________________
षष्टिशलाकापुरुषचरितम् गद्यात्मकसारोद्धारः
ततो गत्वा दास्या प्रार्थितोऽभय उवाच - " त्वत्स्वामिन्या अभिलषितमाश्वेव पूरयिष्यामि, सुरङ्गां खानयित्वा तया तमानेष्यामि, त्वत्स्वामिन्याऽपि तद्रथोऽधिरोहणीयः । त्वत्स्वामिनी चित्रदृष्टरूपसाम्याच्छ्रेणिकं समागतं दृष्ट्वा हर्षमेष्यति । एवमुक्त्वा च स श्रेणिकागमने स्थान - दिन- मुहूर्त्तादिसङ्केतमप्यदात् । दासी च सुज्येष्ठायै तद् निवेद्याऽऽगत्य त्वद्वचः प्रमाणमित्यभयमुक्त्वा पुनरन्तःपुरं ययौ । अभयश्च गत्वा श्रेणिकाय सङ्केताद्युदन्तं सर्वमाख्यत् । सुज्येष्ठा च तदारभ्य कामार्त्ता श्रेणिकमेव स्मरन्ती कदाऽपि निर्वृत्तिं नाऽऽप ।
१०८
च
निर्णीते दिने च श्रेणिको द्वात्रिंशता सुलसासुतैः सह सुरङ्गाद्वारं प्राप्य तत्र तैः सह प्रविष्टवान् । सुरङ्गानिर्गतं श्रेणिकं सुज्येष्ठा च चित्रसम्वादादुपलक्ष्य नितरां मुदिता चिल्लणां सर्वं वृत्तमाख्यायाऽऽपप्रच्छे। त्वां विना न स्थास्यामीति चिल्लणाप्रतिज्ञां च ज्ञात्वा सुज्येष्ठा तां रथमारोप्य स्वयं रत्नकरण्डिकामानेतुं गता । शत्रुगृहे चिरं स्थातुं न युक्तमिति सुलसापुत्रैः प्रेरितश्च नृपश्चिलणामेवाssदाय यथा गतेन पथा जगाम ।
समागता सुज्येष्ठा च श्रेणिकमदृष्ट्वाऽसफलमनोरथत्वात् स्वसुरपहाराच्च "मुषिताऽस्मि, हा चिल्लणाऽपह्नियते" इति पूच्चकार । शीघ्रं सन्निधीभवन्तं चेटकं निवार्य च वीरङ्गकः सज्जीभूय सुरङ्गाद्वारमागत्यैकेनैव बाणेन गच्छतः सुलसासुतानवधीत् । यावच्च स सुरङ्गायास्तद्रथानाकर्षति तावच्छ्रेणिको दूरं जगाम । ततो वीरङ्गकस्तद्वृत्तं चेटकाय न्यवेदयत् । चेटकश्च रथिकानां वधात् तुष्टोऽपि कन्याहरणाद् रुष्टो बभूव । सुज्येष्ठा च विफलमनोरथा विषयेच्छां निन्दन्ती विरज्य चेटकमापृच्छ्य
दशमं पर्व षष्ठः सर्गः
चन्दनार्यायाः समीपे दीक्षामुपाददे ।
अथ श्रेणिकोऽजानन् तत्र स्थितां चिल्लणां सुज्येष्ठे सम्बोधयामास । ततः सुज्येष्ठायाः कनिष्ठाऽहं चिल्लणेति तयोश्च श्रेणिक आह-"मम प्रयासो न व्यर्थः । त्वं सुज्येष्ठाया अन्यूना सुज्येष्ठेवाऽसि” । चिल्लणा च पतिलाभेन स्वसृवञ्चनेन च युगपद्धर्ष - शोकाक्रान्ता जाता । श्रेणिकच जविना रथेन शीघ्रमेव स्वनगरं प्राप । अभयोऽपि तमनुसरंस्तत्र प्राप । ततः श्रेणिकश्चिलणां परिणीय गत्वा सुलसा-नागयोः सुतमरणवृत्तान्तं कथयामास । तौ च तदाकर्ण्य शोकसन्तप्तौ तारस्वरं रुदन्तावभयकुमारो बोधयामास । तौ बोधयित्वा च श्रेणिको गृहं गत्वा चिल्लणया सह पुरन्दरः शच्येव विषयान् यथेच्छं बुभुजे ।
१०९
अथोष्ट्रिकाक्षपको व्यन्तरायः समाप्य पुत्रत्वेन चिल्लणाया: कुक्षाववततार । गर्भदोषेण च चिल्लणायाः पतिमांसभक्षणदुर्दोहदो जात: । पतिव्रता च सा तं दोहदं कस्याऽप्यनाख्याय दिने दिने कृष्णचन्द्रवत् क्षीयते स्म । दुर्दोहदविरक्तया तया च पात्यमानोऽपि स गर्भो नाऽपतत् । राज्ञा च प्रेम्णा कृशाङ्गी सा साग्रहं पृष्टा तद्दोहदं कथञ्चिदाख्यत् । नृपश्च तव दोहदं पूरयिष्यामीति तामाश्वास्य कथमस्या दोहदः पूरणीय इत्यभयं पृष्टवान् ।
ततोऽभयः श्रेणिकस्योदरे शशकस्य मांसं तच्चर्मावृतं निधाय तमुत्तानशाययत् । श्रेणिकानुज्ञया च चिल्लणा रहसि तन्मांसं भक्षयामास । छलाद् मूर्च्छिते नृपे च मांसं भक्षयन्ती सा क्षणाद् हृदयेन दूयते स्म क्षणाच्च गर्भप्रभावाद् हृष्यति स्म । एवं बुद्धया पूर्णदोहदा चिल्लणा पतिघ्न्यहमिति मुमोह । राज्ञा स्वमव्रणं दर्शिता च साऽहृष्यच्च ।