________________
दशमं पर्व - षष्ठः सर्गः
women..१०७
१०६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नृपोऽभवत्। तस्य च राशीभ्यः सप्तकन्यका अजायन्त । ताश्च क्रमात् प्रभावती पद्मावती मृगावती शिवा ज्येष्ठा सुज्येष्ठा चिल्लणा चेत्याख्याः । चेटकः श्रावकत्वादन्यविवाहनियमं धारयन् कस्मैचिदपि कन्या न ददौ । किन्तु तन्मातरश्चोदासीनमपि चेटकमापृच्छ्याऽनुरूपाणां वराणां पञ्च कन्याः प्रददुः ।
तत्र प्रभावती वीतभयपुराधीशोदयननृपाय, पद्मावती चम्पेशाय दधिवाहननृपाय, मृगावती कौशाम्बीपुरेशाय शतानीकनृपाय, शिवा चोज्जयिनीशाय प्रद्योतनृपाय, ज्येष्ठा च कुण्डग्रामेशाय वीरजिनज्येष्ठभ्रात्रे नन्दिवर्धनाय दत्ता । सुज्येष्ठा चिल्लणा च सुरूपे कुमायौं सदाऽवियुक्ते कलावत्यौ शास्त्रमर्मज्ञे सरस्वत्याः प्रतिमूर्ती इवोपलक्षिते मिथो रममाणे सहैव देवार्चनपरे धर्मश्रवणोन्मुख्यौ सर्वमन्यदपि सममेव चक्रतुः ।
एकदा चैका स्थविरतापसी सुज्येष्ठा-चिल्लणाशोभितं कन्यान्तःपुरमागता धर्मं शौचमूलं वर्णयामास । तच्छ्रुत्वा च सुज्येष्ठोवाच-"शौचमशुभाश्रवात्मकतया पापहेतुरेव न पापनाशकम्" । एवं सुज्येष्ठ्या युक्त्या पराजितां तामन्त:पुरदास्यो जहसुः, कण्ठे गृहीत्वा निरवासयंश्च । ततो निर्गच्छन्ती च सा तापसी दध्यौ"पाण्डित्यगर्वितामिमां प्रचुरासु सपत्नीषु दुःखभाजं करोमि" । ततः सा पिण्डस्थध्यानेन सुज्येष्ठारूपं मनसि विधाय पटे लिखित्वा राजगृहं गत्वा श्रेणिकाय दर्शयामास । तां दृष्ट्वा च श्रेणिकस्तत्सौन्दर्यं बहु वर्णयित्वाऽपृच्छत्-"इयं सुन्दरी त्वया स्वप्रतिमया रूपं दृष्ट्वा वा पटे लिखिता" ।
ततस्तापस्यूचे-"दृष्टमेवेदं रूपं मया लिखितम्" । ततश्चित्रस्थामपि तां दृष्ट्वा जातानुराग: कस्यां नगर्यां कुत्र वंशे कस्येयं पुत्री
किमाख्या च, कां कलामियं जानाति, अस्याः पाणिग्रहो जातो न वेति पप्रच्छ श्रेणिकः । ततस्तापसी तस्याः सर्वं वृत्तं प्रश्नानुसारेण वर्णयित्वा तया विवाहार्थं नृपं प्रेरयामास । ततो नृपस्तापसी विसृज्य दूतमनुशिष्य सुज्येष्ठाप्रार्थनानिमित्तं चेटकं प्रति प्रेषयामास । दूतोऽपि वैशाल्यां गत्वा नृपं नत्वा मगधेशस्त्वत्तः सुज्येष्ठां याचते इत्युवाच । ततश्चेटक उवाच-"तव प्रभोर्न स्वरूपपरिचयः, कथमन्यथा वाहीककुलोद्भवोऽपि हैहयवंशोद्भवां कन्यां वाञ्छति । समानकुलयोरेव विवाहो युज्यते, तच्छ्रेणिकाय कन्यां न दास्यामि, याहि" । प्रत्यागताद् दूतात् तज्ज्ञात्वा च श्रेणिकः खेदं जगाम ।
ततस्तत्रस्थोऽभयकुमार उवाच-"पितः ! मा खिद्यस्व, युष्माकं मनोरथं पूरयिष्यामि" । एवमुक्त्वा गृहं गत्वा कलाकुशलोऽभयः फलके श्रेणिकरूपमालिख्य गुटिकया स्ववर्णस्वरभेदं विदधे । ततो वणिग्वेशं गृहीत्वा वैशाली गत्वा चेटकनृपान्त:पुरसमीपे आपणं चकार । तत्र च सोऽन्तःपुरचेटीनामधिकं द्रव्यं ददौ । तथा पटे लिखितं श्रेणिकं नित्यं पूजयामास । दास्या पृष्टश्च"अयं मम नृपः श्रेणिक" इत्युवाच । विस्मिता दास्यश्च सुज्येष्ठायै श्रेणिकस्य यथादृष्टमप्रतिमं रूपं कथयामासुः । तद्रूपदर्शनकौतुकात् सुज्येष्ठया प्रेरिता च दासी गत्वाऽऽग्रहादभयतस्तच्छ्रेणिकचित्रमादाय तां दर्शयामास । तदनुपमं रूपं दृष्ट्वा च तत्र लीना क्षणं स्थित्वा रहसि गत्वा सुज्येष्ठा दासीमुवाच-"फलके यस्येदं रूपं तं पतित्वेनेच्छामि, कोऽत्र तद्घटक: स्यात् ? एनं पतित्वेनाऽप्राप्य च मम हृदयं भेत्स्यते, तस्मादिह क उपाय: ? अथवैतद्रूपपूजको वणिगेवाऽत्रोपायः । तन्मत्कार्यं साधयितुं तं प्रसादाय । तदुक्तं चाऽऽगत्य निवेदय" ।