________________
१०४
पुरुष-गद्यात्मकसारोद्धारः
मिथ: कलहे तमुपालब्धवान् - "त्वं किं जल्पसि यः खल्वज्ञातपितृकः" । ततोऽभयकुमार उवाच - " मम पिता भद्रः खलु" । ततः सवया जगौ - "भद्रस्त्वन्मातुः पिता । ततोऽभयकुमारो नन्दां को मे पितेति पप्रच्छ । सा च भद्रस्तव पितेत्युदतरत् । ततोऽभयेन भद्रस्तव पिता मम पितरं ब्रूहीति पृष्टा नन्दोदासीनोवाच"देशान्तरादागतेन केनचित् परिणीताऽहम् । त्वयि गर्भस्थे च स औष्ट्रिकैः सह रहसि किमप्यालप्य क्वचिदपि जगाम । स कुतस्त्यः को वेत्यद्याऽप्यहं न जानामि " ।
गच्छंश्च स किमपि त्वामुवाचेति पुनरभयेन पृष्टा सा 'एतान्यक्षराण्यर्पितानी' त्युक्त्वा तत्पत्रमदर्शयत् । तद्विचार्य चाऽभय उवाच-“मम पिता राजा, तत्सम्प्रति राजगृहनगरं गच्छामः” । ततो भद्रं श्रेष्ठिनमापृच्छ्य शम्बलमादायाऽभयो नन्दया सह राजगृहपुरं ययौ । तन्नगरं प्राप्य मातरं बहिरुद्याने सपरिच्छदां विमुच्याऽभयः स्वल्पपरिवारेण सह पुरं प्रविवेश ।
इतश्च श्रेणिकनृपेणैकोनानि मन्त्रिणां पञ्चशतानि मेलितान्यासन् । मन्त्रिणां पञ्चशर्ती पूरयितुं च नृपो लोके कमप्युत्तमं पुरुषं गवेषयामास । परीक्षार्थं च नृपः शुष्के कूपे निजाङ्गुलीयकं क्षिप्त्वा लोकानादिदेश - "य: कूपतटस्थित एतद्ङ्गुलीयकं करेण गृह्णीयात् तस्य बुद्धिवैभवेन क्रीता मन्त्रिमुख्यता स्यात्" । ततो लोका ऊचुः"गगनात् करेण ताराकर्षणमिवोर्मिकायाः कूपतलाद् ग्रहणमशक्यमस्मादृशाम्" । तदानीं तत्राऽऽगतोऽभयकुमार: सस्मितमुवाच - "नैतदतिदुष्करम्" । तं दृष्ट्वा च जनाः कोऽप्यसौ विशिष्टबुद्धिरिति ध्यात्वोचुः - "इमामूर्मिकां करेण गृहाण, तत्र पणीकृतामर्धराज्यश्रियं नृपपुत्रीं मन्त्रिमुख्यत्वं च लभस्व" ।
दशमं पर्व षष्ठः सर्गः
१०५
ततोऽभयकुमारः कूपतलस्थां मुद्रिकामुपरिस्थित आर्द्रगोमयपिण्डेन जघान । तदुपरि च तत्कालं ज्वलत्तृणपूलकं प्रक्षिप्य गोमयं शोषयित्वा शीघ्रं सारणि कारयित्वा कूपं जलेन पूरयित्वा लोकान् विस्मापयंस्तद्गोमयं तत्करेण गृहीतवान् । आरक्षैस्तज्ज्ञात्वा च विस्मितो नृपस्तं सद्य एव स्वसमीपमाजुहाव । तथा तमभयं पुत्रमिवाऽऽलिङ्ग्य कुत आगतोऽसीति पप्रच्छ । वेणातटपुरादागतोऽस्मीत्यभयेनोक्तश्च नृपः पुनस्तं पप्रच्छ-“भद्र ! तत्र ख्यातः सुभद्रः श्रेष्ठी तत्पुत्री नन्दा च स्तः " । ततस्तेन तत् स्वीकृते नृपः पुनः पप्रच्छ-“नन्दा गर्भवत्यासीत्, तस्याः अपत्यमजनि किम्" ।
ततोऽभय उवाच - "देव ! साऽभयकुमाराख्यं पुत्रमजनिष्ट, स एवाऽहमस्मि"। तच्छ्रुत्वा च नृपस्तमङ्के आदाय मूर्व्याघ्रायाऽ श्रूणि मुञ्चन् स्नेहात् स्नपयामासेव । ततो वत्स ! तव मातुः कुशलमिति नृपेण पृष्टोऽभयो बद्धाञ्जलिरुवाच - " त्वत्सङ्गमं ध्यायन्ती सा मन्माता सम्प्रति बाह्योद्यानेऽस्ति" । ततो नृपः प्रमुदितो नन्दां समानेतुं सर्वसामग्रीं पुरतः कृत्वाऽभयं प्रेषयामास । स्वयमपि चाऽत्युत्कण्ठया नृपो हंसः कमलिनीमिव नन्दामभिययौ । तां च नन्दां कृशां मलिनामुद्यानस्थां दृष्ट्वा सानन्दः स्वगृहमानीय महिषीपदेऽस्थापयत् । अभयाय च नृपो भगिन्याः सुसेनायाः पुत्रीं मन्त्रिमुख्यत्वमर्धराज्यं च ददौ । ततोऽभयः पितरं सेवमानो दुःसाध्यानपि नृपान् साधयामास ।
***
इतश्च महीमहेलातिलकायमानायां सर्वसम्पत्समृद्धायां गरीयस्यां वैशालीनगर्यामिन्द्र इवाऽप्रतिहताज्ञः शत्रुन्तपश्चेटको नाम