________________
९८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पृष्टश्चोवाच-"सुमङ्गलकुमारेण ममैतद्रूपं हरितं, तेन मे वैराग्यं जातम्" । तच्छ्रुत्वा च सुमङ्गलनृपस्तत्र गत्वा क्षमयित्वा पारणार्थमादराद् न्यमन्त्रयत च । सोऽपि नृपायाऽऽशिषं दत्त्वा तन्निमन्त्रणं स्वीचकार । ततो नृपः स्वगृहमगात् । स तापसश्च मासक्षपणे पूर्णे नृपनिमन्त्रणं स्मरन् राजकुलं जगाम ।
तदानीमेव च नृपस्य शरीरास्वास्थ्यं जातम् । तेन द्वारपालो द्वारं पिहितवान् । तेन च स तपस्वी यथागतेनैव यथा निववृते । तथा मासक्षपणं निर्णीयोष्ट्रिकां ययौ । शमप्रकर्षाच्च न नृपाय मनागपि चुकोप । द्वितीयदिने स्वस्थश्च नृपस्तपस्विभक्तः सेनकतापसमुपगम्य नत्वा क्षमयित्वोवाच-"त्वं निमन्त्रितोऽपि मया न पारित एव किन्तु तदाऽन्यत्राऽपि पारणं निवारितम् । तदेवं पुण्याय मम प्रवृत्तिः पापाय सम्पन्ना । तन्ममाऽपराधं क्षमस्व । द्वितीयमासक्षपणे च कल्पपादपो नन्दनमिव मम प्राङ्गणमलङ्काः " । तथेति प्रतिपन्ने तस्मिंस्तापसे स्वगृहं गतो नृपस्तत्पारणदिनं गणयंस्तस्थौ ।
स तपस्वी च मासक्षपणे पूर्णे नृपगृहं जगाम । दैवाच्च नृपस्य पूर्ववदेवाऽस्वास्थ्यं जातम् । तथैव द्वारे पिहिते च स तापसो निवृत्त्य स्वोष्टिकां जगाम । स्वस्थश्च नपः पूर्ववदेव तं तापसं निमन्त्रितवान्। तृतीये मासक्षपणे पूर्णे च स तापसो नृपस्याऽस्वास्थ्यवशात् तथैव निवत्त्य जगाम । ततो नपाधिकारिणो दध्य:-"यदा यदाऽयं तपस्वी समेति तदा तदा नृपोऽस्वस्थो भवति" । तेन च ते आरक्षानाहु:"स तपस्वी मन्त्रिपुत्रः प्रविशन्नेव सर्प इव निर्वास्यः" । तैरारक्षैश्च तथा कृते कुपित: स तापसोऽहमेतस्य नृपस्य वधाय भूयासमिति निदानमकरोत् । ततो विपद्य स तापसोऽल्पद्धिानमन्तरो बभूव । नृपोऽपि च तापसो भूत्वा वानमन्तरत्वमाप ।
दशमं पर्व - षष्ठः सर्गः
च्युत्वा च स सुमङ्गलनृप: प्रसेनजिन्नृपस्य धारिणीकुक्षिजन्मा श्रेणिको नाम पुत्रो बभूव । तत्रैव पुरे च नागनामा रथिकः प्रसेनजिन्नृपसेवकोऽभूत् । स च सदाचारी दानी कलावान् वीरो धीरश्चाऽऽसीत् । तस्य च सुलसाख्या शीलवती पुण्यात्मा गुणवती च पल्यासीत् । एकदा चाऽपुत्रो नागो दध्यौ-"कोमलकरं बालं लालयिष्यामीति मे मनोरथोऽपुत्रस्य वन्ध्यस्येवाऽफल एवाऽभूत् । यो न बाल्याद् ब्रह्मचारी न वा तारुण्ये पुत्री, तस्य जीवनं धिक्"। एवं चिन्ताचान्तस्वान्तं मलिनाननं पति सुलसा रचिताञ्जलिविनयादुवाच-'तवेयं दशा चिन्तयेत्याभाति, तत्का ते चिन्तेति मां कथय" ।
ततो नाग उवाच-'अहमपुत्रोऽस्मि, मम च पुत्रेच्छाऽस्ति, किन्तु कश्चिदुपायो नाऽस्ति" । तत: सुलसोवाच-"त्वमपरा बह्वीः कन्या: परिणय, तासु किमेकाऽपि पुत्रं न प्रसूयेत ?" ततो नाग: पुनरुवाच-"इह भवे त्वमेव मे पत्नी, अन्याभिर्भार्याभिः कृतं, तासु पुत्रस्य तु कथैव का? अहं त्वत्कुक्षिजमेव पुत्रमिच्छामि, तत्पुत्रार्थे यतस्व" । ततः सुलसोवाच-"अहं पुत्रार्थमर्हदाराधनां करिष्ये, सा हि सर्वेप्सितप्रदा" । ततः साऽऽचामाम्लादिभिर्दुस्तपैस्तपोभिरात्मानं पावयन्ती स्वल्पभूषणा कौसुम्भवस्त्राऽर्हदर्चनतत्परा ब्रह्म पालयन्ती समाधिना तस्थौ ।
अथेतः शक्रो निजसभायां श्राविकासु भरते सुलसा श्रेष्ठेति प्रशंसां चकार । तच्छ्रुत्वा विस्मितः कश्चिद्देवः सुलसाया: श्रावकत्वं परीक्षितुमागत्य देवपूजातत्पराया: सुलसाया: गृहे साधुरूपेण प्राविशत् । सुलसा च तं दृष्ट्वा प्रमुदिता भक्त्या वन्दित्वाऽऽगमनकारणं पप्रच्छ । ततः स उवाच-"वैद्येन ममाऽऽख्यातं यत्