________________
Mamman
mom२३
१२२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः इतश्च कर्मनिर्जरावशाद् विलुप्तदुर्गन्धां तां बालिकां दृष्ट्वैकाऽनपत्याऽऽभीरी गृहीत्वा स्वकुक्षिजातामिव पालयामास । क्रमाद् वर्धमाना च सा रूप-लावण्यशालिनी यौवनं प्रपेदे । एकदा नगरे प्रवृत्तकौमुद्युत्सवे दिदृक्षया च सा कुमारी बाला मात्रा सह समाययौ। श्रेणिका-ऽभयावपि च निर्मलवस्त्रावृत्ताङ्गौ तत्र समेयतुः । तत्रोत्सवसम्म च श्रेणिकस्य हस्तस्तस्या आभीरीपुत्र्याः कुमार्याः पीनोन्नतपयोधरे वक्षसि लग्नः । तेन च जातरागो नृपः सद्य एव सम्भोगसूचनामिवोर्मिकां निजां तस्या वस्त्राञ्चले बद्ध्वाऽभयकुमारमादिशत्-'मम व्यग्रचित्तस्योमिका केनाऽप्यपहृता, तत्तदपहारकस्त्वया शोधनीयः" ।
ततो धीमानभयकुमारो रङ्गमण्डपद्वाराणि रुद्ध्वा लोकानेकैकं ततः कर्षन् प्रत्येकं वस्त्राणि केशान् मुखं च शोधयन् तस्या आभीरपुत्र्या वस्त्राञ्चले बद्धामूमिकां दृष्ट्वा 'त्वया कथमेषोर्मिका गृहीते'ति तां पप्रच्छ । तया च कर्णी पिधाय न जानामीत्युक्तश्च स धीमानभयो दध्यौ-"नूनमिमां रूपवतीं दृष्ट्वा जातानुरागस्तात एनां ग्रहीतुमभिज्ञानार्थं स्वयमूर्मिकां बबन्ध" । एवं विचार्य च स तां नृपसमीपं नीत्वेयं तव चित्तेन सहोर्मिकाया अपहारिकेत्यवोचत् । ततो नृपो दुष्कुलादपि स्त्रीरत्नमादेयमित्यहमेनां परिणेष्यामीत्युक्त्वा तां परिणीयाऽग्रमहिषीं चकार ।
अथाऽन्यदा नृपो राज्ञीभिरक्षैश्चिक्रीड । तत्र च यो जयेत् स जितस्य पृष्ठेऽश्वस्येवाऽध्यारोहेदिति पणो बभूव । नृपं जितवत्यः कुलीना राश्यश्च जयसूचनाय नृपपृष्ठे वस्त्रमात्रं न्यधुः । क्रमशो जितवती सा वेश्यापुत्री च निःशङ्कं नृपपृष्ठमारुरोह । नृपश्च भगवद्वचः स्मृत्वाऽकस्माज्जहास । ततः सा पृष्ठादुत्तीर्य नृपं हासकारणं पप्रच्छ।
दशमं पर्व - सप्तमः सर्गः नृपोऽपि च प्रभुणाऽऽख्यातं तस्याः पूर्वभवादिकं पृष्ठारोहणपर्यन्तं सर्वं वृत्तान्तं कथयामास । तच्छ्रुत्वा च सद्य एव वैराग्यमापन्ना सा नृपमादरादनुज्ञाप्य श्रीवीरजिनपादान्ते व्रतमाददे । ___ इतश्च समुद्रमध्ये पातालगृहोपमे आर्द्रकदेशे आर्द्रके नगरे श्रीमान् चन्द्रसुन्दर आर्द्रको नाम नृपो बभूव । तस्य चाऽऽर्द्रकाख्यायां महिष्यामार्द्रककुमारो नाम सुतो बभूव । स च यौवनं प्रपन्नो भोगान् भुजानः सुखेनाऽस्थात् । आर्द्रकनृपेण च श्रेणिकनृपस्य परम्परागता प्रीतिरासीत् । एकदा च श्रेणिकः प्रचुरमुपायनं दत्त्वा निजं सचिवमार्द्रकसमीपं प्रेषयामास । तत्र गतश्च मन्त्री तेनाऽऽर्द्रकनृपेण सगौरवं सत्कृतः । मन्त्रिणोपनीतान्युपायनानि सौवर्चलनिम्बपत्रकम्बलादीनि सादरमादाय श्रेणिकनृपकुशलादिकं स आर्द्रकनृपो मन्त्रिणं पप्रच्छ । मन्त्री च यथोचितं नृपकुशलादिकं कथयित्वाऽऽर्द्रकं मोदयामास ।
तदानीं चाऽऽर्द्रककुमारेण 'को मगधेशस्तवेदृशं मित्रमि'ति पृष्टो नृपः परम्परागतां मगधेशश्रेणिकमैत्री वर्णयामास । तत आर्द्रककुमारो मन्त्रिणं पप्रच्छ-"किं तव स्वामिनो गणवान कोऽपि पुत्रोऽस्ति, तमहं मित्रं कर्तुमिच्छामि" । ततो मन्त्र्युवाच-"कुमार ! धीमान् पञ्चमन्त्रिशतमुख्यो दाता दयालुर्दक्षः कृतज्ञः कलावांश्च" श्रेणिकनृपस्याऽभयकुमाराख्यः पुत्रोऽस्ति" । तं श्रुतं किं न जानासि ? स सर्वगुणसमग्रोऽस्ति" | आर्द्रकनृपश्चाऽभयेन मैत्रीमिच्छन्तं स्वपुत्रं प्रशशंस, द्वयोमैत्रीमनुमोदयामास च ।
तत आर्द्रककुमारः पितुराज्ञामिष्टामाप्य मन्त्रिणमुवाच"मामनापृच्छ्य मा यासी:, गच्छंश्च त्वमभयाय मम प्रीतिवाचिकं श्रृणुयाः" । मन्त्री चैवमस्त्वित्युक्त्वा राज्ञा विसृष्टो वेत्रिदर्शितमावासं