________________
१२४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः जगाम । अन्यदाऽऽर्द्रकनृपो मौक्तिकादीन्युपायनानि स्वपुरुषं समर्प्य तं मन्त्रिणं च व्यसृजत् । आर्द्रककुमारश्चाऽपि तस्य मन्त्रिणो हस्तेऽभयकुमारार्थं मुक्तादीनि प्रेषयामास । स पुरुषश्च सचिवेन सह राजगृहं गत्वा श्रेणिकायाऽभयाय चोपायनान्यर्पयामास । मन्त्री चाऽभयमाईककुमारस्तव मैत्रीमिच्छतीति वाचिकमुवाच ।
तच्छ्रुत्वा चाऽभयकुमारो दध्यौ-'मन्ये, श्रामण्यविराधनयैव सोऽनार्येषु जातः । स आसन्नभव्य इत्यनुमिनोमि । कथमन्यथाऽभव्यस्य तस्य मया भव्येन मैत्रीमनोरथ: स्यात् । समानपुण्यपापानां हि प्राणिनां प्रीतिर्भवति । तत्केनाऽप्युपायेन तं जैनं कृत्वाऽऽप्तो भवामि । तस्याऽऽर्द्रककुमारस्य तीर्थकरबिम्बदर्शनाज्जातिस्मरणमपि सम्भाव्यते । तदुपायनव्याजेन रत्नमयीमाचार्यप्रतिष्ठितामहत्प्रतिमां प्रेषयामि' ।
__ एवं ध्यात्वा सोऽभयकुमार आदिनाथप्रतिमा करण्डस्था पेटामध्ये निःक्षिप्य तदने धूपदहनघण्टादीनि देवपूजोपकरणानि च मुक्त्वा तालकं ददौ । ततः स्वयं निजया मुद्रया पेटां मुद्रयित्वा तां प्रचुरैरुपायनैः सह तमाकनृपपुरुषं श्रेणिकेन विसृष्टं समर्प्य सत्कृत्य चोवाच-"एषा मञ्जूषाऽऽर्द्रककुमारस्य दातव्या । तथा तेन रहस्येकाकिना स्वयं पेटामुद्घाट्य तदन्तःस्थं वस्तु प्रेक्षणीयम्, अन्यस्य कस्यचिद् न दर्शनीयं चेति मम वाचिकं च तस्य कथनीयम्" । ततः स पुरुषस्तथेत्युक्त्वा स्वपुरं गत्वा यथायथं स्वस्वामि-तत्पुत्रयोः प्राभृतानि समर्पयामास । तथाऽऽर्द्रककुमारस्याऽभयकुमारवाचिकं कथयामास ।
तत: स आर्द्रककुमारो रहसि तां पेटामुन्मुद्रय तदन्तःस्थां द्युतिमतीमादिनाथप्रतिमां दृष्ट्वा सहर्ष-विस्मयं दध्यौ-"इदं मे
दशमं पर्व - सप्तमः सर्गः क्वाऽपि दृष्टपूर्व प्रतिभाति, किन्तु स्मृति न याति" । एवं ध्यायतश्च तस्य मूच्छितस्य जातिस्मृतिर्जाता । तेन च स निजां पूर्वभवकथां सस्मार । "अहं पूर्वस्मिन्नितस्तृतीये भवे मगधदेशे वसन्तपुरे सामायिकाख्यो गृहमेध्यभूवम् । तदानीं च बन्धुमती मम भार्याऽऽसीत् । तया सार्धं चाऽहं सुस्थिताचार्यसमीपे जैनं धर्म श्रुत्वा प्रबुद्धास्तत्समीपे भार्यया सहैव दीक्षामग्रहीषम् ।
एकदा च गुरुणा सह विहरन्नहमेकं नगरमगाम् । बन्धुमत्यपि चाऽऽर्याभिः सह तत्राऽऽगता । पूर्वरमणसंस्कारवशात तां दृष्ट्वा तस्यां जातानुरागोऽहं स्वहद्भावमन्यमुनये न्यवेदयम् । तेन तज्ज्ञापितया साध्व्या कथिता बन्धमती विषादं गता तामवाच"गीतार्थस्यैतस्य मर्यादातिक्रमणं नोचितम्, एष हि देशान्तरगतामपि मां रागाद् न विस्मरिष्यति, तदहं मरणं प्रपत्स्ये, यथा तस्य मम च शीलभङ्गो मा भूत्" । एवमुक्त्वा च साऽनशनं प्रपद्य स्वमुद्बध्य विपद्य देवभूवमाप । तां व्रतभङ्गभयाद् विपन्नां श्रुत्वा चाऽहं प्रशस्य भग्नव्रतस्य मम जीवनं धिगिति निर्वेदमाप्याऽनशनं प्रपद्य विपद्य च देवोऽभवम् । ततश्च्युत्वा चाऽहमनार्यो धर्मवर्जितो जातोऽस्मि" ।
एवं पूर्वजन्म स्मृत्वा स दध्यौ-'यो मां प्रतिबोधयिता स मे बन्धुर्गुरुश्च । तत्पितरमनुज्ञाप्याऽननुज्ञाप्यैव वाऽभयगुरुपवित्रितमार्यदेशं गमिष्यामि" | एवं विचार्य स आर्द्रककुमार आदिनाथप्रतिमां पूजयन् कालं निनाय ।
अथाऽन्यदा स पितरमभयकुमारं द्रष्टुमिच्छामीति न्यवेदयत् । ततः पित्रा न गन्तव्यमिति निषिद्धोऽभयं प्रत्युत्कण्ठितश्च स्थातुं गन्तुं