________________
१३०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सुखं स्वीकरोषि तर्हि तत्र पौरुषं कारणं मन्यस्व । यदि सर्वत्र नियतिरेव कारणं स्यात् तर्हि तव क्रिया अपि मुधा स्युः । भोजनाद्यर्थं प्रयत्नेन चाऽलम्, एकत्रैव नियतिमाश्रित्य किं न तिष्ठसि । तन्नियतिवत् पौरुषमपि स्वार्थसिद्धौ हेतुः । तत्राऽपि नियतेः पौरुषं ज्यायः । गगनाद्धि जलं पतति, पौरुषमाश्रित्य भूखननेनाऽपि तल्लभ्यम् । तदिष्टसिद्धौ नियतिर्बलवती, ततोऽपि पौरुषं बलवत्तरम्" । एवं निरुत्तरीकृतगोशालः स आर्द्रककुमारमुनिः सजयजयारावं भूचर-खेचराद्यैः स्तुतो हस्तितापसानामाश्रमं ययौ ।
तत्र च नीरसीकरणायाऽऽतपे विकीर्णैर्हस्तिमांसैर्भरितान्युटजान्यासन् । तत्रस्थास्तापसाश्चैकं गजेन्द्रं हत्वा तन्मांसं खादन्तो दिनानि गमयन्ति स्म । पुनश्च ते बहूनां मृगादीनां हनने पापमित्याहारार्थमपर एको महान् गज एव चिरमुदरपूर्तये हन्तव्य इति दयाभासमवलम्बमाना महान्तमेकं गजं मारणाय बबन्धुः । यत्र च स शृङ्खलितो गज आसीत्, तेनैव मार्गेण स आर्द्रककुमारमुनिजगाम ।
जनैर्वन्द्यमानं मुनिपञ्चशतीपरिवृतं तं मुनि दृष्ट्वा स गजोऽल्पकर्मा दध्यौ-"बद्धोऽहं कथमेनं वन्दे" । ततस्तस्य गजस्य तन्मुनिदर्शनाच्छृङ्खलानि स्वयमेव भग्नानि ।
ततो मुक्तबन्धन: स गजस्तं मुनि वन्दितुं पस्पर्श । जनस्तु व्याकुलीभूय हतो मुनिरिति वदन् पलायिष्ट । किन्तु मुनिस्तथैव तस्थौ । स करी च मस्तकं नमयित्वा तं मुनि ननाम । तत्पादौ स्पर्श स्पर्श च परमां शान्ति प्राप । तत उत्थाय भक्त्या तं मुनि पश्यन् स मतङ्गजो वनं प्राविशत् । तदद्भुतं प्रभावं दृष्ट्वा क्रुद्धास्तापसा
दशमं पर्व - सप्तमः सर्गः अपि तेन मुनिनाऽऽर्द्रककुमारेण बोधिता उपजिनेश्वरं प्रेषिता गत्वा वीरजिनपादान्ते दीक्षां जगृहुः ।।
अथ श्रेणिकनृपो गजमोक्षणं तापसप्रतिबोधं च श्रुत्वाऽभयकुमारेण सहाऽऽगत्याऽऽर्द्रककुमारमुनि ववन्दे । मुनिश्च धर्मलाभाशिषा तमानन्दयामास । ततो नृपो मुनि सकुशलं भूमावासीनं दृष्ट्वोवाच-"मुने ! हस्तिमोक्षणं महाश्चर्यम्" । ततो मुनिरुवाच"गजमोक्षणं न दुष्करं, किन्तु तर्कुतन्तुपाशमोक्षोऽतिदुष्करः" । ततो राज्ञा पृष्टो मुनिस्तकुँतन्तुकथां कथयामास । लोकश्च तच्छ्रुत्वा विस्मयं जगाम ।
तत आर्द्रककुमारमुनिरभयकुमारमुवाच-"त्वं मम निष्कारणोपकारी धर्मबान्धवोऽभूः । त्वत्प्रेषितार्हत्प्रतिमावलोकनेन प्राप्तजातिस्मृतिरहं जैनोऽभवम् । त्वयाऽहमनार्यत्वकूपादुवृतोऽस्मि । त्वबुद्ध्यैव बोधमाप्याऽऽर्यदेशं प्राप्तोऽस्मि । त्वया प्रतिबोधित एव च व्रतं प्रपन्नोऽस्मि । तत्त्वं चिरं कुशलं तिष्ठ" । ततः साभयः श्रेणिकोऽन्ये च मुनि वन्दित्वा स्वस्थानं जग्मुः । मुनिश्च राजगृहे समागतं वीरजिनं ववन्दे । तं सेवमानश्च कृतार्थः स शिवपदं जगाम ॥ ७॥
इति दशमे पर्वणि चेलणायोग्यैकस्तम्भप्रासादनिर्माणआमफलापहारकेण श्रेणिकविद्याग्रहण-दुर्गन्धाकथाआर्द्रककुमारकथावर्णनात्मकः सप्तमः सर्गः ॥७॥