________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
कर्मप्रवादं प्रत्याख्यानं विद्याप्रवादं कल्याणकं प्राणावायं क्रियाविशालं लोकबिन्दुसारमित्येवं चतुर्दश पूर्वाणि सूत्रयामासुः । अङ्गेभ्यः पूर्वमेव सूत्रितानि तानीति पूर्वाणि कथ्यन्ते । एवं रचनां कुर्वतां सप्तगणधराणां तेषां मिथो विभिन्नाः सप्त सूत्रवाचनाः अजायन्त । अकम्पिता-ऽचलभ्रात्रोर्मेतार्य-प्रभासयोश्च मिथस्तुल्या एव वाचना अभूवन् । वीरजिनस्यैकादशस्वपि गणधरेषु द्वयोर्द्वयोर्वाचनयोः साम्याद् नव गणा आसन् ।
९६
अथ कालज्ञः शक्रः सौगन्धिकरत्नचूर्णपूर्णं स्थालमादाय प्रभुपार्श्वेऽस्थात् । इन्द्रभूत्यादयश्चाऽपि क्रमशो नम्रमूर्धानः प्रभोराज्ञां प्रतीच्छ्वस्तस्थुः । प्रभुश्च द्रव्यैर्गणैः पर्यायैश्च तीर्थमनुज्ञातमिति ब्रुवन् गौतमशिरसि पूर्वं चूर्णं क्षिप्त्वा क्रमशोऽन्येषामपि शिरसि चिक्षेप । देवाश्च तदानीं प्रमुदिताश्चर्णपुष्पवृष्टि चक्रुः । ततः प्रभुरसौ चिरञ्जीवी चिरं धर्मं द्योतयिष्यतीति सुधर्माणमग्रे कृत्वा गणमन्वज्ञासीत् । तदानीमेव च प्रभुः साध्वीनां संयमोद्योगघटनार्थं चन्दनां प्रवर्त्तिनीपदे स्थापयामास । ततः प्रथमपौरुष्यां पूर्णायां प्रभुर्देशनां विससर्ज ।
तत्र च नृपोपनीतो बलिः प्राग्द्वारेण प्रविवेश । आकाशे उत्क्षिप्तस्य तस्य बलेरर्धं सुरा जगृहु: । पतितस्याऽर्धस्याऽर्धं नृपो जनाश्च शेषं जगृहु: । ततः प्रभुरुत्थाय देवच्छन्दे उपाविशत् । ततः प्रभोः पादपीठे समासीनो गौतमो देशनां चकार । द्वितीयस्यां पौरुष्यां पूर्णायां च गौतमोऽपि देशनाया विरराम । ततः प्रभुस्तत्र कतिचिद्दिवसान् व्यतीत्य लोकान् प्रतिबोध्य सुरादिभिः सेवमानो महीं विजहार ॥ ५ ॥
इति दशमे पर्वणि श्रीमहावीरकेवलज्ञानचतुर्विधसङ्गोत्पत्तिवर्णनात्मकः पञ्चमः सर्गः ॥५॥
षष्ठः सर्गः
अथाऽत्र भरते कुशाग्रपुरनगरेऽतितीक्ष्णबुद्धिर्यशस्वी प्रताप्यस्खलिताज्ञः प्रसेनजिद् नृपो बभूव । वदान्यो लक्ष्मीवांश्च स जिनधर्मानुरागी श्रीपार्श्वजिनाज्ञावशंवदोऽणुव्रतपरायण आसीत् । तेन च बह्व्यो राजकन्याः परिणीताः । तासु च तस्य बहवः पुत्राः स्वसदृशा अभूवन् ।
इतश्चाऽत्र भरते वसन्तपुरनगरे जितशत्रुर्नृपो बभूव । तस्य च गुणग्रामसमग्रा देवी वाऽपरसुन्दरी देव्यासीत् । तस्यां च जितशत्रोर्मङ्गलालयो रूपवान् कलावांश्च सुमङ्गलो नाम पुत्रो बभूव । सेनको नाम मन्त्रिपुत्रश्च तत्तुल्यवयाः सकलाशुभलक्षणैकपात्रं पिङ्गकेशश्चिपिटघ्राणः पिङ्गनेत्रः सर्वाङ्गैरिवाऽप्रियदर्शनो दुर्मतिरभूत् । स यत्र कुत्राऽपि हास्यपात्रमेवाऽभूत् । नृपसुतः सुमङ्गलश्च दूरतो ऽपि तमागच्छन्तं विदूषकमिव विचित्राकारं दृष्ट्वा जहास । एवं नृपपुत्रेणाऽनवरतं दृश्यमानोऽवमानपीडितः स सेनको वैराग्यमाप । विरक्तश्च स उन्मत्त इव शून्यहृदयः पुरान्निरगात् । तस्मिन् मन्त्रिपुत्रे गते च कियता कालेन सुमङ्गलः पित्रा स्वराज्येऽभिषिक्तः ।
सेनकश्च भ्रमन् वने कुलपतिमेकं दृष्ट्वा तत्समीपे तापसो भूत्वोष्ट्रिकाव्रतमाददे । तथा स तीव्रतपः परायणस्तापसैः सह वसन्तपुरं गतो मन्त्रिपुत्रस्तापसश्चेति लोकैः पूजितो वैराग्यकारणं