________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः वच:-कायैरशुद्धोऽसन्तोषभाक् स्वं प्रतारयति" । एवं विमृश्य स इन्द्रभूतिः शिष्यैः सह देवापितं धर्मोपकरणं जग्राह ।
अथ तं प्रव्रजितं श्रुत्वाऽग्निभूतिर्दध्यौ-"नूनं तेनैन्द्रजालिकेनेन्द्रभूति: प्रतारितः । तत्सर्वज्ञम्मन्यं तमहं गत्वा जित्वा स्वं भ्रातरमानयामि । नहि मायां विनेन्द्रभूति शास्त्रपारदृश्वानं कोऽपि जेतं क्षमः । यदि स मे संशयं ज्ञाता छेत्ता च तदाऽहमपीन्द्रभतिवत् सशिष्यस्तच्छिष्यः स्याम्" । एवं ध्यात्वाऽग्निभतिः शिष्यपञ्चशतीसमन्वितः समवसरणे उपजिनं ययौ ।।
वीरजिनश्च तमाह-'द्विजाग्निभूते ! गौतमगोत्र ! कर्माऽस्ति न वेति तव संशयः । प्रत्यक्षादिप्रमाणगोचरः कर्म मूर्तममूर्तो जीव: कथं बध्नीयात् ? तथाऽमूर्तस्य जीवस्य मूर्तेन कर्मणा कथमनुग्रहोपघाताविति तवाऽऽशङ्का । सा न समीचीना । यतः सातिशयज्ञानवतां कर्म प्रत्यक्षमेव । त्वादृशानां तु जीववैलक्षण्यतोऽनुमानगम्यमस्त्येव । कर्मवैचित्र्यादेव प्राणिनां सुख-दुःखादयो भवन्ति ।
केऽपि नृपाः केऽपि गजादिवाहनाः, केचिच्च पादचारिणः, केचिद्धनाढ्याः, केचिद् भिक्षुकाः, देशकालादिसाम्येऽपि कस्याऽपि वणिज: प्रचुरो लाभः कस्यचिच्च मूलधनस्याऽपि हानिः । एवंविधकार्यवैचित्र्यस्य कर्मैव हेतुः । नहि कारणं विना कार्यमुपजायते । आकाश-घटयोरिव चाऽमूर्तेन जीवेन कर्मणां सम्बन्धः । मदिरौषधादिभिरिव चाऽमूर्तस्याऽपि जीवस्य कर्मणोपघाता-ऽनुग्रहौ नाऽयुक्तौ । एवं प्रभुणा छिन्नसंशयोऽग्निभूतिः शिष्यपञ्चशत्या सहितः प्रवव्राज ।
दशमं पर्व - पञ्चमः सर्गः
अथ वायुभूतिर्दध्यौ-"येन तादृशौ मे भ्रातरौ जितौ स नूनं सर्वज्ञः । तत्तस्य पूजनादिभिः पूतात्मा छिन्नसंशयश्च स्याम्" । एवं विचार्य स गत्वा प्रभुं प्रणनाम । ततो वीरजिन उवाच-"जीवदेहयोरभेद इति तव भ्रमः । जीवः प्रत्यक्षाद्यविषयत्वाद् न देहभिन्नः, किन्तु जलबुद्दवत् स देहे मूर्च्छतीति तव युक्तिरपि मिथ्या । यतो जीवगुणानामिच्छादीनां प्रत्यक्षतो जीव: सर्वप्राणिनां देशत: प्रत्यक्षः । नेन्द्रियादिरूपो जीवः, इन्द्रियाद्यपगमेऽपि स्मरणाद् देहसद्भावेऽपि मरणाच्च" । एवं वीरवाण्या छिन्नसंशयो भवविरक्तो वायुभूतिः शिष्यपञ्चशतीसहितो दीक्षां ललौ ।
अथ व्यक्तोऽपि चेन्द्रभूत्यादिजेतारं सर्वज्ञं मत्त्वा छिन्ने संशये तच्छिष्यत्वं हृदि कृत्वा प्रभुमुपागतः । ततो वीरजिन उवाच"व्यक्त ! तवेत्थं धारणा यत् पृथिव्यादीनि भूतानि न सन्ति, पृथिव्यादिबुद्धिस्तु जलचन्द्रवद् भ्रमादेवेति सर्वं शून्यमेव । सा च तव मतिमिथ्यैव । यदि सर्वं शून्यं स्यात् कथमनुभूयमानाः सुरनरादिस्वप्ना-ऽस्वप्नादिभेदाः स्युः" । एवं छिन्नसंशयो व्यक्तोऽपि शिष्यपञ्चशतीयुतः प्रवव्राज ।
ततः सुधर्मोपाध्यायोऽपि स्वसंशयच्छेदाय प्रभुमुपाययौ । वीरजिनश्च तमुवाच-"सुधर्मन् ! इहभव-परभवयोस्तुल्य एव देही, कार्यस्य कारणानुरूपत्वनियमात् । नहि धान्येभ्यो यवाः प्ररोहन्तीति तव बुद्धिः । सा न युक्ता । यतो यो यथेह कर्माऽर्जयति परभवे तस्य तथा गतिः । कर्मवैचित्र्यादेव भववैचित्र्यम् । भवे हि कर्मैव कारणम् । न वा कारणानुरूपमेव कार्यम् । शृङ्गादिभ्यो विलक्षणशरादिकार्यदर्शनात्" । इत्याकर्ण्य च्छित्रसंशय: सुधर्माऽपि शिष्याणां पञ्चभिः शतैः सह प्रवव्राज ।