________________
१०२
पुरुष-गद्यात्मकसारोद्धारः
तस्यैव स स्यात्” । ततः सर्वे कुमारा यथारुचि हस्त्यादिकमादाय गृहाद् निर्ययुः । श्रेणिकस्तु भम्भामादाय निर्ययौ । नृपेण किमेतद् गृहीतमिति पृष्टश्च श्रेणिक उवाच - 'राज्ञां जयस्य प्रथमं चिन्हं भम्मा, अस्याः शब्देनैव राज्ञां विजययात्रामङ्गलं, तन्नृपैरियमेव रक्षणीया" ।
ततस्तन्महत्त्वाकाङ्क्षाप्रसन्नो नृपस्तस्य भम्भासार इत्यपराख्यां ददौ । तथा स नृपः प्राकृतां 'यद्गृहादग्निरुत्तिष्ठेत् स निर्वासनीय " इति घोषणां स्मृत्वा दध्यौ - यद्यहमात्मानं नाऽनुशास्मि तर्हि परेषामनुशासनं दुष्करं स्यात्" । एवं ध्यात्वा स नृपः सपरिच्छदस्तन्नगरं त्यक्त्वा क्रोशेनैकेन शिबिरं निवेशितवान् । ततो राजगृहं यास्याम इति लोकप्रसिद्धया स नृपस्तत्रैव राजगृहं नाम नगरं परिखादिमनोहरं चकार ।
अथ नृपोऽपरे राज्ययोग्यंमन्याः पुत्रा एनं राज्यार्हं मा ज्ञासिषुरिति श्रेणिकमवामन्यत । स हि पृथक् पृथक् कुमाराणां देशान् ददौ । किन्तु भविष्यत्काले राज्यमस्याऽस्त्विति बुद्ध्या श्रेणिकस्य न किञ्चिदपि ददौ । ततोऽभिमानी स श्रेणिकः स्वनगराद् निर्गत्य क्रमाद् वेणातटपुरं प्राप्य प्रविश्य च भद्राख्यस्य श्रेष्ठिन आपणे लाभोदयं मूर्त्तं कर्मेवोपाविशत् । तदानीं च तन्नगरे कश्चिदुत्सव: प्रावृतत् । प्रभूतैः क्रायकैर्व्यग्रं श्रेष्ठिनं बुद्ध्वा स कुमार: पुटकादिकं बद्ध्वा ददौ । कुमारप्रभावाच्च स श्रेष्ठी प्रभूतं द्रव्यमार्जयत् । अद्य कस्याऽतिथिस्त्वमिति श्रेष्ठिना पृष्टश्च श्रेणिको भवतामित्युदतरत् ।
ततः श्रेष्ठी दध्यौ - " मयाऽद्य रात्रौ स्वप्ने नन्दायोग्यो यो वरो दृष्टः सोऽयमेव । एवं ध्यात्वा च स उवाच - "धन्योऽहं यत् त्वं
दशमं पर्व षष्ठः सर्गः
१०३
ममाऽतिथिर्भवसि" । ततः स प्रासादं संवृत्य श्रेष्ठी तं कुमारं निजगृहं नीत्वा स्नपयित्वा वस्त्रे परिधाप्य च सादरमभोजयत् । एवं तद्गृहे वसन् श्रेणिकोऽन्यदा श्रेष्ठिना नन्दाख्यामिमां कन्यां परिणयेति प्रार्थितः । अज्ञातकुलशीलस्याऽपि मम कथं कन्यां दित्ससीति श्रेणिकेनोक्तश्च तव गुणैरेव कुलं ज्ञातमिति श्रेष्ठयुवाच । ततस्तदाग्रहाच्छ्रेणिकः समहोत्सवं नन्दां परिणिनाय । तया सह विषयसुखं भुञ्जानश्च तत्राऽस्थात् ।
अथ प्रसेनजिन्नृपश्चरैः श्रेणिकस्य तद्वृत्तं ज्ञातवान् । उग्ररोगाक्रान्तश्च निजं मरणं जानन् नृप औष्ट्रिकान् शीघ्रं श्रेणिकमानेतुमादिशत् । श्रेणिकञ्चौष्ट्रिकेभ्यः पितू रोगवार्त्ती ज्ञात्वा नन्दां सस्नेहं सम्बोध्य ततः प्रस्थितवान् । तथा राजगृहे नगरे वयं पाण्डुरकुड्या गोपाला इति निजाख्याक्षराणि ददौ । रोगग्रस्तस्य पितुरन्यो रोगो मा भूदिति स उष्ट्रीं समारुह्य शीघ्रं राजगृहनगरं ययौ । तं दृष्ट्वा प्रसन्नश्च प्रसेनजिद् हर्षाश्रूणि मुञ्चन् राज्येऽभ्यषिञ्चत् । ततो नृपः पार्श्वजिनं परमेष्ठिनमस्कारं च स्मरन् चतु: शरणमापन्न विपद्य स्वर्गं जगाम ।
श्रेणिश्च राज्यधुरामुवाह । तेन मुक्ता गर्भवती नन्दा च दुर्वहं गर्भं बभार । तस्याश्च गजारूढा महैश्वर्येण प्राणिनामुपकुर्वाणाऽभयदा स्यामिति दोहदो जात: । श्रेष्ठी च राजानं तद् निवेद्य दोहदं पूरयामास । पूर्णे समये च सा पुत्रं कान्तिमन्तं प्रासू । मातामहस्तस्य बालस्य दोहदानुसारेण शुभे दिनेऽभयकुमार इति
नाम चकार ।
अथ धात्रीभिर्लाल्यमानः क्रमाद् वर्धमानो विद्या अभ्यस्यन्नष्टवर्ष एव द्वासप्ततिकलाकुशलोऽभूदभयकुमारः । कोऽपि