________________
१३५
१३४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः दीक्षितानां क्षत्रियमुनीनामाचार्यपदे प्रतिष्ठितश्चतुर्थ-षष्ठा-ऽष्टमादीनि तपांस्यकरोत् । चन्दनामनुसरन्ती प्रियदर्शना चाऽपि तपांस्यकरोत् । अन्यदा च "सपरिच्छदोऽहमनियतेन विहारेण त्वदनुज्ञया गच्छामी"ति जमालिना भूयो भूय: प्रार्थितोऽपि प्रभुर्ज्ञानेन भाविनमनर्थ ज्ञात्वा न किमप्युदतरत् । जमालिश्च मौनं स्वीकारलक्षणमिति मत्वा विहर्तुं प्रभोः पार्थात् सपरिच्छदो निर्गतवान् ।। ___ अथ विहरन् जमालिः क्रमात् श्रावस्ती नगरीं प्राप्य कोष्टकाभिधे बहिरुद्याने समवासार्षीत् । असमयेऽपथ्यपानान्नाशनेन च तस्य पित्तज्वर उदभूत् । उपविष्टः स स्थातुमक्षम: शिष्यमुनीन् संस्तारककरणायाऽऽदिशत् । ततस्ते संस्तारकं कर्तुं प्रारेभिरे । पित्तपीडितश्च स पुनः पुनः संस्तारकः कृतो न वेति पप्रच्छ ।
संस्तारकः संस्तृत इति मुनिभिरुक्तश्च स जमालिरुत्थाय तत्समीपं गत्वा संस्तारकं क्रियमाणं दृष्ट्वाऽक्षमत्वात् तत्रोपविश्य जातमिथ्यात्व: कोपाद् मुनीनब्रवीत्-"भोश्चिराद् भ्रान्त्वा मयेदं ज्ञातं यत् क्रियमाणं न कृतं किन्तु कृतमेव कृतम्" । तद्भवद्भिर्यत् क्रियमाणं कृतं वर्णितं तदसत्यं वक्तुं नोचितम् । यत्तु जिन उत्पद्यमानमुत्पन्नं क्रियमाणं च कृतं वक्ति तत् प्रत्यक्षविरुद्धम् । क्षणसमूहसाध्ये वस्तुनि प्रारम्भे कृतत्वोक्तिमिथ्यैव । अर्थक्रियाकारि वस्तु मतम् । न चाऽऽद्यक्षणसम्बन्धमात्रेण वस्तुनि साध्यावस्थावस्थेऽर्थक्रियाकारित्वम् । यदि च प्रारम्भ एव वस्तुनः कृतत्वं तदा शेषक्षणेषु कृतस्यैव करणं स्यादित्यनवस्थैवाऽऽपद्येत । तत्कृतमेव कृतमिति युक्तम् । नवजातस्य सुतस्य नाम क्रियते । प्रत्यक्षमेव प्रतिपत्तव्यम्। नहि महद्भिरुक्तमित्येतावता युक्तियुक्तं त्याज्यम् ।
दशमं पर्व - अष्टमः सर्गः सर्वज्ञोऽर्हन्न मिथ्या वदेदिति न भ्रान्तव्यं, महान्तोऽपि हि क्वचित् स्खलन्ति"।
एवं विरुद्धं भाषमाणं कुपितं निर्मर्यादं जमालिं स्थविरा ऊचुः-एवं किं विरुद्धं भाषसे? वीतरागा जिना नाऽन्यथा भाषन्ते। नहि तद्वचसि प्रत्यक्षविरोधादिदोषलेशोऽपि । यदि वस्तु प्रारम्भे नोत्पन्नं तदा कालाविशेषात् समयान्तरेऽपि नोत्पन्नं स्यात् । प्रारम्भेऽपि च वस्तुनोऽभिधाज्ञानोपयोगसद्भावादर्थक्रियाकारित्वमस्त्येव । ब्रवीत्येव हि पृष्टो लोको घटं करोमीति । न वा प्रारम्भे यत् कृतं तदेव द्वितीयक्षणादौ क्रियते, किन्त्वन्यदेवेति नाऽनवस्थाऽपि । छद्मस्थानां च युक्तायुक्तत्वविवेकोऽयोग्यस्त्वादृशानामित्यग्राह्यमेव त्वद्वचः । केवलिनः सर्वज्ञा एव प्रमाणमिति त्वत्प्रयासो वथैव । महतां स्खलनोक्तिश्चैवमुन्मत्तजल्पितं तव । उक्तप्रकारेण क्रियमाणं कृतमिति सर्वज्ञोक्तेयुक्तत्वात् । त्वं च सर्वज्ञोपदेशत एव प्राज्यमपि राज्यं तृणवत् त्यक्त्वा प्राव्राजीरिति गुरुवचनमदूष्यं दूषयतस्तव भववृद्धिरेव जायते । तद्वीरजिनमुपगम्य त्वया प्रायश्चित्तं विधेयम् । अर्हद्वचनमेकाक्षरमात्रमप्यश्रद्दधानो मिथ्यात्वतो भवपरम्परामेव याति ।
एवं स्थविरैर्बहुधा बोधितोऽपि जमालिः स्वनिश्चयादनिवृत्तो मौनं शिश्राय । तेन च कुमताग्रहिणं तं केऽपि स्थविरास्तदैव त्यक्त्वा प्रभुमुपजग्मुः । केचनैव च तत्र तस्थुः । प्रियदर्शना चाऽपि स्त्रीसुलभमोह-स्नेहाभ्यां सपरिवाराऽपि जमालिपक्षमेव श्रितवती । क्रमाच्च नीरोगो जमालिस्तत्स्वदुर्मतमेव प्रतिदिनं जनानुपदिशन् जिनवचनं हसन् स्वं सर्वज्ञं ख्यापयन् साहङ्कारः सपरिवारो विजहार" ।