________________
११०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ सा चिल्लणा पूर्णे समये सुतं सुषुवे । तत: सा पितुः शत्रुरेव बालः सर्पडिम्भ इव क्वाऽपि दूरे त्याज्य इति दासीमादिशत् । दासी च तं भासुरं बालमशोकवनं गत्वा भुवि परितत्याज । समागच्छन्त्या तया वृत्तं ज्ञात्वा च श्रेणिकोऽशोकवनं गत्वा तं पुत्रं दृष्ट्वा द्वाभ्यां कराभ्यामादायाऽऽगत्याऽस्मिन् ज्येष्ठे सुते त्यक्ते तवाऽन्ये पुत्रा बुद्बुदा इवाऽस्थिरा भविष्यन्तीति बोधयित्वा समर्पयामास । ततश्चेल्लणा पत्युनिदेशादनिच्छन्त्यपि तं बालं स्तन्यदानादिना पालयामास । नृपश्चाऽशोकवने कान्त्या चन्द्र इव दृष्ट इति तस्याऽशोकचन्द्र इति नाम चकार ।
अशोकवने त्यक्तश्च कुक्कुरीपिच्छेनाऽङ्गुलौ विद्धः पीडया तदा रुदति स्म । ततो नृपः सव्रणमपि तदङ्गली मुखे स्नेहादक्षिपत् । ततश्च स रोदनाद् व्यरंसीत् । व्रणे संरूढेऽपि तस्याऽङ्गलि: सङ्कचिताऽभवत् । तेन च स सवयोभि: कूणिक इति सम्बोधितः । चेल्लणायाश्च क्रमशोऽन्यावपि मोदप्रदौ हल्ल-विहल्लनामानौ द्वौ पुत्रावभूताम् । ते त्रयश्च नित्यं राज्ञो निदेशकारिणो बभूवुः । चेल्लणा च पितृद्विषे कूणिकाय गुडमोदकान् हल्ल-विहल्लाभ्यां च शर्करामोदकान् प्रेषयामास । कूणिकश्च कर्मदोषाच्छ्रेणिक एवैवं कारयतीति मन्मानो यौवनं प्रपेदे । ततो वत्सलः श्रेणिको महता महेन राजपुत्रीं पद्मावती कूणिकेन परिणाययामास ।
दशमं पर्व - षष्ठः सर्गः
....१११ नृपादिष्टेनाऽभयकुमारेण पूर्णदोहादा च सा पूणे समये मेघकुमाराख्यं सुतमसूत ।
इतश्चैको विप्रः पुरा यज्ञं कुर्वाणस्तत्रैकं दासं नियुक्तवान् । दासश्च यज्ञशेषवेतने विप्रेण स्वीकृते यज्ञवाटकेऽस्थात् । तथा स दासो लब्धं यज्ञशेषं साधुभ्यः प्रयच्छति स्म । तन्महिम्ना च देवायुर्बद्धवा विपद्य स दासो दिवं जगाम । ततश्च्युत्वा च स दासजीव: श्रेणिकस्य नन्दिषेणाख्यः पुत्रोऽभवत् । विप्रस्तु भवान् बभ्राम।
इतश्चैकस्मिन् वने हस्तियूथे महाबलवानेको यूथपोऽभूत् । स च यौवनं प्राप्य कोऽपि करेणुयूथस्य प्रियो मा भूदिति बुद्ध्या जातं जातं कलभं मारयामास । विप्रजीवश्च तयूथस्थाया एकस्याः करिण्या गर्भेऽवतीर्णवान् । तत: सा गर्भिणी करिणी केनाऽप्युपायेनाऽस्मात् पापाद् गजात् पुत्र रक्षामीति विचार्य मायया खजा भूत्वा मन्दं मन्दं चचाल । स यूथयतिर्हस्ती च मैषाऽन्यस्य भोग्या स्यादिति शनैर्गच्छंस्तां प्रतिपालयामास । ततः सा हस्तिन्यतिमन्दगत्या गच्छन्ती तेन यूथपेन सङ्गमे क्रमश: कालं वर्धयामास । तत: स हस्तीयमक्षमतया चिरादपि सङ्गच्छत्येवेति विश्वासं जगाम ।
एकदा च सा हस्तिनी यूथपे सुदूरं गते सति तृणपूलं मस्तके कृत्वा तापसाश्रमं प्राप्तवती । तापसाश्च मस्तकन्यस्ततृणपूलां प्रणाममभिनयन्ती करिणीं शरणार्थिनीं विज्ञाय "वत्से ! विश्वस्ता भवे"ति समाश्वासयामासुः । ततः सा तत्राऽऽश्रमे सुखेन निवसन्ती समये जातं पुत्रं तत्रैव मुक्त्वा स्वयं वने यूथेन सङ्गता पूर्ववद् विचचार । तथा मध्ये मध्ये समागत्य कलभाय स्तन्यं ददाति स्म । स कलभश्चाऽप्याश्रम वृक्ष इव क्रमशो ववृधे । तापसाश्चाऽपि
अथ श्रेणिकस्य भार्या धारिणी गर्ने बभार । सा च स्वप्ने मुखे प्रविशन्तं गजं ददर्श । तथा तस्य मेघवृष्टौ भ्रमणदोहदमभूत् ।