________________
११४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अन्यदा च दावे ज्वलिते स्थण्डिलानि प्रतिधावमानस्त्वं पूर्वायातैमूंगादिभिः पूर्ण स्थण्डिलद्वयमतिचक्राम । तृतीयं स्थण्डिलं गतः शरीरकण्डूयनाय पादं समुदक्षिपः । मिथः प्राणिसम्मर्दस्खलितश्च शशकःस्तवाऽङ्ग्रेरधस्तात् पतितः । तथास्थं शशकमवलोक्य च जातदय उदस्तपाद एवाऽस्थाः । सार्धव्यहाद् दवे शान्ते शशकादयो जग्मुः । त्वमपि क्षुत्-तृट्परीतो जलार्थं धावमानश्चिरोद्धृतपादत्वात् खिन्नो भूमौ पतितस्त्र्यहाद् मृत्युं प्राप्य शशकदयापुण्येन राजपुत्रो जातोऽसि । तदेवं लब्धं मानुष्यं मुधा मा कार्षीः" । एवं स्वामिवचनेन मेघो व्रते स्थिरो मिथ्या दृष्कृतं कृत्वा विविधं तपस्तप्त्वा विपद्य विजये देवोऽभूत् । ततश्च्युत्वा च विदेहेषूत्पद्य सिद्धि यास्यति ।
दशमं पर्व - षष्ठः सर्गः भिक्षार्थं निर्गतोऽनाभोगाद् वेश्यागृहं प्रविष्टो धर्मलाभमुवाच । मम न धर्मलाभेन किन्तु द्रम्मलाभेन प्रयोजनमिति सविकारं सोपहासं च वेश्यया प्रोक्तः स रोषात् तीव्रतृणं कृष्ट्वा लब्ध्या ततो रत्नराशि पातयित्वा द्रम्मलाभोऽयं तवेत्युक्त्वा तद्गृहाद् निर्ययौ ।
वेश्या च ससम्भ्रमं तमनुधावमानोवाच-"सुदुष्करमिदं तपस्त्यक्त्वा मया सह भोगान् भुक्ष्व, त्वया विनाऽहमन्यथा प्राणान् त्यक्ष्यामि" । एवं तया भूयो भूयः प्रार्थित: स दोषज्ञोऽपि कर्मवशात् तद्वचः स्वीकृत्य "यदि प्रतिदिनं दशाधिकान् न बोधयिष्यामि तदा पुनर्दीक्षां ग्रहिष्यामी"ति प्रत्यज्ञासीच्च । ततः स त्यक्तमुनिलिङ्गस्तद्गृहे वसन् सदा देवताया जिनस्य च दीक्षानिषेधिकां वाचं स्मरन् तया सह भोगानभुक्त । प्रतिदिनं दश भव्यान् प्रबोध्य जिनेश्वरसमीपं प्रेषयामास च ।
अन्यदा च भोगफले कर्मणि क्षीणे तस्य प्रयतस्य बोधयतोऽपि नव जना अबुध्यन्त, किन्तु रङ्कजातीयो दशमो नैव बुबुधे । तस्मिन्नबुध्यमाने च समयज्ञा वेश्या नन्दिषेणाय कृतां रसवती मुहुर्मुहुराख्यत् । किन्त्वपूर्णाभिग्रहः स नोत्तस्थौ । किन्तु तं रङ्कजातीमेव विविधैर्वचोभिर्बोधयन्नस्थात् । वेश्यया बह्वाग्रहाद् भोजनार्थमुक्तश्च स नन्दिषेण उवाच-"यदि दशमो बोधितो न स्यात् तदाऽहमद्यैव पुनः प्रव्रजिष्यामि" । एवं तामुक्त्वा नन्दिषेणो भोग्यफलं भुक्तं ज्ञात्वा ततो निर्गत्य स्वामिनः पार्वे पुनर्दीक्षां ललौ । ततः स महात्मा नन्दिषेणस्तदुश्चरितमालोच्य जिनेन्द्रेण सह विहरन् तीव्र तपस्तप्यमानो व्रतं पालयन् विपद्य देवत्वमाप ॥ ६ ॥
इति दशमे पर्वणि श्रेणिकसम्यक्त्वलाभ-मेघकुमार
नन्दिषेणप्रव्रज्यावर्णनात्मकः षष्ठः सर्गः ॥६॥
अन्यदा च स्वामिदेशनया प्रबुद्धो नन्दिषेणः श्रेणिकमनुज्ञातुं प्रार्थयामास । पित्राऽनुज्ञातश्च स गृहाद् दीक्षार्थं प्रस्थितो गगनस्थया देवतया प्रोक्त:-"वत्स ! दीक्षार्थं मा त्वरिष्ठाः, तव चारित्रावारकं भोगफलं कर्माऽवशिष्यते । तत्किञ्चित्कालं प्रतीक्षस्व" । तथाऽपि स दुराग्रहाद् प्रभुसमीपं गतवान् । स्वामिना वारितोऽपि च तत्पादपादान्ते प्रव्रज्यां प्रतिपन्नवान् । षष्ठा-ऽष्टमादीनि तपांसि कुर्वन् प्रभुणा सह विहरन् परीषहान् सहमानः सूत्रार्थान् भावयन् कामान् बलाद् रोर्बु स्वशरीरं भृशं क्रशयामास । इन्द्रियाणि जेतुं च श्मशानादिष्वातापनां चकार ।
एकदा कामेषु कर्मबलात् प्रभवत्सु च स प्रव्रज्याभङ्गभिया स्वमुद्बद्धं समारेभे । देवता चाऽस्य बन्धच्छेदं चकार । एवं मृत्योर्देवतया वार्यमाण एकाकिविहारपरिकर्मभृत् स षष्ठपारणेच्छया