________________
दशमं पर्व - अष्टमः सर्गः
૨૩૩ तथाहि-प्राणिनामिहभवे पिता-पुत्रादिसम्बन्धो मुहुर्मुहुर्जायते विघटते च । संसारे एतत् सर्वमिन्द्रजालवत् । विवेकी जनोऽत्र क्षणमपि स्थातुं नोत्सहते । यावदिदं शरीरं न जराजीणं यावच्च प्राणा: सन्ति तावद् निरतिशयसुखसाधनं व्रतं ग्रहीतव्यम् । तत्र प्रमादो न युक्तः" ।
तच्छ्रुत्वा च विरक्तौ तौ दम्पती "आवां संसाराद् विरक्तौ, तद्भवतारणीं दीक्षां देहि, त्वमेव भवं तर्तुं तारयितुं च प्रभुरसी-" त्यूचतुः । प्रभुणा च तथाऽस्त्विति प्रोक्तौ तावैशान्यां गत्वा भूषणादीनि त्यक्त्वा पञ्चमष्टिभिः केशलोचं कृत्वा प्रभु प्रदक्षिणीकृत्य वन्दित्वोचतुः-"भवभीतावावां त्वां शरणं श्रितो, तद्दीक्षादानेनाऽनुगृहाण" । ततः प्रभुः स्वयं तयोर्दीक्षां दत्त्वा समाचारमावश्यक विधि चाऽऽख्यत् । तथा चन्दनायै देवानन्द स्थविरेभ्य ऋषभदत्तं चाऽर्पयामास । तौ च व्रतं पालयन्तावेकादशाङ्गमधीत्य तपः कृत्वा केवलमाप्य निर्वाणमापतुः ।।
अष्टमः सर्गः अथ भव्यान् प्रबोधयन् प्रभुर्वीरजिनो विहारक्रमेण ब्राह्मणकुण्डग्रामं प्राप्तो बहुशालाख्योद्याने देवैविकृते समवसरणे प्रविश्य पूर्वरत्नसिंहासने यथाविधि तस्थौ । गौतमाद्याः सुरादयश्च यथास्थानं तस्थुः । भूयांस: पौरा अपि तत्राऽऽययुः । देवानन्दार्षभदत्तावप्येत्य प्रभुं वन्दित्वा यथास्थानमुपाविशताम् । ततो देवानन्दाया वीरजिनमवलोकमानायास्तनौ रोमोद्गमः स्तनाभ्यां दुग्धस्त्रावश्च जज्ञे । तां तथाविधां प्रेक्ष्य विस्मितः संशयमाप्य गौतमः कृताञ्जलिः प्रभुं पप्रच्छ-"प्रभो ! देवानन्दायाः सूनुमिव त्वां दृष्ट्वा कथमीदृशी दशा ?"
ततो वीरजिन उवाच-"गौतम ! अहं देवानन्दाकुक्षिजः, अहं स्वर्गाच्च्युत्वाऽस्याः कुक्षौ व्यशीतिदिवसमुषितवान् । तेनैषाऽज्ञातपरमार्थाऽपि मयि वत्सला जाताऽस्ति" । ततस्तौ दम्पती देवानन्दार्षभदत्तौ तच्छ्रुत्वा नितरां मुमुदाते । सा सभा च तादृक् पूर्वं कदाऽप्यश्रुतेविस्मिता जाता । तौ दम्पती च स्वं धन्यं मन्यमानौ पुनरुत्थाय प्रभुं ववन्दाते । पित्रोः प्रत्युपकारो दुष्कर इति बुद्ध्या वीरजिनोऽपि तौ जनांश्चोद्दिश्य धर्मदेशनां विदधे ।
अथ वीरजिनो विहरन् क्षत्रियकुण्डगामं प्राप्य समवसरणस्थो धर्मदेशनां विदधे । तज्ज्ञात्वा नन्दिवर्धनस्तत्राऽऽगत्य भक्त्या वन्दित्वा कृताञ्जलिर्यथास्थानमुपविवेश । जमालिश्च वीरजिनजामाता प्रियदर्शनया सह तत्राऽऽगत्य प्रभुं वन्दित्वा धर्मदेशनां श्रुत्वा पितरावनुज्ञाप्य क्षत्रियाणां पञ्चशत्या सह व्रतं जग्राह । जमालिभार्या वीरप्रभोः पुत्री प्रियदर्शना चाऽपि स्त्रीसहस्रेण सहिता प्रभुपादान्ते दीक्षामग्रहीत् ।
अथ प्रभुरन्यत्र विजहार । क्षत्रियमुनिभिः सहितो जमालिश्च प्रभुमनुससार । जमालिविहरन्नधीतैकादशाङ्गीकः प्रभुणा सह