________________
दशमं पर्व - षष्ठः सर्गः सा शुभमुहूर्ते द्वात्रिंशल्लक्षणोपेतान् द्वात्रिंशतं पुत्रान् जनयामास । ते च धात्रीभिर्लाल्यमानाः क्रमाद् वर्धन्ते स्म । नागश्च तान् दर्श क्रीडयंश्च नितरां मुमुदे । ते सर्वे च नागपुत्राः सवयसः श्रेणिककुमारस्याऽनुयायिनो बभूवुः ।
१००
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः त्वद्गृहे लक्षपाकं महातैलमस्ति, तज्लानार्थं देहि" । सा हि तैलपाकोऽमोघः साधोरुपकारी स्यादित्युक्त्वा तैलकुम्भमानीतवती । देवेन च स्वशक्त्या तत्करात् पातितस्तैलकुम्भः पुस्फोट । ततस्तया द्वितीयस्तैलकुम्भः समानीतोऽपि पूर्ववदेव पुस्फोट । ततो विषण्णया तया तृतीयोऽप्यानीतः पुस्फोट । ततः सा दध्यौ-"अहं मन्दभाग्याऽस्मि, यत् साधुविफलप्रार्थनोऽभूत्" ।।
ततो देवो निजं रूपं धृत्वा तामुवाच-"भद्रे ! शक्रकृतया तव श्रावकत्वप्रशंसया विस्मितोऽहं त्वत्परीक्षार्थमागत इदानीं तुष्टोऽस्मि, वरं वृणीष्व" । तत: सुलसोवाच-'यदि तुष्टोऽसि, तर्हि ममाऽपुत्रायाः पुत्रं देहि" । ततो देवो द्वात्रिंशतं गुटिकां दत्त्वोवाच-"एता गुटिकाः क्रमेण भक्षयः । तवैतावन्तः पुत्राः स्युः । प्रयोजने च सति त्वया स्मृतोऽहं पुनरागमिष्यामि" । एवमुक्त्वा स देवोऽन्तर्हितवान् ।
ततः सुलसा दध्यौ-"क्रमशो गुटिकाभक्षणात् पुनः पुनर्बालानामशुचिं का क्षालयिष्यति ? तद्युगपदेवाऽहं सर्वा इमा गुटिका
अद्मि, येन मे द्वात्रिंशल्लक्षणः पुत्रो भवेत्" । एवं विचार्य सा सर्वा गुटिका जघास । तेन च तस्या उदरे द्वात्रिंशद् गर्भा उत्पन्नाः, तेन च साऽक्षमा जाता । तान् गर्भानसहिष्णुश्च सा कायोत्सर्गदेवं सस्सार। स्मरणत उपस्थितेन देवेन स्मरणकारणं पृष्टा च सा गुटिकावृत्तान्तं कथयामास ।
तच्छ्रुत्वा देव उवाच-"अमोघगुटिकाभक्षणेन तावन्तो गर्भा अभूवन् । त्वया चारु नाऽऽचरितम् । ते द्वात्रिंशदपि पुत्रास्तुल्यजीविताः स्युः । इदानीं मा विषीद । भवितव्यता हि बलवती। तव गर्भपीडापहारं करिष्यामि" । एवमुक्त्वा स देवस्तस्या गर्भपीडामपहत्य दिवं जगाम । सा च स्वस्था जाता । पूर्णसमये च
अथाऽन्यदा नृपः स्वपुत्राणां राज्ययोग्यतां परीक्षितुमेकत्र पायसस्थालानि भोजनाय ददौ । भोक्तुं प्रवृत्तेषु कुमारेषु च स नृपो व्याघ्रानिव विवृतमुखान् कुक्कुरान् मुमोच । आधावमानेषु श्वसु च कुमारा द्रुतमुत्तस्थुः । केवलं श्रेणिकस्तथैव तस्थौ । तथा सोऽन्यस्थालात् पायसं स्तोकं स्तोकं कुक्कुरेभ्यो यच्छन् स्वयं बुभुजे। ततो येन केनाऽप्युपायेनाऽसौ शत्रून् निरोत्स्यति स्वयं पृथिवीं पालयिष्यति चेति ध्यात्वा नृपो मुमुदे ।
पुनरन्यदा च राजा परीक्षार्थं मुद्रितान् मोदककरण्डान् पयस्कुम्भांश्च पुत्राणां दत्त्वोवाच-"मुद्रामविलोप्यैव मोदकान् भुञ्जीध्वं छिद्रमकृत्वैव च पयः पिबत" । ततः श्रेणिकं विना कोऽपि कुमारो नाऽभुक्त नाऽपिबच्च । श्रेणिकस्तु करण्डं भ्रामं भ्रामं शलाकाछिद्रपतितं मोदकचूर्णं बुभुजे, घटस्याऽधो जलबिन्दुपूर्णया रूप्यशुक्त्या जलं च पपौ । ततो नृपः परीक्षोत्तीर्णं श्रेणिकं बुद्धिमत्तया राज्याह मेने ।
अथ शीघ्रमेव कुशाग्रपुरे वरुपद्रवो जातः । ततो नृपोऽघोषयत्-“यस्य गृहादग्निरुत्थास्यति सोऽस्मात् पुराद् निर्वास्येत"। अन्यदा च सूदप्रमादेन नृपस्य गृहादेवाऽग्निरुत्तस्थौ । अग्नौ वर्धमाने च प्रसेनजिन्नृपः सुतानुवाच-यो यं पदार्थं मम गृहाद् गृह्णीयात्