________________
११२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नानातॄणकवलैः पुत्रप्रेम्णा तं पोषयामासुः । तापसान् वृक्षान् कलशैः सिञ्चतो निरीक्ष्य च ताननुकुर्वन् स तैः सेचनक इति नाम्नाऽऽहूतः।
क्रमाच्च सर्वलक्षणयुक्तः स सेचनको गजो यौवनसूचकं मदं प्रपन्नो जलं पातुं नदीतीरं प्राप्तो यूथपं पितरं दृष्ट्वा युद्धे तं हत्वा स्वयं यूथपो भूत्वा दध्यौ-"आश्रमेऽस्मिन मायां कृत्वा मात्रा रक्षितोऽस्मि। मया च यत्पितुरकारि तदेव कोऽप्यस्मिन्नाश्रमे ममेव जातस्त्रातश्च मां मा कार्षीत्" । एवं ध्यात्वा स तं तापसाश्रमं साकल्येन भक्त्वाऽलक्ष्य संस्थानमकार्षीत् । ततः पीडितास्तपस्विनस्तद्गजवृत्तं श्रेणिकायाऽऽचख्युः । श्रेणिकोऽपि च शीघ्रं गत्वा तं गजेन्द्र बद्ध्वा समानीय स्तम्भेऽबध्नात् । ततः स गजो रोषादालिखित इव पादबन्धनरहितोऽपि नि:स्पन्दस्तस्थौ । तेन च प्रसन्नास्तापसा: समेत्याऽ"स्माभिः पोषितोऽस्मानेव प्रपीडयन् स्वकर्मफलं भुक्ष्वे"ति तं गजमाक्रोशयामासुः ।
ततः स गजो दध्यौ-"नूनमेभिस्तापसैरेवोपायं घटयित्वेदृशीं दशामापितोऽस्मि"। एवं विचिन्त्य क्रोधात् स्तम्भं कदलीकाण्डवद् भक्त्वा बिसतन्तुवद् बन्धनं त्रोटयित्वा च तापसान् भ्रमरानिवाऽतिदरेण विक्षिपन्नभिवनं पलायामास । ततः श्रेणिकस्तं गजमानेतुमश्वारूढैः पुत्रैः सह गत्वा परिवेष्टयति स्म । किन्तु स गजो हस्तिपकानां प्रलोभनां तर्जनां वा न गणयति स्म । किन्तु नन्दिषेणस्य वचः श्रुत्वा तं दृष्ट्वा चाऽवधिना पूर्वं जन्म जानन् शाम्यति स्म । नन्दिषेणश्च द्रुतमेव तं गजमारुरोह। तथा च गजो नन्दिषेणस्य वचसा शिक्षित इव सर्वां क्रियां कुर्वन्नालानवशोऽभूत्। तत: श्रेणिकस्तस्मै गजाय पढें ददौ प्रीतिपात्रं च चकार । तथा श्रेणिकस्य कुलपत्नीषु प्रख्यातपराक्रमाः कालाद्या बहवः पुत्रा अभूवन् ।
दशमं पर्व - षष्ठः सर्गः
इतश्च वीरजिनो विहरन् सपरिवारो राजगृहं प्राप्य गुणशैले चैत्ये सुरविकृतं समवसरणं शिश्राय । श्रेणिकश्च प्रभुं समवसृतं ज्ञात्वा महा सपुत्रः समागत्य वन्दित्वा यथास्थानमुपविश्य भक्त्या स्तुति चकार । प्रभोधर्मदेशनां श्रुत्वा च स सम्यक्त्वमभयकुमारादयश्च श्रावकधर्म प्रपेदिरे । देशानान्ते च प्रभुं प्रणम्य पुत्रैः सह प्रसन्नः स्वस्थानं जगाम ।
अथ मेघकुमारो धारिणीं श्रेणिकं च रचिताञ्जलि: स्वव्रतग्रहणमनुज्ञातुं प्रार्थयामास । ततः श्रेणिको दुष्करं व्रतमिति बोधितमपि भवभीतत्वादविरमन्तं मेघकुमारमुवाच-"यद्यपि भवोद्विग्नोऽसि, तथाऽपि मम राज्यं गृहीत्वा मां सुखय" । ततस्तत्स्वीकुर्वाणं मेघं नृपो राज्ये निवेश्य भूयस्ते किं करोमीति हर्षादुवाच । ततो मेघो जगौ-"तात ! कुतोऽप्यापणाद् दीक्षाग्रहणोत्सुकाय मह्यं रजोहरण-पात्रादिकमानीयताम्" । ततो नृपो वचनबद्धोऽनिच्छन्नपि तथा चकार । मेघश्च गत्वा वीरजिनपादान्ते प्रवव्राज ।
अथ मेघकुमारो रात्रौ ज्येष्ठक्रमेण कृते संस्तरे प्रसुप्तो गतागतं कुर्वतो मुनेः पादैविघटितो दध्यौ-"अमी निर्धनं मां पादैर्घट्टयन्ति, सर्वत्र विभव एव पूज्यः । तत्प्रातव्रतं त्यक्ष्यामि" । एवं ध्यायन् स रात्रि कथञ्चिदतिवाह्य व्रतं त्यक्तुकामो वीरजिनमुपजगाम। प्रभुश्च केवलज्ञानेन तदाशयं ज्ञात्वा जगौ-"किं संयमभाराद् भग्नोऽसि, प्राग्भवान् न स्मरसि किम् ? त्वमितस्तृतीये भवे वैताढये मेरुप्रभाख्यो गजोऽभूः । दावाग्निपीडितश्च जलं पातुं सरसि गत: पङ्के मग्नः प्रतिगजेन हत: सप्ताहान्ते मृतः । ततो विन्ध्ये तदाख्य एव गजो जातो दावाग्नि दृष्ट्वा जातजातिस्मृतिर्वृक्षादिकमुत्पाट्य स्वयूथरक्षार्थं स्थण्डिलत्रयं चकर्थ ।