________________
षष्टिकापुरुषचरितम्-गद्यात्मकसारोद्धारः
वा न शशाक । ततः स सर्वदाऽभयमेव स्मरन् क्वाऽपि रतिमविन्दमानः पान्थान् मगधदेशमार्गादिकं पृच्छति स्म । आर्द्रकनृपश्च कुमारमत्युद्विग्नमभयं प्रत्यनापृच्छ्याऽपि जिगमिषु सम्भाव्य 'देशान्तरं गच्छन्नयं भवद्भी रक्षणीय' इति पञ्चसामन्तशतीमादिशत्। तत्प्रभृति च ते सामन्ताश्छायेव तत्पार्श्वं कदाऽपि न तत्यजुः । कुमारश्चाऽपि ततः स्वं कारानिक्षिप्तमिवाऽमन्यत । ततः स कुमारोऽभयसमीपगमनं मनसि कृत्वा प्रतिदिनं वाह्याभ्यामश्ववाहनं कर्तुमारेभे । तदानीं च सामन्ता मैषो गमदित्यश्वारूढास्तत्पार्श्वेऽस्थुः । तेन च कुमारोऽश्वं वाहयन् किञ्चिद् गत्वा निवर्त्तते स्म । एवं प्रत्यहमधिकाधिकं गत्वा निवर्त्तमाने तस्मिंस्तेऽङ्गरक्षका विश्वासं जग्मुः ।
१२६
एकदा चाऽऽर्द्रककुमारो विश्वस्तैर्निजैः पुरुषैः समुद्रे प्रवहणं प्रगुणीकृत्य रत्नैस्तां पूरयित्वाऽर्हत्प्रतिमामप्यारोहयामास । अचं वाहयन्नलक्षितश्च स तत्प्रवहणमारुह्याऽऽर्यदेशं गत्वा यानादुत्तीर्य तां प्रतिमामभयाय प्रेष्य सप्तक्षेत्र्यां धनानि व्ययित्वा मुनिलिङ्गं प्रपद्य सामायिकमुच्चारयितुं कृतोपक्रमो गगनस्थया देवतयोक्त:- 'यद्यपि त्वं महासत्त्वस्तथाऽपि दीक्षां मा ग्रही:, तव भोगफलं कर्माऽवशिष्यते, तद् भुक्त्वा यथाकालं व्रतं गृह्णीयाः " । किन्तु स तां देवतावाचमनादृत्य स्वपुरुषकारमवलम्ब्य स्वयं व्रतमाददे । ततः प्रत्येकबुद्धः स मुनिर्दुष्करं व्रतं पालयन् विहारक्रमतो वसन्तपुरं प्राप्य बाह्यदेवकुले प्रतिमया समाधिस्थस्तस्थौ ।
इतश्च तन्नगरे कुलीनो देवदत्त श्रेष्ठ्यभवत् । तस्य च पत्नी धनवत्यासीत् । बन्धुमतीजीवश्च च्युत्वा तयोः श्रीमती नाम पुत्री जाता । सा रूपवती श्रीमती धात्रीभिर्लाल्यमाना धूलिक्रीडायोग्यं
दशमं पर्व सप्तमः सर्गः
वयः प्रपेदे । एकदा च सा श्रीमती पतिरमणक्रीडया क्रीडितुमिच्छुवयस्याभिः पौरकन्याभिः सह तत्राऽऽगता । तत्र क्रीडाप्रारम्भे च सर्वा बालिकाः स्वरुचिवरं वृणुते स्म । तत्र श्रीमत्युवाच - मयाऽसौ भट्टारको वृतः । तदानीं च देवता साधु वृतमित्यसकृदुवाच । तथा गर्जितं कुर्वती सा देवता तत्र रत्नान्यवर्षयत् । तेन भीता च श्रीमती तस्य मुनेः पादे लग्ना ।
१२७
ततः स दध्यौ -“व्रतभङ्गकरोऽयं मम महानुपसर्गो जातः” । एवं विचार्य सोऽन्यत्र जगाम । नृपश्चाऽस्वामिकं धनं राज्ञ इति न्यायात् तां रत्नवृष्टिं ग्रहीतुं तत्राऽऽगतवान् । तद् द्रव्यं संजिघृक्षवश्च राजपुरुषास्तत् स्थानं नागाकीर्णं दृष्ट्वाऽमुष्यै विवाहे मया दत्तमेतद्द्रव्यमिति देवतोक्तं श्रुत्वा च ततोऽपासरन् । ततः श्रीमती - पिता सर्वं तद् धनं जग्राह ।
अथ तां बहवो वराः परिणेतुमैच्छन्त । ततो वरं वृण्वति पित्रोक्ता सोवाच - " मया महामुनिरेव वरो वृतः तद्वरणे च देवता द्रव्यमदात् । स मुनिश्च मया स्वरुच्यैव वृतः । तद् द्रव्यं गृहीत्वा च त्वयाऽपि तदनुमतमेव । तन्मां तस्मै दातुमङ्गीकृत्याऽन्यस्मै दातुं नाऽर्हसि। कन्या हि सकृत् प्रदीयते” । तच्छ्रुत्वा श्रेष्ट्युवाच- 'सन प्राप्योऽस्ति । मुनयो हि नैकत्राऽवतिष्ठन्ते । तस्याऽऽगमनमपि न निश्चितम् । तस्याऽभिज्ञानमपि किमपि नाऽस्ति" ।
ततः श्रीमत्युवाच - "तात ! गर्जितभीतया मया विलग्नया तत्पादे लाञ्छनं दृष्टमस्ति, तद्यथा प्रतिदिनमागतान् मुनीन् पश्यामि तथा कुरु" । तच्छ्रुत्वा श्रेष्ठ्युवाच- 'इह पत्तने समायातेभ्यो मुनिभ्यस्त्वं स्वयं प्रतिदिनं भिक्षां देहि" । ततः सा श्रीमती प्रत्यहं तथा चकार, लाञ्छनदिदृक्षया मुनिपादानवन्दत" ।