Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 81
________________ १३५ १३४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः दीक्षितानां क्षत्रियमुनीनामाचार्यपदे प्रतिष्ठितश्चतुर्थ-षष्ठा-ऽष्टमादीनि तपांस्यकरोत् । चन्दनामनुसरन्ती प्रियदर्शना चाऽपि तपांस्यकरोत् । अन्यदा च "सपरिच्छदोऽहमनियतेन विहारेण त्वदनुज्ञया गच्छामी"ति जमालिना भूयो भूय: प्रार्थितोऽपि प्रभुर्ज्ञानेन भाविनमनर्थ ज्ञात्वा न किमप्युदतरत् । जमालिश्च मौनं स्वीकारलक्षणमिति मत्वा विहर्तुं प्रभोः पार्थात् सपरिच्छदो निर्गतवान् ।। ___ अथ विहरन् जमालिः क्रमात् श्रावस्ती नगरीं प्राप्य कोष्टकाभिधे बहिरुद्याने समवासार्षीत् । असमयेऽपथ्यपानान्नाशनेन च तस्य पित्तज्वर उदभूत् । उपविष्टः स स्थातुमक्षम: शिष्यमुनीन् संस्तारककरणायाऽऽदिशत् । ततस्ते संस्तारकं कर्तुं प्रारेभिरे । पित्तपीडितश्च स पुनः पुनः संस्तारकः कृतो न वेति पप्रच्छ । संस्तारकः संस्तृत इति मुनिभिरुक्तश्च स जमालिरुत्थाय तत्समीपं गत्वा संस्तारकं क्रियमाणं दृष्ट्वाऽक्षमत्वात् तत्रोपविश्य जातमिथ्यात्व: कोपाद् मुनीनब्रवीत्-"भोश्चिराद् भ्रान्त्वा मयेदं ज्ञातं यत् क्रियमाणं न कृतं किन्तु कृतमेव कृतम्" । तद्भवद्भिर्यत् क्रियमाणं कृतं वर्णितं तदसत्यं वक्तुं नोचितम् । यत्तु जिन उत्पद्यमानमुत्पन्नं क्रियमाणं च कृतं वक्ति तत् प्रत्यक्षविरुद्धम् । क्षणसमूहसाध्ये वस्तुनि प्रारम्भे कृतत्वोक्तिमिथ्यैव । अर्थक्रियाकारि वस्तु मतम् । न चाऽऽद्यक्षणसम्बन्धमात्रेण वस्तुनि साध्यावस्थावस्थेऽर्थक्रियाकारित्वम् । यदि च प्रारम्भ एव वस्तुनः कृतत्वं तदा शेषक्षणेषु कृतस्यैव करणं स्यादित्यनवस्थैवाऽऽपद्येत । तत्कृतमेव कृतमिति युक्तम् । नवजातस्य सुतस्य नाम क्रियते । प्रत्यक्षमेव प्रतिपत्तव्यम्। नहि महद्भिरुक्तमित्येतावता युक्तियुक्तं त्याज्यम् । दशमं पर्व - अष्टमः सर्गः सर्वज्ञोऽर्हन्न मिथ्या वदेदिति न भ्रान्तव्यं, महान्तोऽपि हि क्वचित् स्खलन्ति"। एवं विरुद्धं भाषमाणं कुपितं निर्मर्यादं जमालिं स्थविरा ऊचुः-एवं किं विरुद्धं भाषसे? वीतरागा जिना नाऽन्यथा भाषन्ते। नहि तद्वचसि प्रत्यक्षविरोधादिदोषलेशोऽपि । यदि वस्तु प्रारम्भे नोत्पन्नं तदा कालाविशेषात् समयान्तरेऽपि नोत्पन्नं स्यात् । प्रारम्भेऽपि च वस्तुनोऽभिधाज्ञानोपयोगसद्भावादर्थक्रियाकारित्वमस्त्येव । ब्रवीत्येव हि पृष्टो लोको घटं करोमीति । न वा प्रारम्भे यत् कृतं तदेव द्वितीयक्षणादौ क्रियते, किन्त्वन्यदेवेति नाऽनवस्थाऽपि । छद्मस्थानां च युक्तायुक्तत्वविवेकोऽयोग्यस्त्वादृशानामित्यग्राह्यमेव त्वद्वचः । केवलिनः सर्वज्ञा एव प्रमाणमिति त्वत्प्रयासो वथैव । महतां स्खलनोक्तिश्चैवमुन्मत्तजल्पितं तव । उक्तप्रकारेण क्रियमाणं कृतमिति सर्वज्ञोक्तेयुक्तत्वात् । त्वं च सर्वज्ञोपदेशत एव प्राज्यमपि राज्यं तृणवत् त्यक्त्वा प्राव्राजीरिति गुरुवचनमदूष्यं दूषयतस्तव भववृद्धिरेव जायते । तद्वीरजिनमुपगम्य त्वया प्रायश्चित्तं विधेयम् । अर्हद्वचनमेकाक्षरमात्रमप्यश्रद्दधानो मिथ्यात्वतो भवपरम्परामेव याति । एवं स्थविरैर्बहुधा बोधितोऽपि जमालिः स्वनिश्चयादनिवृत्तो मौनं शिश्राय । तेन च कुमताग्रहिणं तं केऽपि स्थविरास्तदैव त्यक्त्वा प्रभुमुपजग्मुः । केचनैव च तत्र तस्थुः । प्रियदर्शना चाऽपि स्त्रीसुलभमोह-स्नेहाभ्यां सपरिवाराऽपि जमालिपक्षमेव श्रितवती । क्रमाच्च नीरोगो जमालिस्तत्स्वदुर्मतमेव प्रतिदिनं जनानुपदिशन् जिनवचनं हसन् स्वं सर्वज्ञं ख्यापयन् साहङ्कारः सपरिवारो विजहार" ।

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147