________________
पुरुष-गद्यात्मकसारोद्धारः
पुत्रोऽभूत् । तस्मिन् जाते च धनदेवो विपन्नवान् । लोकाचारवशाच्चाSभार्यो मौर्यको विजयदेवां स्वभार्यां चकार । क्रमाच्च मौर्यस्य विजयदेवायां मौर्यपुत्र इति नाम्ना प्रथितः पुत्रोऽभवत् ।
९०
तथा विमलापुर्यां (मिथिलापुर्याम्) देवाख्यब्राह्मणस्य जयन्त्यां पन्यामकम्पितो नाम पुत्रो बभूव । कोशलापुर्यां वसुनामद्विजस्य च नन्दायां भार्यायामचलभ्राता नाम पुत्रोऽभूत् । वत्सदेशे तुङ्गिकाख्ये सन्निवेशे दत्ताख्यद्विजस्य करुणायां पत्न्यां मेतार्यो नाम सुतोऽभवत् । तथा राजगृहनगरे बलाख्यविप्रस्य भद्रायां भार्यायां प्रभासो नाम सुतोऽभवत् । ते एकादशाऽपि शास्त्रस्य पारदृश्वानो गौतमाद्या उपाध्यायाः शिष्यैः परिवृता आसन् ।
***
अपापायां नगर्यां यष्टुकामो विप्रः सोमिलश्च तान् यज्ञकर्मनिपुणान् श्रद्धयाऽऽनिनाय । तत्र गौतमो वीरं विवन्दिषून् सुरानागच्छतोऽवलोक्य द्विजानुवाच - "अमी देवा मन्त्रेणाऽऽहूता दृश्यरूपा इह यज्ञे समागच्छन्ति, तद्यज्ञस्य प्रभावं पश्यत" । किन्तु चाण्डालगृहमिव यज्ञवाटं त्यक्त्वा समवसरणं प्रति देवेषु गच्छत्सु लोकोऽवोचत् - "अतिशयशाली सर्वज्ञ उद्याने समवसृतः । तं नन्तुममी देवाः पौराश्च प्रमुदिता यान्ति" । तच्छ्रुत्वा सर्वज्ञेत्यक्षरमाक्रोशमिवाऽ सहिष्णुरिन्द्रभूतिः क्रोधात् स्वान् जनानवादीत् - "आम्रं त्यक्त्वा मरुवासिनः करीरमिव मां त्यक्त्वा जनाः पाखण्डिनं यान्ति, धिक् । ममाऽप्यग्रे कोऽपि सर्वज्ञोऽस्ति किम् ? जना मूर्खास्तं यान्ति, खलु यान्तु | अमी देवाः कथं यान्ति ? नूनमस्य कोऽपि महान् दम्भः । तद्देवानां मानवानां च पश्यतामस्यैषोऽहं सर्वज्ञतागर्वमपहरामि " ।
दशमं पर्व पञ्चमः सर्गः
अथैवं स गर्वादुक्त्वा शतपञ्चकशिष्यपरिवृतः समवसरणे वीरजिनमुपययौ । तत्र च प्रभोः ऋद्धिमप्रतिमं तेजश्च दृष्ट्वा विस्मित इन्द्रभूतिः स्थितः । ततो वीरजिनो भो ! इन्द्रभूते ! गौतम ! स्वागतमिति सुधामधुरया वाचोवाच । ततो गौतमो दध्यौ"किमसौ मम गोत्रं नाम च वेत्ति ? यद्वा लोकप्रसिद्धं मां को न वेत्ति ? यद्ययं मम मनःस्थं संशयं वक्ति च्छिनत्ति च ज्ञानेन तदाऽऽश्चर्यम्" ।
तदा वीरजिनस्तमुवाच - "जीवोऽस्ति न वेति तव संशयोऽस्ति, किन्तु चैतन्यलक्षणेन जीवोऽस्त्येव । यदि पुण्य-पापभाग् जीवो न स्यात् तव यज्ञदानादिकं निर्निमित्तं स्यात्" । एवं प्रभोर्वचः श्रुत्वा स इन्द्रभूतिर्मिथ्यात्वेन सहैव सन्देहं त्यक्त्वा वीरजिनं प्रणम्य चोवाच - " मन्दधीरहं त्वत्परीक्षार्थमिहाऽऽगतस्त्वया साधु बोधितोऽस्मि । दुष्टमपि मामद्य भवविरक्तं प्रव्रज्यादानेनाऽनुगृहाण " । ततो वीर जिनस्तमाद्यं गणधरं ज्ञात्वा शिष्यपञ्चशतीसहितं स्वयं प्रव्राजया
मास ।
ततः कुबेरेणौपढौकितं धर्मोपकरणं गृह्णन् निःसङ्गो गौतमो दध्यौ - "निरतीचारव्रतपालने यद्येतदुपयुज्यते तद्धर्मोपकरणं वस्त्रपात्रादिकं ग्राह्यमेव । अन्यथा छद्मस्थैः षड्जीवकाययतनातत्परैः कथं प्राणिदया सम्यक् पालयितुं शक्यते ? यदुद्रमादिशुद्धं गुणवच्च तद् गृहीतमहिंसासाधनमिति तद् ग्राह्यमेव । ज्ञानादियुक्त आद्यन्तमध्येषु शुद्धं सूत्रार्थं साधयेत् । यस्त्वज्ञानी जनोऽत्र परिग्रहं चिन्तयति स हिंसक एव । धर्मोपकरणे परिग्रहधीर्दुष्टा । नहि विना धर्मोपकरणं जलकायादिविविधजन्तूनां त्राणसम्भवः । धृतोपकरणोऽपि मनो