________________
पञ्चमः सर्गः अथ वीरप्रभु ऋजुपालिकाया नद्या उत्तरे तीरे श्यामाकनामगृहिक्षेत्रे शालतरुतलेऽव्यक्तचैत्यसमीपे उत्कटिकासनेन कृतषष्ठ आतापनापरस्तस्थौ । तत्र च प्रभोः शुक्लध्यानस्थस्य क्षपकश्रेणिगतस्य जीर्णरज्जुरिव घातिकर्माणि तुत्रुटुः । ततो वैशाखशुक्लदशम्यां हस्तोत्तरास्थे चन्द्रे दिवसस्य चतुर्थे प्रहरे समुज्जवलं केवलज्ञानमुत्पन्नम् ।
तत इन्द्रा आसनकम्पेन तज्ज्ञात्वा प्रमुदिता देवैः सह तत्राऽऽगत्य नृत्यादिकं विधाय प्रतिवप्रं चतुरिं वप्रत्रययुक्तं समवसरणं यथाविधि विदधुः । अत्र कोऽपि सर्वविरतियोग्यो नास्तीति जानन्नपि वीरजिनः कल्पवशात् तत्रोपविष्टो देशनामकरोत् ।
तत्तीर्थे च समुत्पन्ने गजरथः कृष्णवर्णो वामे भुजे बीजपुरं दक्षिणे नकुलं च दधन् मातङ्गो यक्षः, सिंहवाहना हरितकान्तिर्वामयोर्भुजयोर्मातुलिङ्ग-वल्लक्यौ दक्षिणभुजयो: पुस्तका-ऽभये च दधाना सिद्धायिकादेवी च शासनदेवते प्रभोः सदा सन्निहिते अभूताम् ।
___ अथ वीरजिनस्तत्रोपकारयोग्यजनाभावात् तीर्थकरनामकर्मानुभवाय देवैः परिवृतः स्वर्णकमलेषु पादौ बिभ्रद् यज्ञाय मिलितैः प्रतिबोधपात्रैः शिष्यसमुदायसमन्वितैर्गीतमाद्यैर्विराजितामपापां पुरी जगाम । तत्पुर्याः समीप एव महसेनवनाख्योद्याने देवाः समवसरणं
दशमं पर्व - पञ्चमः सर्गः चक्रुः । वीरजिनश्च सर्वातिशययुक्तो देवादिभिः स्तूयमानः पूर्वद्वारा तत्र प्रविवेश । द्वात्रिंशद्धनून्नतं चैत्यवृक्षं प्रदक्षिणीकृत्य नमस्तीर्थायेत्युक्त्वा सपादपीठे पूर्वरत्नसिंहासने प्राङ्मुख उपविवेश । देवाश्चाऽन्यासु दिक्षु तिसृषु प्रभोः प्रतिबिम्बानि विचक्रुः । ततः सुरादयो यथा द्वारं प्रविश्य प्रभुमुखं पश्यन्तो यथास्थिति तस्थुः । शक्रश्च भक्त्या वीरजिनं नत्वा स्तुत्वा च विरराम ।
ततः प्रभुः सर्वभाषामय्या गिरा देशनामकार्षीत्-"अहो ! समुद्र इवाऽपारो भयङ्करश्च संसार: । तरो/जमिव तस्य हेतुः कमैव । देही स्वकृतकर्मणैवाऽविवेकी कूपखनक इव नीचैर्गतिमाप्नोति । हर्म्यकारक इव च देही सदाशयः स्वकर्मणैवोर्ध्वगतिं याति । तत् कर्मबन्धहेतुं हिंसां वर्जयेत् । स्वप्राणानिव परप्राणानपि त्रायेत । न मिथ्या वक्तव्या, किन्तु सत्यमेव वदेत् । आत्मपीडामिव देही परपीडां परिहरेत् । कस्यचिद् धनस्य हरणं वध एवेति जनोऽदत्तं नाऽऽददीत । जीवसङ्घनाशहेतुं मैथुनं वर्जयेत् । परब्रह्मप्राप्तये ब्रह्मचर्यमेवाऽऽश्रयेत् । परिग्रहं परित्यजेत् । तेनाऽतिभारेण वृषभ इव पीडितो जनोऽधः पतति । हिंसादीन् सूक्ष्मान् परिहर्तुमनीश्वरो बादरांस्त्यजेत्" । एवं वीरजिनस्य देशनां शृण्वन्तो जना आनन्दमग्नास्तस्थुः ।
इतश्च मगधदेशे गोबरग्रामे गौतमगोत्रो वसुभूतिर्द्विजो बभूव । तस्य पृथिव्यां पत्न्यां गौतमगोत्रीया इन्द्रभूत्यग्निभूतिवायुभूतिनामानः पुत्रा अभूवन् । कोल्लाके च धनुमित्रस्य द्विजस्य वारुण्यां पन्यां व्यक्तो, धम्मिल्लस्य द्विजस्य च भद्रिलायां सुधर्मा च पुत्रौ बभूवतुः। मौर्याख्यसन्निवेशे द्विजो मिथो मातृष्वस्त्रेयकौ धनदेवमौर्यावभूताम् । तयोर्धनदेवस्य विजयदेवायां भार्यायां मण्डकनामा