशासनमिच्छामीति ब्रुवाणा सपरिवारा जमालि त्यक्त्वा वीरजिनं जगाम । ढकेन बोधिता अन्ये मुनयोऽपि जमालिवर्जाः प्रभुसमीपं जग्सुः । जमालिश्चेकाकी व्रतं पालयन् स्वमतं प्रचारयन् भूयांसि वर्षाणि महीं विजहार । अन्ते चाऽर्धमासानशनं प्रपद्य निजं दुष्कृतमनालोच्यैव विपन्नः षष्ठे कल्पे किल्बिषिको बभूव । ___अथ गौतमो जमालि मृतं ज्ञात्वा प्रभुं वन्दित्वा जमालि: कां गतिं गत इति पप्रच्छ । ततो लान्तके त्रयोदशसागरोपमायुः किल्बिषिको जातो जमालिरिति प्रभुणोक्तश्च गौतमः पुनः पप्रच्छ'तादृक् तपस्वी स कि किल्बिषिकोऽभूत्, च्युत्वा च कां गति यास्यति ?" ततो भगवानुवाच-"गुर्वाज्ञाविराधनया जीवाः किल्बिषिकादिषु जायन्ते । जमालिश्च ततश्च्युत्वा तिर्यङ्-नरादिषु पञ्चकृत्वो भ्रान्त्वा बोधि प्राप्य सेत्स्यति । तद्धर्माचार्यादीनां विरोधो न विधेयः" । एवमुक्त्वा प्रभुरन्यत्र विजहार ।