Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 84
________________ १४० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तस्याऽङ्गुष्ठं छेदयामास । ततः स चित्रकरः कृतोपवासो गत्वा तं यक्षं सिषेवे । ततो यक्षो 'वामहस्तेनैव प्राग्वच्चित्रं करिष्यसी"ति वरं ददौ । लब्धवरश्चित्रकरो दध्यौ-"अहं निरपराधोऽपि नृपेणेमां दशां प्रापितोऽस्मि । तत्केनाऽप्युपायेन तं प्रतिकरिष्यामि" । अथैवं निश्चित्य स चित्रकरः फलके साभूषणां मृगावतीमनुपमसुन्दरीं लिखित्वा गत्वा स्त्रीलम्पटस्य चण्डप्रद्योतनृपस्य दर्शयामास । चण्डप्रद्योतश्च चित्रं चित्रकरं च प्रशस्य जातरागश्चित्रकराद् मृगावती ज्ञात्वा शतानीकाद् मृगावती सिंहो मृगाद् मृगीमिव ग्रहीष्यामीत्युक्त्वा वज्रजङ्घाख्यं दूतमनुशिष्य शतानीकनृपान्तिकं प्रेषयामास । दूतश्च गत्वा शतानीकनृपं 'राज्यं प्राणाश्च ते प्रियाश्चेद् मृगावतीं शीघ्रमस्मभ्यं प्रेषये"ति चण्डप्रद्योतादेशमुवाच। शतानीकेन च कोपात कट्क्त्या निर्भत्सितः स दूतोऽवल्यामागत्य चण्डप्रद्योतस्य सर्वं वृत्तं कथयामास । ततः क्रुद्धश्चण्डप्रद्योतो महता सैन्येन कौशाम्बी प्रति प्रतस्थे । शतानीकश्च प्रद्योतमायान्तं श्रुत्वा जातातिसारो भयाद् मृत्युमाप । तत: पतिव्रता मृगावती दध्यौ-"पतिर्मे मृतः । बाल उदयनः पुत्रश्च स्वल्पबलः । तदस्मिन् स्त्रीलम्पटे कपट एव स्वकलङ्कनिवारणाय विधेय: । अवसरं प्रतीक्षमाणाऽहमनुकूलैः सन्देशवचनैस्तं प्रलोभ्य कथमपि कालं नेष्यामि" । एवं विचार्य च सा दूतमनुशिष्य प्रेषयामास । स दूतश्च गत्वा शिबिरस्थं चण्डप्रद्योतमुवाच-"देव ! मृगावती त्वां ब्रूते-शतानीके मृते पुत्रे चाऽल्पबले बाले त्वमेव शरणं मम । किन्तु मया त्यक्तोऽयं प्रत्यासन्ननृपैरभिभविष्यते" । तद्वचसा प्रीतः प्रद्योत उवाच-मयि रक्षके को नाम तत्पुत्रमभिभवितुमीश: ?" दशमं पर्व - अष्टमः सर्गः ...१४१ ततो दूत उवाच-“देव ! देव्यप्येवं मन्यते । किन्तु भवन्तो दूरे सीमनृपाश्च समीपे । तद्यदि देव्या निर्विघ्नं योगमिच्छसि तदोज्जयिन्या इष्टकाभिः कौशाम्ब्यां विशालं दृढं च प्राकारं कुरु" । चण्डप्रद्योतश्च तत् प्रपद्य मार्गे श्रेणिरूपेण निजान् चतुर्दशाऽपि नृपतीन् सपरिच्छदान् मुमोच । तत: पुरुषपरम्परयाऽवन्त्या इष्टका समानीय कौशाम्ब्या दृढं प्राकारं कारयामास । मृगावत्या पुनर्धनधान्यादिभिः पुरं पूरयेति सन्दिष्टश्च प्रद्योतः सर्वं शीघ्रमेव चकार । ततो मृगावतीनगरी रोधक्षमां ज्ञात्वा द्वाराणि पिधाय तत्र तस्थौ । प्राकारे च भटानारोपयत् । ततश्च चण्डप्रद्योतो भृशं विषण्णोऽभितः पुरीं रुद्ध्वा तस्थौ । अथाऽन्यदा वैराग्यमुद्वहन्ती मृगावती दध्यौ-"यदि प्रभुर्वीरः समायाति तदाऽहं प्रव्रजामि" । वीरजिनश्च तस्या भावं विज्ञाय सपरिवारस्तत्र शीघ्रमेव समाययौ । मृगावती च बहि: प्रभु समवसृतं श्रुत्वा निर्भया द्वाराण्युद्घाट्याऽऽगत्य प्रभुं वन्दित्वा यथास्थानं तस्थौ । प्रद्योतोऽपि समागत्य प्रभुं नत्वा त्यक्तवैरः समुपाविशत् । प्रभुश्च धर्मदेशनां चकार । तदानीं च लोकात् सर्वज्ञोऽयमिति श्रुत्वा कश्चिद् धनुर्धरः पुरुषोऽदूरस्थ एव मनसा प्रभुं संशयं पप्रच्छ । ततः प्रभुरुवाच"वचसा स्वसंशयं ब्रूहि । यथाऽन्येऽपीमे भव्याः प्रतिबुध्यन्ते" । प्रभुणैवमुक्तोऽपि लज्जालुः स स्पष्टं वक्तुमसमर्थो या या सा सेत्यल्पाक्षरं पप्रच्छ । प्रभुश्चाऽप्येवमेतदित्यल्पाक्षरमेव प्रत्युवाच । ततो गौतमो या या सा सेति किं वच इति प्रभुं पप्रच्छ। ततो वीरजिन उवाच

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147