________________
१२८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ द्वादशेऽब्दे दिग्भ्रमात् स मुनिस्तत्राऽऽगतो लक्ष्मदर्शनात्तयोपलक्षितः । तदा श्रीमती तमाह-"देवकुले त्वं मया तदानीं वृतोऽसि, त्वमेव मम वरः । तदानीं मां मुग्धां विहाय गतोऽसि । अद्य मया पुनः प्राप्तो न गन्तुमर्हसि, प्रसीद, मां भजस्व । यदि मामवज्ञास्यसि तदाऽहं काष्ठभक्षणं करिष्यामि, तेन च तव स्त्रीहत्यापातकं स्यात्" । ततः स मुनिपेण महाजनेनाऽन्यैरपि च प्राथितो व्रतग्रहणनिषेधिकां देवताया वाचं स्मृत्वा नृपादीनामाग्रहात् तां श्रीमती परिणीतवान् । तया रममाणस्य च तस्य क्रमशः पुत्रोऽजनि। तस्मिन् क्षीरकण्ठतां विमुच्य वाचमाददाने पुत्रे च मुनिः श्रीमतीमुवाच-'अतः परं पुत्रस्ते सहायोऽस्तु, अहं दीक्षां गृह्णामि" ।
ततः श्रीमती पुत्रं ज्ञापयितुं तूलपूर्णिकत' चाऽऽदायाऽऽसने उपविश्य तर्कुकर्म प्रारेभे । तदा किमिदमयोग्यं कर्म करोषीति बालकेन पृष्टा च सोवाच-'वत्स ! तव पिता दीक्षार्थं गमिष्यति, तस्मिन् गते च पतिरहिताया मम तर्कुरेव गतिः" । तच्छ्रुत्वा स बालकोऽस्पष्टमधुरमुवाच-'अहं पितरं बद्ध्वा धारयिष्यामि, तहि कथं स यास्यति" । एवमुक्त्वा च स सौम्याकृतिर्बाल ऊर्णनाभो लीलयेव तर्कसूत्रेण पितुः पादौ परिवेष्ट्य मातरं "मा भेषी:, स्वस्था भव । मया बद्धपादोऽसावधुना गन्तुं न क्षमः" इच्युवाच । श्रीमतीपतिश्च तदा दध्यौ-"अस्य बालस्य स्नेहबन्धो मन्मनः पक्षिणं पाशयति । तन्मत्पदोर्यावन्तः सत्रवेष्टकाः सन्ति तावन्त्यब्दान्यहं सुतवात्सल्याद् गृहे स्थास्यामि" । ततः स पादयोादशतन्तुबन्धसद्भावात् तावन्ति वर्षाणि गृह एवाऽस्थात् ।
अथ प्रतिज्ञावधौ पूर्णे विरक्ताशयः स रात्रेश्चरमे प्रहरे दध्यौभवकूपाद् बहिर्गन्तुं रज्जुतुल्यं व्रतं गृहीतमपि मया त्यक्तम् ।
दशमं पर्व - सप्तमः सर्गः पूर्वजन्मनि मनसैव व्रतभङ्गतोऽनार्यत्वं प्राप्तोऽस्मि, अतः परं का गति यास्यामि । तदधुना प्रव्रज्य तपसाऽऽत्मानं शोधयामि" । एवं ध्यात्वा स प्रभाते भार्यां श्रीमती कथयित्वा तदनुमतिमाप्य च मुनिवेषं गृहीत्वा निर्मम: सन् गृहाद् निर्गतवान् ।
अथ राजगृहं प्रति प्रस्थितः स मार्गो स्वसामन्तपञ्चशती चौरकर्मपरायणां दृष्टवान् । उपलक्ष्य तैर्भक्त्या वन्दितश्च स तान् 'किमेषा युष्माभिः पापमूला जीविकोरीकृतेति भर्त्सयामास । ततस्ते ऊचुः-"यदा त्वमस्मान् वञ्चयित्वा पलायितस्तदा वयं नृपतेरात्मानं हिया दर्शयितुमक्षमास्तवाऽन्वेषणे महीं भ्राम्यन्तोऽऽगत्या चौर्यवृत्त्यैव जीवामः" ।
ततो मुनिः पुनस्तानुवाच-“कष्टे समापतितेऽपि धर्मानुबन्ध्येव कर्म विधेयं, मनुष्यभवो हि महापुण्यफलम् । तस्य च धर्मः स्वर्गाऽपवर्गहेतुः फलम् । तद् यूयमहिंसा-सत्या-ऽस्तेय-ब्रह्मा-ऽपरिग्रहानार्हतान् धर्मान् स्वीकुरुध्वम् । यूयं नृपभक्ताः । अहं च नृपवदेव युष्माकं स्वामी । तन्मम मार्गप्रपत्तिर्भवतां युक्तमेव" । ततस्ते ऊचु:"त्वं मम स्वाम्यधुना च गुरुरपि । त्वया धर्मं बोधिताः स्मः । तदस्मान् दीक्षादानेनाऽनुगृहाण" । ततो मुनिराककुमारस्तान् प्रव्राजयामास ।
अथ तैः समन्वित आर्द्रककुमारमुनिः श्रीवीरजिनं वन्दितुं राजगृहं गच्छन् सम्मुखागतं गोशालं न प्रणनाम । ततस्तेन तस्य विवादो जातः । तच्छ्रोतुं च तत्र भूचराः खेचराश्च कौतुकात् सहस्रशो मिलिताः । तत्र गोशाल उवाच-"तपोनिमित्तं कष्टं मुधा, यतो भाग्यादेव शुभा-ऽशुभफलम्" । तत आर्द्रककुमारमुनिरुवाच-यदि