________________
११८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः एवं विचार्य नृपोऽभयं चेलणार्थमेकस्तम्भप्रासादनिर्माणमादिशत् । ततोऽभयेन स्तम्भार्हदारुनिमित्तमादिष्टो वर्धकिर्वनं गतः सर्वलक्षणलक्षितं वृक्षमेकं ददर्श । ततोऽयं वृक्षराजः साधिदैवत एव भवितुमहतीति ध्यात्वा देवतां प्रसादयितुं तपसि कृतनिश्चय उपोष्य गन्धधूप-माल्यादिभिर्वृक्षमध्यवासयत् ।
तदानीं च तवृक्षाधिष्ठो व्यन्तरोऽभयकुमारमुवाच-'वर्धकि निवारय, ममाऽऽश्रयो वृक्षो न च्छेदनीयः । अहमेवैकस्तम्भं प्रासादं करिष्यामि तथा तत्समीपे नन्दनमिवोद्यानं च करिष्यामि" । ततोऽभयकुमारो न: समीहितं सिद्धमित्युक्त्वा वर्धकि वनात् निवर्त्तयामास । व्यन्तरश्च यथाप्रतिपन्नमेकस्तम्भं प्रासादमुद्यानं च व्यधात् । अभयेन तद्दर्शितश्च प्रसन्नो नृपस्तं प्रशस्य चेलणां तत्र मुक्त्वा स्वयमपि तया सह तत्रैवोवास। चेलणा च तत्र तदुद्यानसम्भवैः पुष्पैनित्यमर्हन्तं पूजयामास । पत्यर्थं मालां जग्रन्थ । तथा तदुपवने सा श्रेणिकं प्रीत्या रमयामास ।
अथाऽन्यदा सिद्धविद्यस्य तत्पुरवासिनो मातङ्गपतेः स्त्रिया माकन्दफलदोहदो जज्ञे । तया निवेदितश्चाऽसमये आम्रफलं कुत इति चिन्तयन् तयैव चेलणोद्याने तदिति विज्ञाय स मातङ्गपतिस्तत्राऽऽगत्य सदा फलान् चूतान् दृष्टवान् । ततो रात्रौ समागत्याऽवनामन्या विद्ययाऽऽम्रशाखां नमयित्वाऽऽम्राणि गृह्णाति स्म । प्रातश्च चेलणा लूनफलामानवाटिकां दृष्ट्वा राज्ञे न्यवेदयत् । राजाऽप्यभयमाम्रचौरगवेषणार्थमादिशत् ।
अभयश्च चौरान्वेषणं प्रतिज्ञाय तत्प्रभृति तस्य तस्करस्य दिदृक्षयाऽहर्निशं नगरेऽभ्राम्यत् । एकदा च पौरैः कार्यमाणे सङ्गीतके
दशमं पर्व - सप्तमः सर्गः गतः सोऽभयस्तैर्दत्ते आसने आसीन उवाच-यावद् नटा नाऽऽयान्ति तावत् कथां श्रृणुत । वसन्तपुरेऽतिनिर्धन एको जीर्णश्रेष्ठ्यभूत् । तस्य च वरयोग्या कुमारीकन्यकाऽभूत् । सा च वरार्थं कामदेवपूजनाय क्वाऽप्युद्यानेऽन्वहं चौर्येण पुष्पाण्यवचिनोति स्म ।
तत उद्यानपाल: पुष्पचौरमहमद्य धरिष्ये इति सङ्कल्प्य निलीय तस्थौ । किन्तु पूर्ववदागत्य निःशङ्ख पुष्पाण्यवचिन्वतीं तां रूपवती दृष्ट्वा क्षुब्धोऽपि तां बाहुना धृत्वा सकम्पो विस्मृतकोपश्चोवाच'सुन्दरि ! मां कामार्तं रमयस्व, अन्यथा त्वां न मोक्ष्यामि, त्वं हि मया पुष्पक्रीत्यसि" । ततः सोवाच-"मां मा स्पृश, अहमद्याऽपि कुमार्येवाऽस्मि" । ततः स उद्यानपालो जगौ-"तर्हि त्वयोढमात्रयेदं शरीरमादौ ममैव सम्भोगपात्रीकर्त्तव्यमि"ति प्रतिजानीहि । तथेति प्रतिपद्यमाना सा तेन मुक्ता स्वगृहं ययौ ।
अन्यदा च परिणीता सा रात्रौ वासगृहं गता पतिमुवाच"आर्यपुत्र ! मया मालाकारस्य मयोढमात्रया तस्यैव प्रथमाभिगमः प्रतिज्ञातोऽस्ति, तन्मामनुजानीहि, येन वचनबद्धाऽहं तं यामि, पश्चात्तु त्वदधीनैव भविष्यामि" । ततश्च सत्यप्रतिज्ञेयमिति सविस्मयं पत्याऽनुज्ञाता सा वासगृहाद् निरीय गच्छन्ती रत्नाभरणलुब्धैर्दस्युभिर्निरुद्धा । तदा मालिकवार्तामाख्याय निवर्तमानाया ममाऽऽभरणानि गह्णीध्वमित्युक्त्वा विमुक्ताऽग्रे जगाम । तदा क्षुधार्तेन राक्षसेन रुद्धा यथाख्यातवृत्तज्ञेन तेनाऽपि वलितामेतां भक्षयिष्यामीति मुक्ता च मालिकं प्राप्य साऽहं पुष्पलावी नवोढा त्वामुपागताऽस्मीत्युवाच । ततो मालिकस्तां सत्यप्रतिज्ञां महासतीयमिति मातृवद् नत्वा मुमोच । पश्चाद् निवर्तमाना च कथितया मालिकाद् मुक्तिकथया तुष्टेन रक्षसाऽपि मुक्ता चौरैरपि तत्सतीत्वप्रभावाभिभूतैर्मुक्ता गृहं प्राप्य