________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततो मण्डिकं संशयच्छिदे समागतं प्रभुरुवाच-"मण्डिक ! बन्ध-मोक्षयोस्ते संशयो न युक्तः । यतो मिथ्यात्वादिभिर्बन्धो नाम कर्मश्लेषो जीवस्य । तेनैव हि जीवस्य नानाभवभ्रमणम् । ज्ञानादिभिस्तु कर्मपरिशाटो मोक्षः" । एवं प्रभुगिरा छिन्नसंशयो मण्डिकः शिष्याणां सार्धत्रिशत्या प्रवव्राज ।
ततो मौर्यपुत्रः संशयच्छेदाय समुपागतः । तमपि प्रभुराह"मौर्यपुत्र ! तव देवेषु संशयो निर्मूल: । प्रत्यक्षमेव ह्येतान् देवान् पश्य । अन्यस्मिन् काले त्वेते नाऽऽयान्ति, किन्तु मत्समवसरण एवैते समायान्ति ! जिनप्रभावाच्च जिनजन्माभिषेकादावप्येते देवा भुवि समागच्छन्ति । तद्देवाः सन्त्येव" । इति प्रभोर्वचः श्रुत्वा छिन्नसंशयो मौर्यपुत्रोऽपि शिष्याणां सार्धत्रिशत्या प्रवव्राज ।
ततः समागतमकम्पितमपि प्रभुराह-"अकम्पित ! नारकाः कदाऽप्यदर्शनाद् न सन्तीति ते मतिर्न युक्ता । कर्माधीनत्वाद्धि ते नेह समायान्ति । यथा त्वादृशास्तत्र कर्मवशादेव गन्तुमसमर्थाः । तत्ते त्वादृशामनुमेया ज्ञानिनां च प्रत्यक्षाः । न केऽपि केवलिन इति वचश्च मयि प्रत्यक्षे सति मिथ्यैव" । तच्छ्रुत्वा प्रबुद्धोऽकम्पितः शिष्यत्रिशत्या सह प्रवव्राज ।
ततः समागतोऽचलभ्राता । तमपि च प्रभुराह-"अचलभ्रातः ! पुण्य-पापयोस्ते सन्देह: । स न युक्तः । यतः पुण्य-पापयोः फलं लोके प्रत्यक्षमेवाऽनुभूयते । पुण्यस्य हि दीर्घायुष्यलक्ष्म्यादिकं विपरीतं च पापस्य फलं प्रसिद्धमेव" । तेन प्रभुवचसा छिनसंशयोऽचलभ्राता शिष्यशतैः सह व्रतमुपाददे ।
ततो मेतार्यः स्वामिनमुपाजगाम । तं च प्रभुराह-"मेतार्य ! परलोको नास्तीति तव धीभूतेभ्यश्चेतनोत्पत्तिमतिमूला । सा च न
दशमं पर्व - पञ्चमः सर्गः युज्यते । भूतेभ्यो हि जीवो भिन्नः । भूतेषु मिलितेष्वपि चेतनाऽनुपलम्भात् । तत एव च चैतन्यं न भूतधर्म: किन्तु जीवधर्मः । जातिस्मरणादितश्च जीवो भूतभिन्नः परलोकगश्च सिध्यत्येव" । तच्छ्रुत्वा प्रबुद्धो मेतार्यः शिष्यत्रिशत्या सह दीक्षामग्रहीत् ।
ततः प्रभासं चाऽऽगतं प्रभुरुवाच-"प्रभास ! मोक्षे तव संशयो न युक्तः । कर्मक्षयो हि मोक्षः । कर्म च वेदवाक्यतो जीवदशा नानात्वाच्च सिद्धमेव । ज्ञानादिभिश्च कर्म क्षीयते । मोक्षः केवलिनां प्रत्यक्षश्च" । तेन च च्छिन्नसंशयः प्रभासः शिष्यशतत्रय्या दीक्षां गृहीतवान् । तदेवं कुलीनाः प्राज्ञाः संविग्ना लोकवन्द्या एकादशाऽपीन्द्रभूत्यादयो वीरजिनस्य मूलशिष्या अभवन् ।
*** इतश्च चन्दना शतानीकनृपगृहे स्थिता गगने देवान् गतागतं कुर्वतोऽवलोकमाना प्रभोः केवलोत्पत्तिं निश्चिक्ये । ततो व्रतं जिघृक्षुः समीपस्थैर्देवैः समवसरणं नीता प्रभुं त्रिःप्रदक्षिणीकृत्य नत्वोपविष्टा सा । अपरा अपि च नृप-मन्त्रिपुत्र्य: प्रव्रज्यार्थं तत्र समागताः । प्रभुश्च चन्दनामग्रे कृत्वा ताः सर्वाः प्रावाजयत् । सहस्रशो नरा नार्यश्च श्रावकत्वं जगृहुः । ___ अथैवं चतुर्विधे सङ्के जाते प्रभुरिन्द्रभूत्यादीनां स्थित्युत्पादव्ययात्मिकां त्रिपदीमुपदिदेश । ते च तत्रिपद्याऽऽचाराङ्गं सूत्रकृतं स्थानाङ्गं समवायाङ्गं भगवत्यङ्गं ज्ञाताधर्मकथामुपासकदशामंत कृद्दशामनुत्तरोपपातिकदशां प्रश्नव्याकरणं विपाकश्रुतं दृष्टिवादश्चेति द्वादशाङ्गानि चक्रुः । दृष्टिवादे चोत्पादा-ऽऽग्रायणीये वीर्यप्रवादमस्तिनास्तिप्रवादं ज्ञानप्रवादं सत्यप्रवादमात्मप्रवादं