________________
सप्तमः सर्गः अथ श्रेणिकश्चेल्लणया विषयसुखमनुभवंस्तस्यामत्यन्तमासक्तोऽभूत् । तत्पार्वं कदाऽपि स नाऽमुञ्चत् । एकदा च भयङ्करे शिशिरत्तौं प्रवृत्ते श्रीवीरजिनः सपरिवारो राजगृहे समवासार्षीत् । ततो नृपः श्रेणिकश्चलणया सहाऽऽगत्य वीरजिनं वन्दित्वा वलितो जलसमीपे प्रतिमास्थितं निरावरणं शीतपरिषहं सहमानं श्रमणं मुनि ददर्श । ततो वाहनादुत्तीर्य तं भक्त्या वन्दित्वा पुण्यवातां पत्न्या सह कुर्वन् गृहं ययौ ।
तत्र च सज्जिते रतिभवने श्रेणिकश्चलणया गाढमालिङ्गितो निशि सुष्वाप । गाढनिद्रायां च चेलणायाः करः प्रच्छदपटाद् बहिर्भूतो दुःसहशीताक्रान्तो जातः । तेन च गतनिद्रा चेल्लणा करं प्रच्छदपटान्तः कृत्वा नृपहदि निधाय निरावरणं प्रतिमास्थं तं मुनि स्मृत्वेदृशे शीते कथं स भविष्यतीत्युक्त्वा पुनर्निद्रां प्राप । नृपश्चाऽल्पनिद्रस्तद्वचसा प्रबुद्धस्तस्या वचः श्रुत्वा दध्यौ-"नूनमस्या मनस्यन्यः प्रियः कोऽप्यस्ति, यमेवं शीतपीडासम्भावनयेयं शोचति" । एवं चिन्तयन्नीjया तान्तिमनुभवन् जाग्रदेव तां निशामत्यवाहयत् । प्रातश्च चेल्लणामन्तःपुरं गन्तुमादिश्याऽभयकुमारमाहूय श्रेणिक उवाच- "अन्त:पुरं दुराचाराक्रान्तं ज्ञायते । तन्मातृमोहं त्यक्त्वा तत् सर्वं ज्वाल्यताम्" । एवमभयकुमार
दशमं पर्व - सप्तमः सर्गः मादिश्य नृपो वीरजिनं वन्दितुं जगाम । इतोऽभयश्च विवेकी भयभीतो दध्यौ-मम मातरः सर्वा निसर्गत: सच्छीलाः, तासामहं रक्षकः, पितुराज्ञा च तादृशी । तथाऽपि कथञ्चित् कालक्षेपः क्रियते, तेन हि पितुः कोपनिवृत्ति सम्भाव्यते" । एवं विचार्याऽभयकुमारोऽन्तःपुरसमीपे जीर्णहस्तिशालां ज्वालयित्वाऽन्तःपुरं दग्धमिति घोषयामास ।
इतश्च श्रेणिकेन 'चेल्लणा किमेकपल्यनेकपत्नी वे'ति पृष्टः श्रीवीरजिनस्तां शीलवतीमशङ्कनीयामुवाच । तच्छ्रुत्वा च नृपः पश्चात्तापाक्रान्तो द्रुतं नगरं प्रतिधावमानस्तथाज्वालनं कृत्वाऽभिमुखमागच्छन्तमभयमस्मदाज्ञा पूरिता किमित्यपृच्छत् । ततोऽभयः प्रणम्य कृताञ्जलिः स्वाम्यादेशः प्रमाणमित्युवाच । ततो नृपस्त्वं मातृवधकः किं न वह्नौ पतित इत्यभयमाक्रुष्टवान् । ततोऽभय उवाच- "देव ! श्रुतजिनवचनोऽहं समये व्रतं ग्रहीष्यामि, पतङ्गमरणं नाऽर्हामि, तथाऽपि तयाऽऽज्ञया तथा कृत्वाऽपि मर्तुमुत्सहे" ।
ततो नृपो मद्वचसाऽपि किमकृत्यमकार्षीरिति ब्रुवन् मूर्छामाप । अभयश्च नृपं शीतोपचारेण स्वस्थीकृत्योवाच-अन्त:पुरे कुशलं, किन्तु मया भवदाज्ञा विराद्धति ममाऽपराधः । मयाऽन्तःपुरसमीपस्था जीर्णा हस्तिशाला ज्वालिता । नहि भवदाज्ञामप्यविवेकेनाऽहं पालयामि" । ततो नृपस्तमभयं प्रशस्य पारितोषिकदानेनाऽनुग्राह्याऽत्यन्तमुत्कण्ठितश्चेल्लणां द्रष्टुं तत्सदनं जगाम । प्रतिदिनं च नवनवेन प्रेम्णा चेल्लणया रेमे ।
अथाऽन्यदा श्रेणिको दध्यौ-"चेलणा मम प्रियतरा, तदन्यराज्ञीभ्योऽस्यां को विशेषः प्रसादः क्रियताम् ? यद्वाऽस्या एकस्तम्भं प्रासादं कारयामि, तत्रेयं विमाने सुरीव सुखं तिष्ठतु" ।