________________
१२०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सर्वामेव तथ्यां कथां पत्ये निवेदयामास । ततः साऽखिलां रात्रि तेन पत्या मुक्ता सूर्योदये सर्वस्वस्वामिनी चक्रे च ।
लोकास्तद्विचार्य कथयत-"कोऽत्र दुष्करकारकः पतिश्चौरो राक्षसो मालिको वा?" तालुभिः पतिर्नवोढायाः स्वपन्या एव परपुरुषार्थं प्रेषणाद् दुष्करकारक इत्युक्तम् । क्षुधितैश्च राक्षस: क्षुधायां ज्वालितायां सत्यामपि भक्ष्यत्यागाद् दुष्करकारकः प्रोक्तः । जारैश्च स्वयमुपस्थितयुवतीत्यागादुद्यानपालको दुष्करकारकः प्रतिपादित: । आम्रचौरेण च सुलभधनत्यागाच्चौरा दुष्करकारकाः समर्थिताः । ततोऽभयकुमारस्तं तस्करं परिज्ञाय धृत्वा त्वया कथं चूतफलं हियते इति पप्रच्छ । चौरेण च विद्याबलेनेत्युक्तश्चाऽभयो राज्ञे सर्वं निवेदयामास । चौरं समर्पयामास च ।
ततः श्रेणिक उवाच-'शक्तिमानयं चौरोऽवश्य निग्राह्यः' । ततोऽभय उवाच-"प्रथममेतस्माद् विद्या ग्राह्या, पश्चादुचितं विधेयम्"। ततो नृपो मातङ्गपतिमग्रे समुपवेश्य ततो विद्या पठितुमारेभे । सिंहासनस्थस्य नृपस्य पठतोऽपि चोच्चप्रदेशे पतितं चलमिव विद्या हृदि न तिष्ठति स्म । ततो विद्यां कूटेन पाठयसि, येन विद्या मयि न स्फुरतीति मातङ्गपतिं नृपस्तर्जयामास ।
ततोऽभय उवाच-"नृप! अयं तव विद्यागुरुः, गुरौ विनयिनां च विद्या स्फुरति, तदेनं सिंहासने समुपवेश्याऽग्रेऽञ्जलि कृत्वा भुव्युपविश्याऽधीष्व" । तथाऽनुतिष्ठतश्च नृपस्य हृदि द्वे उन्नामन्यवनामन्यौ विद्ये नृपस्य हृदि दर्पणे प्रतिबिम्बमिवाऽवतस्थाते । ततोऽभयो नृपं कृताञ्जलिः प्रसाद्य विद्यागुरुत्वमापन्नं तं मातङ्गपति मोचयामास ।
दशमं पर्व - सप्तमः सर्गः
..१२१ अथाऽन्यदा मगधेश: श्रेणिकः समवसृतं श्रीवीरजिनं नन्तुं सपरिवारो जगाम । तदानीं च मार्गे जातमात्राऽतिदुर्गन्धा बालिका त्यक्ताऽऽसीत् । तस्यास्तद्गन्धमसहिष्णवः सर्वे नासिकां मुद्रयामासुः। श्रेणिकेन किमेतदिति पृष्टश्च परिच्छदस्तां तादृशीं बालिका कथयामास । ततो नृपः श्रुतजिनोपदेशप्रभावाज्जुगुप्सारहितस्तां बाला स्वयं दृष्ट्वा समवसरणं गत्वा वीरजिनं वन्दित्वा यथावसरं तस्या बालिकायाः कथां पप्रच्छ । ___ ततो वीरप्रभुरुवाच-"प्रान्तदेशे शालिग्रामे धनमित्र श्रेष्ठी बभूव । तस्य च धनश्रीनाम्नी कन्याऽऽसीत् । श्रेष्ठिना तस्या विवाहे प्रारब्धे च ग्रीष्मतों केऽपि साधवो विहरन्तः समाजग्मुः । पित्राऽऽज्ञाता च सा सच्छीला तान् मुनीन् प्रतिलाभयन्ती तेषां प्रस्वेदक्लिन्नाङ्गवस्त्राणां मलगन्धमाघ्राय विप्रीता 'किमेते निर्मलधर्मधराः प्रासुकजलैर्न स्नान्ती'ति जुगुप्सां चक्रे । तेन च बद्धं दुष्कर्माऽनालोच्याऽप्रतिक्रम्य चैव मृता सा राजगृहे वेश्याकुक्षाववतीर्णा । गर्भस्थाऽपि सा मातुरप्रीतिदायिनी जाता । तेन च तया प्रतिदिनं पीतैरपि गर्भपातौषधैः स गर्भो न नष्टः । यथाकालं जातां च तां दुर्गन्धां बालां सा विष्टामिव सद्य एव तत्याज ।
ततः श्रेणिकः पुन: प्रभुं कीदृशोऽस्याः सुख-दुःखानुभवो भविष्यतीति पप्रच्छ । ततः प्रभुरुवाच-"अनया सर्वं दुःखं भुक्तम्, अग्रे चेयं सुखभाग् भविष्यति । असौ बालाऽष्टौ वर्षाणि तवाऽग्रमहिषी भविष्यति । एतां च त्वं शुद्धान्ते रममाण एनया कृतया त्वत्पृष्ठे हंसलीलया जानीया:" । ततो नृपो विस्मित इयं मे पत्नी कथं भविष्यतीति चिन्तयन् वीरजिनं नत्वा स्वस्थानमगात् ।