________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तेन तथा ते शलाके ताडिते यथा ते मिलिते अखण्डैकशलाकत्वं प्रापतुः । एतौ कीलको कोऽपि मा कृषदिति स मन्दधीस्तत्कीलक बहिरंशं छित्त्वा जगाम।
प्रभुश्च कर्णयोः पीडितोऽपि शुभध्यानादचलितो धर्मध्यानं प्राप। पारणार्थं च प्रभुः सिद्धार्थवणिग्गेहं प्राप्तस्तेन भक्त्या प्रतिलाभितः । तत्र सिद्धार्थस्य मित्रं पूर्वायातो वैद्यः खरकः प्रभुं दृष्ट्वोवाच-"अहो ! प्रभोः समग्रलक्षणा मूर्तिम्ानत्वेन शल्यवती लक्ष्यते । ततः सम्भ्रमात् सिद्धार्थे भगवतो देहे क्व शल्यमिति सम्यङ् निरूपये"त्युक्तः स वैद्यः सम्यक् पश्यन् प्रभोः कर्णयोः कीलौ ददर्श । सिद्धार्थस्याऽपि तददर्शयच्च । ततः सिद्धार्थ उवाच-"केनाऽपि क्रूरेणेदं कर्म कृतं, तच्छल्योद्धाराय यत्नं कुरु । प्रभोः कर्णयोः पीडा हि ममैव पीडेति मन्ये'।
ततो वैद्य उवाच-"प्रभुः कर्मक्षयायैवाऽपकारिणमुपैक्षिष्ट नाऽशक्त्या । अयं च देहेऽपि निर्ममः कथं चिकित्स्यः, य: पीडां कर्मनिर्जरार्थमिष्टां मन्यते ?" तत: सिद्धार्थः पुनरुवाच-"नाऽयं विवादावसरः, चिकित्सैव खलु कर्त्तव्या । तयोरेवं वदतोश्च प्रभुनिरपेक्षत्वात् ततो गत्वा बहिरुद्याने शुभध्यानमग्नस्तस्थौ । तौ च सिद्धार्थ-खरको भेषजादिकं गृहीत्वा तदुद्याने भगवन्तमुपजग्मतुः । ___ततस्तौ प्रभुं तैलद्रोण्यामुपवेश्य तैलेनाऽभ्यज्य च बलवद्भिः संवाहकैरमर्दयताम् । तन्मर्दनात् सन्धिषु श्लथेषु सत्सु तौ संदंशाभ्यां युगपत् कर्णकीलकावकृष्येताम् । ततोऽवशिष्टं वेदनीयं कर्मेव प्रभोः कर्णविवरयोः सरुधिरं कीलद्वयं निर्ययौ । कीलकर्षणेन च तथा वेदना जाता यथा प्रभुर्वजाहतपर्वत इव भीषणारावं ररास । ततस्तौ सिद्धार्थ
दशमं पर्व - चतुर्थः सर्गः
८७ खरको संरोपणभेषजेन को रोपयित्वा प्रभुं प्रणम्य क्षमयित्वा च स्वगृहं जग्मतुः । एवं प्रभोर्वेदनाकरावपि तौ देवश्रीभाजनमभूताम् । दु(ोपालश्च स्वामिवेदनानिमित्तं सप्तमनरकदुःखभाजनमभूत् । प्रभोभैरवारावाच्च तदुद्यानं महाभैरवमिति प्रथितम् । लोकाश्च तत्र देवकुलं विदधुः।
तदेवं प्रभोः सर्वेषूपसर्गेषु सर्वजघन्यषूत्कृष्टं कटपूतनाशीतं, मध्यमं कालचक्रं, शलाकोद्धरणं चोत्कृष्टम् । गोपारब्धाश्चोपसर्गा गोपेनैव पर्यवसिताः । तथा प्रभोश्चतुर्मासक्षपणानि नव, द्विमासिकानि षट्, मासक्षपणानि द्वादश, अर्धमासक्षपणानि द्विसप्ततिः, एकं षण्मासीक्षपणं, त्रिमासिकं द्वयं, सार्धमासिकं द्वयं, सार्धद्विमासिकं द्वयं, भद्रादिप्रतिमात्रयं चाऽभूवन् । तथैकमभिग्रहयुक्तं दिनपञ्चकन्यून षाण्मासिकं क्षपणमभूत् ।
चरमायां रात्रौ कायोत्सर्गयुक्ता अष्टमभक्तत एकरात्रिक्यो द्वादश प्रतिमाः, एकोनत्रिंशदधिके द्वे षष्ठशते च प्रभोरभूवन् । नित्यभक्तं चतुर्थं च कदाऽपि नाऽभूत् । तथैकोनपञ्चाशं पारणादिनं शतत्रयमभूत् । एवं प्रभोव्रतदिनात् सपक्षिका सार्द्धा द्वादशाब्द्यभूत् । एवं प्रभुर्जलरहितं सर्वं तपश्छद्मस्थो विधायोपसर्ग सहमानो विहरन् ऋजुपालिकया महत्या नद्या शोभितं जृम्भकसन्निवेशं जगाम ॥ ४॥
इति दशमे पर्वणि श्रीमहावीरद्वितीयषड्वर्षछास्थविहार
वर्णनात्मकः चतुर्थः सर्गः ॥४॥